Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 34

37 Mantra
4/34
Devata- यजमानो देवता Rishi- वत्स ऋषिः Chhand- भूरिक् आर्ची गायत्री,भूरिक् आर्ची बृहती,विराट् आर्ची अनुष्टुप् Swara- षड्जः, मध्यमः, गान्धारः
Mantra with Swara
भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि। मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ऽअघा॒यवो॑ विदन्। श्ये॒नो भू॒त्वा परा॑पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सँस्कृ॒तम्॥३४॥

भ॒द्रः। मे॒। अ॒सि॒। प्र। च्य॒व॒स्व॒। भु॒वः॒। प॒ते॒। वि॒श्वा॑नि। अ॒भि। धामा॑नि। मा। त्वा॒। प॒रि॒प॒रिण॒ इति॑ परिऽप॒रिणः॑। वि॒द॒न्। मा। त्वा॒। प॒रि॒प॒न्थिन॒ इति॑ परिऽप॒न्थिनः॑। वि॒द॒न्। मा। त्वा॒। वृकाः॑। अ॒घा॒यवः॑। अ॒घ॒यव॒ इत्य॑घ॒ऽयवः॑। वि॒द॒न्। श्ये॒नः। भू॒त्वा। परा॑। प॒त॒। यज॑मानस्य। गृ॒हान्। ग॒च्छ॒। तत्। नौ॒। सँ॒स्कृ॒तम् ॥३४॥

Mantra without Swara
भद्रो मेसि प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि । मा त्वा परिपरिणो विदन्मा त्वा परिपन्थिनो विदन्मा वृका अघायवो विदन् । श्येनो भूत्वा परा पत यजमानस्य गृहान्गच्छ तन्नौ सँस्कृतम् ॥

भद्रः। मे। असि। प्र। च्यवस्व। भुवः। पते। विश्वानि। अभि। धामानि। मा। त्वा। परिपरिण इति परिऽपरिणः। विदन्। मा। त्वा। परिपन्थिन इति परिऽपन्थिनः। विदन्। मा। त्वा। वृकाः। अघायवः। अघयव इत्यघऽयवः। विदन्। श्येनः। भूत्वा। परा। पत। यजमानस्य। गृहान्। गच्छ। तत्। नौ। सँँस्कृतम्॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(भद्रः) सुखकारी (मे) मम (असि) भवसि (प्र) प्रकर्षे (च्यवस्व) गच्छ (भुव:) पृथिव्याः (पते) स्वामिन्! (विश्वानि) सर्वाणि (अभि) आभिमुख्ये (धामानि) स्थानानि (मा) निषेधे (त्वा) त्वां गृहादिषूपस्थितम् (परिपरिणः) परितः सर्वतश्छलेन रात्रौ वा परस्वादायिनश्चोराः । छन्दसि परिपन्थिपरिपरिणौ पर्य्यवस्थातरि॥ अ०५ ।२। ८९॥ अनेनैतौ शब्दौ स्तेनविषये निपात्येते (विदन्) विन्दन्तु प्राप्नुवन्तु । अत्र सर्वत्र वा छन्दसि सर्वे विधयो भवन्तीति नुमटोरभावो लोडर्थे लुङ् च (मा) निषेधार्थे (त्वा) प्रवाससेविनं त्वाम् (परिपन्थिनः) उत्कोचका दस्यवः (विदन्) लभन्ताम् (मा) निषेधार्थे (त्वा) त्वामैश्वर्यवन्तम् (वृकाः) स्तेनाः। वृक इति स्तेननामसु पठितम् ॥निघं० ३ ।२४॥ (अघायव:) आत्मनोऽयं=पापमिच्छवः (विदन्) लभन्ताम् (श्येनः ) श्येन इव (भूत्वा) (परा) दूरार्थे (पत) गच्छ(यजमानस्य) सद्धगमं कर्त्तुं योग्यस्य पूज्यस्य मनुष्यस्य (गृहान्) द्वीपखण्डदेशान्तरस्थानानि (गच्छ) गमनं कुरु (तत्) (नौ) आवयोः (संस्कृतम्) शिल्पविद्यासंस्कारयुक्तं सर्वर्त्तुकम् ॥ अयं मंत्रः शत० ३ ।३ ।४ । १४-१६ व्याख्यातः॥ ३४ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ।।मनुष्यैरुत्तमानि विमानादीनि यानानि रचयित्वा, तत्र स्थित्वा, तानि यथायोग्यं प्रचाल्य, श्येन इव द्वीपाद्यन्तरं देशं गत्वा, धनं प्राप्य, तस्मादागत्य, दुष्टेभ्यः प्राणिभ्यो दूरं स्थित्वा सर्वदा सुखं भोक्तव्यम् ।। ४ । ३४ ।।
Subject
तेन यानेन विदुषा किं किं कर्त्तव्यमित्युपदिश्यते ।।
Meaning of Anvay
हे भुवस्पते=विद्वन् ! पृथिव्याः स्वामिन् ! त्वं मे=मम भद्रः सुखकारी असि भवसि ।
यन्नौ=तव मम च आवयोः संस्कृतं शिल्पविद्या संस्कारयुक्तं सर्वर्त्तुकं यानमस्ति [तत्] तेन विश्वानि सर्वाणिधामानि स्थानानि अभिप्रच्यवस्व=अभितः प्रकृष्टतया गच्छ, यथा यथा सर्वत्राभिगच्छन्तं [त्वा]=त्वां त्वां गृहादिषूपस्थितं परिपरिणः परितः सर्वतश्छलेन रात्रौ वा परस्वादायिनश्चोराः, वृकाः स्तेनाः, मा विदन् न विदन्तु= प्राप्नुवन्तु तथा प्रयतस्व।
परदेशसेविनं [त्वा] त्वां प्रवाससेविनं त्वांयथा परिपन्थिनः उत्कोचका दस्यवः, वृकाः स्तेनाः, मा विदन् न लभन्तां तथाऽनुतिष्ठ ।
यथा परदेशसेविनं [त्वा]=त्वां त्वामैश्वर्यवन्तम् अघायव:=पापिनो मनुष्याः आत्मनोऽघं=पापमिच्छवः मा विदन् न लभन्तां तथाऽनुजानीहि ।
त्वं श्येन: श्येन इव भूत्वा तेभ्यः परापत=गच्छैतान् वा परायत=दूरे गमयैवं कृत्वा यजमानस्य सङ्गमं कर्त्तुं योगस्य पूज्यस्य मनुष्यस्य गृहान् द्वीपखण्डदेशान्तरस्थानानि गच्छ गमनं कुरु यतो मार्गे किञ्चिदपि दुःखं न स्यात् ।। ४ । ३४ ॥
[यन्नौ=तव मम च संस्कृतं यानमस्ति [तत्]=तेन विश्वानिधामान्यभिप्रच्यवस्व=अभितः प्रकृष्टतया गच्छ,.....त्वं श्येनो भूत्वा तेभ्यः परापत=गच्छैतान् वा परापत=दूरे गमयैवं कृत्वा यजमानस्य गृहान् गच्छ, यतो मार्गे किञ्चिदपि दुःखं न स्यात् ]
Special
वत्सः।यजमानः=विद्वान् ॥ पूर्वस्य भुरिगार्ची गायत्री।षड्ज:। मा त्वेत्यस्य भुरिगार्ची बृहती।मध्यमः। श्येनो भूत्वेत्यस्य विराडार्च्यनुष्टुप् । गान्धारः॥