Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 5

37 Mantra
4/5
Devata- यज्ञो देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृत् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
आ वो॑ देवासऽईमहे वा॒मं प्र॑य॒त्यध्व॒रे। आ वो॑ देवासऽआ॒शिषो॑ य॒ज्ञिया॑सो हवामहे॥५॥

आ। वः॒। दे॒वा॒सः॒। ई॒म॒हे॒। वा॒मम्। प्र॒य॒तीति॑ प्रऽय॒ति। अ॒ध्व॒रे। आ। वः॒। दे॒वा॒सः॒। आ॒शिष॒ इत्या॒ऽशिषः॑। य॒ज्ञिया॑सः। ह॒वा॒म॒हे॒ ॥५॥

Mantra without Swara
आ वो देवास ईमहे वामम्प्रयत्यध्वरे । आ वो देवास आशिषो यज्ञियासो हवामहे ॥

आ। वः। देवासः। ईमहे। वामम्। प्रयतीति प्रऽयति। अध्वरे। आ। वः। देवासः। आशिष इत्याऽशिषः। यज्ञियासः। हवामहे॥५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) समन्तात् (व:) युष्मान् (देवासः) ये दीव्यन्ति=विद्यादिगुणैः प्रकाशन्ते तत्सम्बुद्धौ (ईमहे) याचामहे । ईमह इति याच्ञाकर्मसु पठितम् ॥ निघं० ३ ।१९ ॥ ( वामम्) प्रशस्तं गुणकर्मसमूहम् । वाममिति प्रशस्यनामसु पठितम् ॥ निघं० ३।८ ॥ (प्रयति) प्रकृष्टं सुखमेति येन तस्मिन् । अत्र कृतो बहुलमिति करणकारके कृत् (अध्वरे) अहिंसनीये यज्ञे (आ) अभितः (व:) युष्माकं सकाशात् (देवास:) विद्वांसः (आशिष:) इच्छा: (यज्ञियासः) या यज्ञमर्हन्ति ताः (हवामहे) स्वीकुर्वीमहि। लेट् प्रयोगोऽयम् ॥ अयं मंत्रः श० ३।१ । ३ । २४ व्याख्यातः ।। ५ ।।
Essence
मनुष्यैः परमविद्वद्भ्यः प्रशस्ता विद्या: सम्पाद्य स्वेच्छा: पूर्णाः कृत्वैतेषां सङ्गसेवे सदैव कर्त्तव्ये ।। ४ । ५ ।।
Subject
मनुष्यैः कथं पुरुषार्थः कर्त्तव्य इत्युपदिश्यते ।।
Meaning of Anvay
हे देवासः ! ये दीव्यन्ति=विद्यादिगुणैः प्रकाशन्ते, सत्सम्बुद्धौ यथा वयं वः युष्मान् प्रयति प्रकृष्टं सुखमेति येन तस्मिन् अध्वरे अहिंसनीये यज्ञे वः=युष्माकं युष्माकं सकाशात् वामं प्रशस्तं गुणकर्मसमूहम् आ ईमहे=समन्तात् याचामहे ।

हे यज्ञियासः! ये यज्ञमर्हन्ति ते देवासः विद्वांसः यथाऽस्मिन् संसारे वः=युष्माकं सकाशात् [यज्ञियासः]=यज्ञियाः या यज्ञमर्हन्ति ताः आशिष: इच्छा आहवामहे अभितः स्वीकुर्वीमहि, तथैवास्मदर्थं भवद्भिः सततमनुष्ठेयम् ॥ ४ ॥ ५ ॥

[हे......देवासः! यथाऽस्मिन् संसारे वः=युष्माकं सकाशात् [यज्ञियासः]=यज्ञिया आशिष आहवामहे अभितः स्वीकुर्वीमहि]
Special
प्रजापतिः । यज्ञः=स्पष्टम् ।।निचृदार्ष्यनुष्टुप् । गान्धारः ।।