Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 37

37 Mantra
4/37
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम्। ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॑न्॥३७॥

या। ते॒। धामा॑नि। ह॒विषा॑। यज॑न्ति। ता। ते॒। विश्वा॑। प॒रि॒भूरिति॑ परि॒ऽभूः। अ॒स्तु॒। य॒ज्ञम्। ग॒य॒स्फान॒ इति॑ गय॒ऽस्फानः॑। प्र॒तर॑ण॒ इति॑ प्र॒ऽतर॑णः। सु॒वीर॒ इति॑ सु॒ऽवीरः॑। अवी॑र॒हेत्यवी॑रऽहा। प्र। च॒र॒। सो॒म॒। दुर्य्या॑न् ॥३७॥

Mantra without Swara
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् । गयस्पानः प्रतरणः सुवीरो वीरहा प्रचरा सोम दुर्यान् ॥

या। ते। धामानि। हविषा। यजन्ति। ता। ते। विश्वा। परिभूरिति परिऽभूः। अस्तु। यज्ञम्। गयस्फान इति गयऽस्फानः। प्रतरण इति प्रऽतरणः। सुवीर इति सुऽवीरः। अवीरहेत्यवीरऽहा। प्र। चर। सोम। दुर्य्यान्॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(या) यानि।अच सर्वत्र शेश्छन्दसीति शेर्लोपः (ते) तव तस्य वा (धामानि) अधिकरणानि द्रव्याणि (हविषा) ग्राह्येण दातव्येन पदार्थेन साधकेन वा (यजन्ति) पूजयन्ति संगमयन्ति वा (ता) तानि (ते) तव तस्य वा (विश्वा) सर्वाणि (परिभूः) परितः सर्वतो भवतीति (अस्तु) भवतु (यज्ञम्) यष्टुमर्हम् (गयस्फान:) गयानामपत्यधनगृहाणां स्फानो=वर्धयिता।गय इत्यपत्यनामसु पठितम् ॥ निघं० २ ।२ ।।धननामसु ।।निघं० २ ।१० ।।गृहनामसु च ॥ निघं० ३ ।४ ॥ (प्रतरणः) प्रतरति दुःखानि येन सः (सुवीरः) शोभना वीरा यस्मिन्सः (अवीरहा) अवीरान्=कातरान् मनुष्यान् हन्ति येन सः। अत्र कृतो बहुलमिति करणे क्विप् (प्रचर) विजानीह्यनुतिष्ठ (सोम) सोमविद्यासंपादक विद्वन् (दुर्य्यान्) गृहाणि । दुर्य्या इति गृहनामसु पठितम् ॥ निघं० ३ ।४ ॥ अयं मंत्रः शत० ३ ।३ ।४ ।३० व्याख्यातः ॥ ३७ ॥
Essence
अत्र श्लेषवाचकलुप्तोपमालङ्कारौ ॥ यथा विद्वांस ईश्वरे प्रीतिं, संसारे यज्ञानुष्ठानं कुर्वन्ति तथैव सर्वैर्मनुष्यैरनुष्ठेयम् ॥ ४।३७ ।।
Subject
पुनरेतौ कीदृशावित्युपदिश्यते ॥
Meaning of Anvay
हे जगदीश्वर! यथा विद्वांसो या=यानि ते=तव तव तस्य वा धामानि अधिकरणानि द्रव्याणि हविषा ग्राह्येण दातव्येन पदार्थेन साधकेन वा यजन्ति पूजयन्ति संगमयन्ति वा तथा ता=तानि विश्वा=सर्वाणि वयमपि यजेमैतेषां यथा यस्ते=तव तव तस्य वा गयस्फानः गयानामपत्यधनगृहाणां स्फानो वर्धयिता प्रतरणः प्रतरति दुःखानि येन स सुवीर: शोभना वीरा यस्मिन् स अवीरहा अवीरान्=कातरान् मनुष्यान् हन्ति येन स परिभूः परितः सर्वतो भवतीति [यज्ञम्]=यज्ञः [सुख-] प्रदोऽस्ति, तथा स भवत्कृपयाऽस्मभ्यमपि सुखकार्य्यस्तु भवतु ।
हे सोम=विद्वन्! सोमविद्यासम्पादक विद्वन्! यथा वयमेतं यज्ञं यष्टुमर्हम् अनुष्ठाय, गृहेषु [प्रचर]=प्रचरेम, विजानीयाम, अनुतिष्ठेम, तथा त्वमप्येतं दुर्यान्=गृहाणि प्रचर, विजानीह्यनुतिष्ठ ।। ४ । ३७ ।।
[हे जगदीश्वर! यथा विद्वांसो या=यानि ते=तव धामानि हविषा यजन्ति तथा ता=तानि.....वयमपि यजेम]
Special
गोतमः । यज्ञः=ईश्वरः, संसारश्च ॥ निचृदार्षी त्रिष्टुप् ।धैवतः ॥