Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 7

37 Mantra
4/7
Devata- अग्निर्देवता । आपो देवता । बृहस्पतिर्देवता । Rishi- प्रजापतिर्ऋषिः Chhand- पङ्क्ति,आर्षी बृहती, Swara- पञ्चमः, मध्यमः
Mantra with Swara
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहा॑। आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ऽउरो॑ऽन्तरिक्ष। बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑॥७॥

आकू॑त्या॒ इत्याऽकू॑त्यै। प्र॒युज॒ इति॑ प्र॒ऽयुजे॑। अ॒ग्नये॑। स्वाहा॑। मे॒धायै॑। मन॑से। अ॒ग्नये॑। स्वाहा॑। दी॒क्षायै॑। तप॑से। अ॒ग्नये॑। स्वाहा॑। सर॑स्वत्यै। पू॒ष्णे। अ॒ग्नये॑। स्वाहा॑। आपः॑। दे॒वीः॒। बृ॒ह॒तीः॒। वि॒श्व॒शं॒भु॒व॒ इति॑ विश्वऽशंभुवः। द्यावा॑पृथिवी॒ऽइति द्यावा॑पृथिवी। उरो॒ऽइत्युरो॑। अ॒न्त॒रि॒क्ष॒। बृह॒स्पत॑ये। ह॒विषा॑। वि॒धे॒म॒। स्वाहा॑ ॥७॥

Mantra without Swara
आकूत्यै प्रयुजे ग्नये स्वाहा मेधायै मनसे ग्नये स्वाहा दीक्षायै तपसेग्नये स्वाहा सरस्वत्यै पूष्णेग्नये स्वाहा । आपो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष । बृहस्पतये हविषा विधेम स्वाहा ॥

आकूत्या इत्याऽकूत्यै। प्रयुज इति प्रऽयुजे। अग्नये। स्वाहा। मेधायै। मनसे। अग्नये। स्वाहा। दीक्षायै। तपसे। अग्नये। स्वाहा। सरस्वत्यै। पूष्णे। अग्नये। स्वाहा। आपः। देवीः। बृहतीः। विश्वशंभुव इति विश्वऽशंभुवः। द्यावापृथिवीऽइति द्यावापृथिवी। उरोऽइत्युरो। अन्तरिक्ष। बृहस्पतये। हविषा। विधेम। स्वाहा॥७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आकूत्यै) उत्साहाय (प्रयुजे) या धर्मक्रिया प्रकृष्टैर्गुणैर्युनक्ति योजयति वा तस्यै (अग्नये) अग्निप्रदीपनाय (स्वाहा) वेदवाणीप्रचाराय (मेधायै) प्रज्ञोन्नतये (मनसे) विज्ञानवृद्धये (अग्नये) विद्युद्विद्याग्रहणाय (स्वाहा) परोपकारकारिकायै ( दीक्षायै ) धर्मनिगमाचरणरीतये (तपसे) प्रतापाय (अग्नये) कारणरूपाय (स्वाहा) अध्ययनाध्यापनविद्यायै (सरस्वत्यै) विद्यासु शिक्षासहितायै वाचे (पूष्णे) पुष्टिकरणाय (अग्नये) जाठराग्निशोधनाय (स्वाहा) सत्यवाक् प्रवृत्तये (आपः) प्राणा जलानि वा (देवीः) दिव्यगुणसम्पन्नाः । अत्र वा छन्दसीति जसः पूर्वसवर्णत्वम् (बृहतीः) महागुणविशिष्टाः (विश्वशम्भुवः) या विश्वस्मै शं=सुखं भावयन्ति ताः (द्यावापृथिवी) भूमिप्रकाशौ (उरो) बहुसुखप्रतिपादक: (अन्तरिक्ष) अन्तरिक्षस्थो यज्ञः (बृहस्पतये) बृहत्या वाचो बृहतामाकाशादीनां च पतिः=स्वामी तस्मै जगदीश्वराय (हविषा) सामग्र्या सत्यप्रेमभावेन वा (विधेम) विधानं कुर्य्याम (स्वाहा) संगतां प्रियां शोभनां स्तुतिप्रयुक्तां वाचम्॥अयं मंत्रः श० ३ ।१ ।४ ।६-१५ व्याख्यातः ॥ ७॥
Essence
नहि यज्ञानुष्ठानेन विनोत्साहो, मेधा, सत्यवाक्, दीक्षा, तपो, धर्मानुष्ठानम्, विद्या, पुष्टिश्च सम्भवति। न किलैतैर्विना कश्चिदपि परमेश्वरमाराद्धुं शक्नोतीति।

[तात्पर्यमाह--]
तस्मात् सर्वैर्मनुष्यैरेतत् सर्वमनुष्ठाये सर्वानन्दः प्राप्तव्यः ॥ ४। ७ ॥
Subject
किमर्थः स यज्ञोऽनुष्ठातव्य इत्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्या ! यथा वयमाकूत्यै उत्साहाय प्रयुजे या धर्मक्रिया प्रकृष्टैर्गुणैर्युनक्ति-योजयति वा तस्यै, अग्नये अग्निप्रदीपनाय,स्वाहा वेदवाणीप्रचाराय, सरस्वत्यै विद्यासुशिक्षासहितायै वाचे, पूष्णे पुष्टिकरणाय,बृहस्पतये बृहत्या:=वाचो बृहतामाकाशादीनां च पतिः=स्वामी तस्मै जगदीश्वराय, अग्नये जाठराग्निशोधनाय,स्वाहा सत्यवाक्प्रवृत्तये, मेधायै प्रज्ञोन्नतये, मनसे विज्ञानवृद्धिये, अग्नये विद्युद्विद्या- ग्रहणाय,स्वाहा परोपकारकारिकायै, दीक्षायैधर्मनिगमाचरणरीतये, तपसे प्रतापाय, अग्नये कारणरूपाय, स्वाहा अध्ययनाध्यापनविद्यायै, या [बृहतीः] बृहत्य: महागुणविशिष्टाः विश्वशम्भुवः या विश्वस्मै शं=सुखं भावयन्ति ताः [देवीः] देव्यः दिव्यगुणसम्पन्ना: आपः प्राणा जलानि वा स्वाहा=वाक् ।द्यावापृथिवी भूमि प्रकाशौ उरो बहुसुखप्रतिपादक: [अन्तरिक्ष]=अन्तरिक्षस्थे अन्तरिक्षस्थो यज्ञः च स्तस्ता अपि स्वाहा सङ्गतां प्रियां शोभनां स्तुतिप्रयुक्तां वाचं क्रियया हविषा सामग्र्या सत्यप्रेमभावेन वा च शुद्धा विधेम विधानं कुर्याम तथा यूयमपि विदधत ॥ ४। ७ ।।
[ हे मनुष्या! यथा व यमाकूत्यै, मेधायै, सरस्वत्यै, दीक्षायै, तपसे, अग्नये, पूष्णो...हविषा...विधेम तथा यूयमपि विदधत]
Special
प्रजापतिः । अग्न्यब्बृहस्पतयः=[अग्नि-जल-बृहस्पति] जगदीश्वराः। पूर्वार्धस्य पंक्तिः। पञ्चमः। आपो देवीरित्युत्तरस्यार्षी बृहतीः। मध्यमः ॥