Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 8

37 Mantra
4/8
Devata- ईश्वरो देवता Rishi- आत्रेय ऋषिः Chhand- आर्षी अनुष्टुप् Swara- गान्धारः
Mantra with Swara
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्त्तो॑ वुरीत स॒ख्यम्। विश्वो॑ रा॒यऽइ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑॥८॥

विश्वः॑। दे॒वस्य॑। ने॒तुः। मर्त्तः॑। वु॒री॒त॒। स॒ख्यम्। विश्वः॑। रा॒ये। इ॒षु॒ध्य॒ति॒। द्यु॒म्नम्। वृ॒णी॒त॒। पु॒ष्यसे॑। स्वाहा॑ ॥८॥

Mantra without Swara
विश्वो देवस्य नेतुर्मर्ता वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नँ वृणीत पुष्यसे स्वाहा ॥

विश्वः। देवस्य। नेतुः। मर्त्तः। वुरीत। सख्यम्। विश्वः। राये। इषुध्यति। द्युम्नम्। वृणीत। पुष्यसे। स्वाहा॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विश्व:) सर्वो जनः (देवस्य) सर्वप्रकाशकस्य (नेतुः) सर्वनयनकर्तुः परमेश्वरस्य (मर्त्तः) मनुष्यः। मर्त्ता इति मनुष्यनामसु पठितम् ॥ निघं० २ ।३ ।। (वुरीत) वृणीयात् । अत्र बहुलं छन्दसीति विकरणस्य लुक् (सख्यम्) सख्युर्भावः कर्म वा (विश्व:) अखिलः (राये) धनप्राप्तये (इषुध्यति) शरान्धारयेत्, लेट्प्रयोगोऽयम् (द्युम्नम्) धनम् (वृणीत) स्वीकुर्य्यात् (पुष्यसे) पुष्टो भवे:। अत्र व्यत्ययेनात्मनेपदम्।लेट्प्रयोगोऽयम् (स्वाहा) सत्क्रियया ॥ अयं मंत्र: श० ३ ।१ ।४ ।१७–१८ व्याख्यातः ॥ ८॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः।।सर्वैर्मनुष्यैः परमेश्वरमुपास्य परस्परं मित्रतां कृत्वा युद्धे दुष्टान् विजित्य राजश्रियं प्राप्य सुखयितव्यम् ॥ ४। ८॥
Subject
मनुष्यैः परमेश्वराश्रयेण किं किं कर्त्तव्यमित्युपदिश्यते ।।
Meaning of Anvay
यथा विश्वः सर्वोजनः मर्त्तः मनुष्यः नेतुः सर्वनयनकर्तुः परमेश्वरस्य देवस्य=जगदीश्वरस्य सर्वप्रकाशकस्य सख्यं सख्युर्भावः कर्म वा वुरीत वृणीयात्, विश्वः अखिलः राये धनप्राप्तये इषुध्यति शरान् धारयेत्,स द्युम्नं धनं वृणीत स्वीकुर्यात्, तथा हे मनुष्य ! एतत् सर्वमनुष्ठाय स्वाहाः सत्क्रियया त्वमपि पुष्यसे=पुष्टोभवेः ॥ ४ ॥ ८ ॥

[विश्वो मर्त्तो......देवस्य=जगदीश्वरस्य सख्यंवुरीत, विश्वो राय इषुध्यति]
Meaning of Essence
देवस्य=परमेश्वरस्य।सख्यम्=परस्परं मित्रताम्। राये=राजश्रीप्राप्तये।
Special
आत्रेयः।ईश्वरः=स्पष्टम्आर्ष्यनुष्टुप् । गान्धारः॥