Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 6

37 Mantra
4/6
Devata- यज्ञो देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृत् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
स्वाहा॑ य॒ज्ञं मन॑सः॒ स्वाहो॑रोर॒न्तरि॑क्षा॒त् स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॒ वाता॒दार॑भे॒ स्वाहा॑॥६॥

स्वाहा॑। य॒ज्ञम्। मन॑सः। स्वाहाः॑। उ॒रोः। अ॒न्तरि॑क्षात्। स्वाहा॑। द्यावा॑पृथि॒वीभ्या॑म्। स्वाहा॑। वाता॑त्। आ। र॒भे॒ स्वाहा॑ ॥६॥

Mantra without Swara
स्वाहा यज्ञम्मनसः स्वाहोरोरन्तरिक्षात्स्वाहा द्यावापृथिवीभ्याँस्वाहा वातादा रभे स्वाहा ॥

स्वाहा। यज्ञम्। मनसः। स्वाहाः। उरोः। अन्तरिक्षात्। स्वाहा। द्यावापृथिवीभ्याम्। स्वाहा। वातात्। आ। रभे स्वाहा॥६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(स्वाहा) प्रत्यक्षलक्षणया वेदस्थया वाचा (यज्ञम्) क्रियाजन्यम् (मनसः) विज्ञानात् (स्वाहा) सुशिक्षितया वाचा (उरो) बहुनः। अत्र लिंगव्यत्ययेन पुँस्त्वम् (अन्तरिक्षात्) सूर्यपृथिव्योर्मध्ये वर्तमानादाकाशात् (स्वाहा) विद्याप्रकाशिकया वाण्या (द्यावापृथिवीभ्याम्) प्रकाशभूम्योः शुद्धये (स्वाहा) सत्यप्रियत्वादिगुणविशिष्टतया वाचा (वातात्) वायोः (आ) समन्तात् (रभे) कुर्वे (स्वाहा) सुष्ठु जुहोति= गृह्णाति ददाति यया क्रियया तया॥अयं मंत्रः श० ३ ।१ ।३ ।२५-२८ व्याख्यातः ॥ ६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ मनुष्यैर्वेदरीत्या यो मनोवचनकर्मभिरनुष्ठितो यज्ञो भवति सोऽन्तरिक्षादिभ्यो वायुशुद्धिद्वारा प्रकाशपृथिव्योः पवित्रतां सम्पाद्य सर्वान् सुखयति ॥ ४।६॥
Subject
किंकिमर्थ: स यज्ञोनुष्ठातव्य इत्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्या ! यथाऽहं स्वाहा=वेदोक्तया प्रत्यक्षलक्षणया वेदस्थया वाचा, स्वाहा=सुशिक्षितया सुशिक्षितया वाचा, स्वाहा=विद्या प्रकाशिकया विद्याप्रकाशिकयावाण्या, स्वाहा= सत्यप्रियत्वादिगुणयुक्त्या वाचासत्यप्रियत्वादिगुणविशिष्टया वाचा, स्वाहा=सुष्ठु क्रियया सुष्ठु जुहोति=गृह्णाति ददाति यया क्रियया तया च उरो: बहुन: मनसः विज्ञानात् अन्तरिक्षात् सूर्यपृथिव्योर्मध्ये वर्त्तमानादाकाशात् वातात् वायोः द्यावापृथिवीभ्यां प्रकाशभूम्योः शुद्धये यज्ञं क्रियाजन्यम् आरभे=नित्यं कुर्वे समन्तात् कुर्वे, तथा भवन्तोऽप्यारभन्ताम् ॥ ४ ॥ ६ ॥ -

[हे मनुष्या! अहं स्वाहा=वेदोक्तया.........वाचा स्वाहा=सुष्ठु क्रियया चोरोर्मनसोऽन्तरिक्षाद्वाताद् द्यावापृथिवीभ्यां यज्ञमारभे=नित्यं कुर्वे ]
Meaning of Essence
वातात्=वायुशुद्धिद्वारा ।द्यावापृथिवीभ्याम्=प्रकाशभूमिभ्याम् ॥
Special
प्रजापतिः ।यज्ञः=स्पष्टम् ॥ निचृदार्ष्यनुष्टुप् । गान्धारः ॥