Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 1

43 Mantra
5/1
Devata- विष्णुर्देवता Rishi- गोतम ऋषिः Chhand- स्वराट् ब्राह्मी बृहती Swara- मध्यमः
Mantra with Swara
अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा॒ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा॥१॥

अ॒ग्नेः। त॒नूः। अ॒सि॒। विष्ण॑वे ॥ त्वा॒ सोम॑स्य। त॒नूः अ॒सि॒। विष्ण॑वे। त्वा॒। अति॑थेः। आ॒ति॒थ्यम्। अ॒सि॒। विष्ण॑वे। त्वा॒। श्येनाय॑। त्वा॒। सो॒म॒भृत॒ इति॑ सोम॒ऽभृते॑। विष्ण॑वे। त्वा॒। अ॒ग्नये॑। त्वा॒। रा॒य॒स्पो॒ष॒द इति॑ रायस्पोष॒ऽदे। विष्ण॑वे। त्वा॒ ॥१॥

Mantra without Swara
अग्नेस्तनूरसि विष्णवे त्वा सोमस्य तनूरसि विष्णवे त्वातिथेरातिथ्यमसि विष्णवे श्येनाय त्वा सोमभृते विष्णवे त्वाग्नये त्वा रायस्पोषदे विष्णवे त्वा ॥

अग्नेः। तनूः। असि। विष्णवे॥ त्वा सोमस्य। तनूः असि। विष्णवे। त्वा। अतिथेः। आतिथ्यम्। असि। विष्णवे। त्वा। श्येनाय। त्वा। सोमभृत इति सोमऽभृते। विष्णवे। त्वा। अग्नये। त्वा। रायस्पोषद इति रायस्पोषऽदे। विष्णवे। त्वा॥१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्नेः) विद्युत्प्रसिद्धरूपस्य (तनूः) शरीरवत् (असि) भवति। अत्र सर्वत्र व्यत्ययः (विष्णवे) यज्ञानुष्ठानाय (त्वा) तद्धविः (सोमस्य) जगत्युत्पन्नस्य पदार्थसमूहस्य रसस्य वा (तनूः) विस्तारकम् (असि) भवति (विष्णवे) व्यापनशीलस्य वायोश्च शुद्धये (त्वा) तां सामग्रीम् (अतिथेः) अविद्यमानतिथेर्विदुषः (आतिथ्यम्) यदतिथेर्भावः सत्काराख्यं कर्म वा (असि) वर्त्तते तत् (विष्णवे) व्याप्तिशीलाय विज्ञानप्राप्तिलक्षणाय वा यज्ञाय (त्वा) तद्यज्ञसाधनम् (श्येनाय) श्येनवदितस्ततः सद्यो गमनाय (त्वा) तद्धवनं कर्म (सोमभृते) यः सोमान् बिभर्त्ति तस्मै यजमानाय (विष्णवे) सर्वविद्याकर्मव्यापनस्वभावाय (त्वा) तदुत्तमं सुखम् (अग्नये) पावकवर्द्धनाय (त्वा) तदिन्धनादिकं वस्तु (रायस्पोषदे) यो रायो=विद्याधनसमूहस्य पोषं=पुष्टिं ददाति तस्मै (विष्णवे) सर्वसद्गुणविद्याकर्मव्याप्तये (त्वा) तामेतां क्रियाम् ॥ अयं मंत्रः शत० ३। ४। १। ९-१४ व्याख्यातः ।। १।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ मनुष्यैरेतत्फलप्राप्तये त्रिविधो यज्ञो नित्यमनुष्ठेय इति ।। ५ । १ ।।
Subject
अथ किमर्थो यज्ञोऽनुष्ठातव्य इत्युपदिश्यते ।।
Meaning of Anvay
हे मनुष्या ! यथाऽहं यद्धविरग्नेः विद्युत्प्रसिद्धरूपस्य तनूः शरीरवदुअसि=भवति त्वा तद् तद्धविः विष्णवे यज्ञानुष्ठानाय स्वीकरोमि।
या सोमस्य जगत्युत्पन्नस्य पदार्थसमूहस्य रसस्य वा [तनूः] विस्तारकं, सामग्र्यसि=भवति त्वा=तां तां सामग्री विष्णवे व्यापनशीलस्य वायोश्च शुद्धये उपयुञ्जामि।
यदतिथेः अविद्यमानतिथेर्विदुषः आतिथ्यं यदतिथेर्भावः सत्काराख्यं कर्म वा असि=वर्त्तते त्वा=तद् तद् यज्ञसाधनं विष्णवे व्याप्तिशीलाय=विज्ञानप्राप्तिलक्षणाय वा यज्ञाय परिगृह्णामि।
यत् [श्येनाय]=श्येनवच्छीघ्रगमनाय श्येनवदितस्ततः सद्यो गमनाय प्रवर्त्तते त्वा=तद् (तद्धवनं कर्म) अग्न्यादिषु प्रक्षियामि।
यत्कर्म विष्णवे सर्वविद्याकर्मव्यापनस्वभावाय, सोमभृते यः सोमान् बिभर्ति तस्मै यजमानाय वर्त्तते त्वा=तद् उत्तमं सुखम् आददे।
यदग्नये पावकवर्द्धनायवरीवृत्यते त्वा=तद् तदिन्धनादिकं वस्तु स्वीकरोमि।
यद् रायस्पोषदे यो रायो विद्याधनसमूहस्य पोषम्=पुष्टिं ददाति तस्मै विष्णवे सर्वसद्गुणविद्याकर्म व्याप्तये समर्थकर्मास्ति त्वा=तत् तामेतां क्रियां संगृह्णामितथैवैतत्सर्वं यूयमपि सेवध्वम् । ५।१॥
[यद्धविरग्नेरत्तनूरसि=भवति त्वा=तद् विष्णवे, [श्येना]=श्येनवच्छीघ्रगमनाय, विष्णवे सोमभृते, अग्नये,रायस्पोषदे विष्णवे........त्वा=तत् संगृह्णामि]
Special
गोतमः। विष्णुः=यज्ञः। स्वराड्ब्राह्मी बृहती। मध्यमः।।