Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 35

37 Mantra
4/35
Devata- सूर्य्यो देवता Rishi- वत्स ऋषिः Chhand- निचृत् आर्षी जगती Swara- निषादः
Mantra with Swara
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तꣳ स॑पर्यत। दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शꣳसत॥३५॥

नमः॑। मि॒त्रस्य॑। वरु॑णस्य। चक्ष॑से। म॒हः। दे॒वाय॑। तत्। ऋ॒तम्। स॒प॒र्य्य॒त॒। दू॒रे॒दृश॒ इति॑ दूरे॒ऽदृशे॑। दे॒वजा॑ता॒येति॑ दे॒वऽजा॑ताय। के॒तवे॑। दि॒वः। पु॒त्राय॑। सूर्य्या॑य। श॒ꣳस॒त॒ ॥३५॥

Mantra without Swara
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतँ सपर्यत । दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शँसत ॥

नमः। मित्रस्य। वरुणस्य। चक्षसे। महः। देवाय। तत्। ऋतम्। सपर्य्यत। दूरेदृश इति दूरेऽदृशे। देवजातायेति देवऽजाताय। केतवे। दिवः। पुत्राय। सूर्य्याय। शꣳसत॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(नमः) सत्करणमन्नं वा । नम इत्यन्ननामसु पठितम्॥ निघं० २ ।७ ।। (मित्रस्य) सर्वजगत्सुहृदः । प्रकाशस्य वा (वरुणस्य) श्रेष्ठस्य (चक्षसे) सर्वद्रष्टुर्दर्शयितुर्वा। अत्र षष्ठ्यर्थं चतुर्थीति वात्तिकेन चतुर्थी। चष्ट इति पश्यतिकर्मसु पठितम् ॥ निघं० ३ ।११ ॥ (महः) महसे अत्र सुपां सुलुगिति ङेर्लुक् (देवाय) दिव्यगुणाय (तत्) चेतनस्वरूपं प्रकाशस्वरूपं वा (ऋतम्) सत्यम् (सपर्य्यत) परिचरत। सपर्य्यतीति परिचरणकर्मसु पठितम् ॥ निघं० ३ । ५ ॥ (दूरेदृशे) यो दूरे स्थितान् दर्शयति तस्मै (देवजाताय) देवैर्दिव्यैर्गुणैः प्रसिद्धाय (केतवे ) विज्ञानस्वरूपाय ज्ञापकाय वा (दिवः) प्रकाशस्वरूपस्य (पुत्राय) पवित्रकारकायाग्निपुत्राय वा (सूर्य्याय) चराचरात्मने । परमैश्वर्य्यहेतवे वा (श७सत) प्रशंसत । अयं मंत्रः शत० ३।३। ४। २४ व्याख्यातः ॥ ३५ ॥

[ईश्वरः]
Essence
अत्र श्लेषवाचकलुप्तोपमालङ्कारौ ॥ यस्य कृपया, प्रकाशेन वा चोरदस्य्वादयो निवर्त्तन्ते, यतः परमेश्वरेण समः समर्थः, सूर्येण समो लोकश्च न विद्यते, तस्मात् सर्वैर्मनुष्यैः स एव प्रशंसनीय इति वेद्यम् ।। ४ । ३५ ।।
Subject
पुनरीश्वरसवितारौ कीदृशावित्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्या! यथा वयं यन्मित्रस्य सर्वजगत्सुहृदः, वरुणस्य श्रेष्ठस्य दिवः प्रकाशस्वरूपस्य ऋतं सत्यं स्वरूपमस्ति,तत् चेतनस्वरूपं यूयमपि सपर्य्यत परिचरत ।
यस्य महः महसे दूरेदृशे यो दूरे स्थितान् दर्शयति तस्मै चक्षसे सर्वद्रष्टुः देवजाताय देवैर्दिव्यैर्गुणैः प्रसिद्धाय केतवे विज्ञानस्वरूपाय देवाय दिव्यगुणाय पुत्रायपवित्रकर्त्रे पवित्रकारकाय सूर्याय=परमात्मने चराचरात्मने वयं नमः सत्कारणंकुर्मस्तस्मै यूयमपि कुरुत [संशत] प्रशंसत च इत्येकः ।।

[सविता]

हे मनुष्या ! यथा वयं यन्मित्रस्य प्रकाशस्य वरुणस्य श्रेष्ठस्य दिवः=प्रकाशस्वरूपस्य सूर्यलोकस्य ऋतम्=यथार्थस्वरूपं सत्यं सेवेमहि तत् प्रकाशस्वरूपंयूयमपि विद्यया सपर्य्यत परिचरत।
यथा वयं यस्मै चक्षसे दर्शयितुः देवजाताय देवैर्दिव्यैर्गुणैः प्रसिद्धाय केतवे ज्ञापकाय दिवः=अग्नेः प्रकाशस्वरूपस्य पुत्राय अग्निपुत्राय दूरेदृशे यो दूरे स्थितान् दर्शयति तस्मै महः महसे देवाय दिव्यगुणाय सूर्याय परमैश्वर्यहेतवे लोकाय [नमः]अन्नं प्राप्प्त्यर्थं प्रवर्त्तेमहि, तथा यूयमपि प्रवर्त्तध्वं [शंसत] प्रशंसत च ॥ ४ । ३५ ।।

[ हे मनुष्या!........यन्मित्रस्य वरुणस्य दिव ऋतं स्वरूपमस्ति तत् सपर्यत]
Special
वत्सः। सूर्य्य:=ईश्वरः सूर्यश्च ॥ निचृदार्षी जगती । निषादः ॥