Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 36

37 Mantra
4/36
Devata- सूर्य्यो देवता Rishi- वत्स ऋषिः Chhand- विराट् ब्राह्मी बृहती Swara- मध्यमः
Mantra with Swara
वरु॑णस्यो॒त्तम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो॒ वरु॑णस्यऽऋत॒सद॑न्यसि॒ वरु॑णस्यऽ ऋत॒सद॑नमसि॒ वरु॑णस्यऽऋत॒सद॑न॒मासी॑द॥३६॥

वरु॑णस्य। उ॒त्तम्भ॑नम्। अ॒सि॒। वरु॑णस्य। स्क॒म्भ॒सर्ज॑नी॒ऽइति॑ स्कम्भ॒ऽसर्जनी॑। स्थः॒। वरु॑णस्य। ऋ॒त॒सद॒नीत्यृ॑तऽसद॑नी। अ॒सि॒। वरु॑णस्य। ऋ॒त॒सद॑न॒मित्यृ॑त॒ऽसद॑नम्। अ॒सि॒। वरु॑णस्य। ऋ॒त॒सद॑न॒मित्यृ॑त॒ऽसद॑नम्। आ। सी॒द॒ ॥३६॥

Mantra without Swara
वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमा सीद ॥

वरुणस्य। उत्तम्भनम्। असि। वरुणस्य। स्कम्भसर्जनीऽइति स्कम्भऽसर्जनी। स्थः। वरुणस्य। ऋतसदनीत्यृतऽसदनी। असि। वरुणस्य। ऋतसदनमित्यृतऽसदनम्। असि। वरुणस्य। ऋतसदनमित्यृतऽसदनम्। आ। सीद॥३६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वरुणस्य) वरितुं=प्राप्तुं योग्यस्य श्रेष्ठस्य जगतः । वरुण इति पदनामसु पठितम् ॥ निघं० ५ । ४ ॥ (उत्तम्भनम् ) उत्कृष्टं प्रतिबन्धनम् । अत्र उद:स्थास्तम्भोः पूर्वस्य ॥ अ० ८।४ ।६१॥ अनेन सस्य पूर्वसवर्णादेशः (असि) अस्ति वा (वरुणस्य) वायोः । अनेन ज्ञानप्राप्तिगमधातोरर्थस्य ग्रहणम् (स्कम्भसर्जनी) या क्रिया स्कम्भानामाधारकाणां सर्जन्युत्पादिका सा (स्थः) स्तः (वरुणस्य) सूर्य्यस्य (ऋतसदनी) या क्रिया ऋतानां=जलानां सदनी=गमनागमनकारिणी (असि) अस्ति वा (वरुणस्य) वरपदार्थसमूहस्य (ऋतसदनम् ) ऋतानां=यथार्थानां पदार्थानां सदनं=स्थानम् (असि) अस्ति वा (वरुणस्य) उत्कृष्टगुणसमूहस्य (ऋतसदनम्) यदृतानां=सत्यानां बोधानां स्थानं तत् (आ) समन्तात् (सीद) प्रापयसि प्रापयति वा॥ अयं मंत्रः शत० ३ ।३ ।४ ।२५-२९ व्याख्यातः ॥ ३६ ॥

[ ईश्वरः]
Essence
अत्र श्लेषालङ्कारः॥ नहि कश्चित्परमेश्वरेण विना सर्वं जगद् रचितुं, धर्त्तुं, पालयितुं, विज्ञातुं वा शक्नोति ।

[यो वरुणस्योत्तम्भनं धरति, स्कम्भसर्जनी ऋतसदनी किये स्थ:=स्तस्ते धारितवानसि]

न किल कश्चित् सूर्येण विना सर्वं भूम्यादिजगत् प्रकाशितुं धर्त्तुं वा शक्नोति।
तस्मात्--सर्वैर्मनुष्यैरीश्वरस्योपासनं सूर्यस्योपयोगो यथावत् कार्यम् इति ।। ४ । ३६ ।।
Subject
पुनस्तौ कीदृशावित्युपदिश्यते ॥
Meaning of Anvay
हे जगदीश्वर ! यतस्त्वं वरुणस्य वरितुं=प्राप्तुं योग्यस्य श्रेष्ठस्य
जगतः उत्तम्भनम् उत्कृष्टं प्रतिबन्धनम् असि, या वरुणस्य वायोः स्कम्भसर्जनी या क्रिया स्कम्भानामाधारकाणां सर्जन्युत्पादिका सा, या च वरुणस्य सूर्यस्य ऋतसदनी या क्रिया ऋतानां=जलानां सदनी=गमनागमनकारिणी, क्रिये स्थ:=स्तस्ते धारितवानसि ।
यद् वरुणस्य वरपदार्थसमूहस्य ऋतसदनम् ऋतानां=यथार्थानां पदार्थानां सदनं=स्थानम् [असि]=अस्ति तत्कृपया वरुणस्य उत्कृष्टगुणसमूहस्य ऋतसदनं यद् ऋतानां=सत्यानां बोधानां स्थानं तत् आसीद=समन्तात् प्रापयसि, अतस्त्वां वयमाश्रयाम इत्येकः ॥

[सूर्यः]

यो वरुणस्य वरितुं=प्राप्तुं योग्यस्य श्रेष्ठस्य जगतः उत्तम्भनम् उत्कृष्टं प्रतिबन्धनं धरति, या वरुणस्य वायोः स्कम्भसर्जनी या क्रिया स्कम्भानाम्=आधारकाणां सर्जन्युत्पादिका सा, या च वरुणस्य सूर्यस्य ऋतसदनी या क्रिया ऋतानां=जलानां सदनी=गमनागमनकारिणी, क्रिये, स्थ:=स्तो, यस्तयोर्धारकः [असि]=अस्ति, यद् वरुणस्य वरपदार्थसमूहस्य ऋतसदनम् ऋतानां=यथार्थानां पदार्थानां सदनं=स्थानम् [असि]=अस्ति, तद्यो वरुणस्य उत्कृष्टगुणसमूहस्य ऋतसदनं यदृतानां=सत्यानां बोधानां स्थानं तत् आसीद=समन्तात् प्रापयति स कुतो नोपयोक्तव्यः। [इतिद्वितीयः] ।। ४ । ३६ ।।

[हे जगदीश्वर! यतस्त्वं वरुणस्योत्तम्भनमसि, या...... या स्कम्भसर्जनी........ऋतसदनी क्रिये स्थः=स्तस्ते धारितवानसि]
Special
वत्सः । सूर्य्यः=ईश्वरः सूर्यो वा ॥ विराड् ब्राह्मी बृहती। मध्यमः ॥