Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 10

43 Mantra
5/10
Devata- वाग्देवता Rishi- गोतम ऋषिः Chhand- ब्राह्मी उष्णिक्, Swara- ऋषभः
Mantra with Swara
सि॒ह्यसि सपत्नसा॒ही दे॒वेभ्यः॑ कल्पस्व सि॒ह्यसि सपत्नसा॒ही दे॒वेभ्यः॑ शुन्धस्व सि॒ह्यसि सपत्नसा॒ही दे॒वेभ्यः॑ शुम्भस्व॥१०॥

सि॒ꣳही। अ॒सि॒। स॒प॒त्न॒सा॒ही। स॒प॒त्न॒सहीति॑ सपत्न॒ऽसही। दे॒वेभ्यः॑। क॒ल्प॒स्व॒। सि॒ꣳही। अ॒सि॒। स॒प॒त्न॒सा॒ही। स॒प॒त्न॒स॒हीति॑ सपत्नऽस॒ही। दे॒वेभ्यः॑। शु॒न्ध॒स्व॒। सि॒ꣳही। अ॒सि॒। स॒प॒त्न॒सा॒ही। स॒प॒त्न॒स॒हीति॑ सपत्नऽस॒ही। दे॒वेभ्यः॑। शु॒म्भ॒स्व॒ ॥१०॥

Mantra without Swara
सिँह्यसि सपत्नसाही देवेभ्यः कल्पस्व सिँह्यसि सपत्नसाही देवेभ्यः शुन्धस्व सिँह्यसि सपत्नसाही देवेभ्यः शुम्भस्व ॥

सिꣳही। असि। सपत्नसाही। सपत्नसहीति सपत्नऽसही। देवेभ्यः। कल्पस्व। सिꣳही। असि। सपत्नसाही। सपत्नसहीति सपत्नऽसही। देवेभ्यः। शुन्धस्व। सिꣳही। असि। सपत्नसाही। सपत्नसहीति सपत्नऽसही। देवेभ्यः। शुम्भस्व॥१०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सिं७ही) हिनस्ति दोषान्यया यद्वा सिञ्चत्युच्चारयति यया वाचा सा,हिंसेः सिंह इति हयवरडिति व्याख्यानेमहाभाष्यकारोक्तिः। सिचेः संज्ञायां हनुमौ कञ्च ॥ उ०५ । ६२ ॥ अनेन कप्रत्ययो हकारादेशो नुमागमश्च। अत्र सर्वत्र गौराद्याकृतिगणान्तर्गतत्वान्ङीष्(असि) अस्ति। अत्र सर्वत्र व्यत्यय: (सपत्नसाही) यया सपत्नान्=शत्रून् सहन्ते सा (देवेभ्यः) दिव्यगुणेभ्यो विद्यां चिकीर्षुभ्यः शूरवीरेभ्यः (कल्पस्व) अध्यापनोपदेशाभ्यां समर्थय (सिं७ही) अविद्याविनाशिका (असि) अस्ति (सपत्नसाही) यया सपत्नान्=दोषान् सहन्ते=मृष्यन्ति दूरीकुर्वन्ति सा (देवेभ्यः) धार्मिकेभ्यः (शुन्धस्व) शोधय (सिं७ही) दुष्टशीलविनाशिनी (असि) अस्ति (सपत्नसाही) यया सपत्नान्=दुष्टानि शीलानि सहन्ते सा (देवेभ्यः) सुशीलेभ्यो विद्वद्भ्यः (शुम्भस्व) शोभायुक्तां कुरु।। अयं मंत्रः शत० ३। ५। १। ३३ व्याख्यातः।। १०।।
Essence
त्रिविधा खलु वाग् भवति शिक्षाविद्यासंस्कृता, सत्यभाषणा, मधुरा चैषा मनुष्यैः सदास्वीकार्या ।। ५ । १० ।।
Subject
अथ सर्वासां विद्यानां मुख्यसाधिकाया वाचो गुणा उपदिश्यन्ते ॥
Meaning of Anvay
हे विद्वंस्त्वं या सपत्नसाही यथा सपत्नान्=शत्रून् सहन्ते सा सिंही हिनस्ति दोषान् यया, यद्वा सिञ्चत्युच्चारयति यया वाचा सा वाग् [असि]=अस्ति, तां देवेभ्यः दिव्यगुणेभ्य: विद्यांचिकीर्षुभ्यः शूरवीरेभ्यः कल्पस्व अध्यापनोपदेशाभ्यां समर्थय।
या सपत्नसाही यया सपत्नान्=दोषान् सहन्ते=मृष्यन्ति दूरीकुर्वन्ति सा, सिंही अविद्याविनाशिका वाग् [असि]=अस्ति, तां देवेभ्यः धार्मिकेभ्य: शुन्धस्व शोधय।
या सपत्नसाही यया सपत्नान्=दुष्टानि शीलानि सहन्ते सा, सिंही दुष्टशीलविनाशिनी वाग् [असि]=अस्ति तां देवेभ्यः सुशीलेभ्यो विद्वद्भ्यःशुम्भस्व शोभायुक्तां कुरु ॥ ५ । १० ।।
[ हे विद्वंस्त्वं वा सपत्नसाही सिंही वाग् [असि]=अस्ति तां देवेभ्यः कल्पस्व, शुन्धस्व, शुम्भस्व]
Special
गोतमः। वाक्=वाणी ॥ ब्राह्म्युष्णिक् । ऋषभः ॥