Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 33

37 Mantra
4/33
Devata- सूर्य्यविद्वांसौ देवते Rishi- वत्स ऋषिः Chhand- निचृत् आर्षी गायत्री,याजुषी जगती Swara- षड्जः, निषादः
Mantra with Swara
उस्रा॒वेतं॑ धूर्षाहौ यु॒ज्येथा॑मन॒श्रूऽअवी॑रहणौ ब्रह्म॒चोद॑नौ। स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम्॥३३॥

उस्रौ॑। आ। इ॒त॒म्। धू॒र्षा॒हौ॒। धूः॒स॒हा॒विति॑ धूःऽसहौ। यु॒ज्येथा॑म्। अ॒न॒श्रूऽइत्य॑न॒श्रू। अवी॑रहणौ। अवी॑रहनावित्यवी॑रऽहनौ। ब्र॒ह्म॒चोद॑ना॒विति॑ ब्रह्म॒ऽचोद॑नौ। स्व॒स्ति। यज॑मानस्य। गृ॒हान्। ग॒च्छ॒त॒म् ॥३३॥

Mantra without Swara
उस्रावेतन्धूर्षाहौ युज्येथामनश्रू अवीरहणौ ब्रह्मचोदनौ । स्वस्ति यजमानस्य गृहान्गच्छतम् ॥

उस्रौ। आ। इतम्। धूर्षाहौ। धूःसहाविति धूःऽसहौ। युज्येथाम्। अनश्रूऽइत्यनश्रू। अवीरहणौ। अवीरहनावित्यवीरऽहनौ। ब्रह्मचोदनाविति ब्रह्मऽचोदनौ। स्वस्ति। यजमानस्य। गृहान्। गच्छतम्॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उस्रौ) रश्मिमन्तौ निवासहेतू सूर्य्यवायू । उस्रा इति रश्मिनामसु पठितम् ॥ निघं० । १ । ५ ॥ गोनामसु च ॥ निघं० २ ।११ ॥ (आ) समन्तात् (इतम्) प्राप्नुत: (धूर्षाहौ) यौ धुरं=पृथिव्याः शरीरस्य ज्ञानानां वा धारणं सहेते तौ (युज्येथाम्) युज्येते=युवतौ कुरुतः (अनश्रू) अव्यापिनौ (अवीरहणौ) वीरहननरहितौ (ब्रह्मचोदनौ) आत्मान्नप्राप्तिप्रेरकौ (स्वस्ति) सुखंसुखेन वा (यजमानस्य) धार्मिकस्य जीवस्य (गृहान्) गृहाणि (गच्छतम्) गमयतः ॥ अयं मंत्रः शत० ३ ।३ ।४।१२ व्याख्यातः ॥ ३३ ॥
Essence
अत्र श्लेषवाचकलुप्तोपमालङ्कारौ॥ यथा सूर्यविपश्चितौ क्रमेण सर्वं प्रकाश्य, धृत्वा, सहित्वा, युक्त्वा, प्राप्य, सुखं प्रापयतस्तथैव येन शिल्पविद्यासम्पादकेन यानेषु युक्त्या सेविते अग्निजले सुखेन सर्वत्राभिगमनं कारयतः ॥ ४ । ३३ ।।
Subject
अथ सूर्य्याविद्वांसौ कथंभूतावेताभ्यां शिल्पविदौ कि कुर्य्यातामित्युपदिश्यते॥
Meaning of Anvay
हे मनुष्या ! यथा--विद्याशिल्पे चिकीर्षू,यौ ब्रह्मचोदनौ आत्मान्नप्राप्तिप्रेरकौअनश्रू अव्यापिनौअवीरहणौवीरहननरहितौ उस्रौ रश्मिमन्तौ निवासहेतु सूर्यवायू धूर्षाहौ=सूर्यविद्वांसौ, गावौ, यौ धुरं=पृथिव्याः शरीरस्य ज्ञानानां वा धारणं, सहेते तौ वृषवद्यानचालनायैतं=प्राप्नुतः (समन्तात् प्राप्नुतः) युज्येथां= युक्तौ कुरुतः, युज्येते=युक्तौ कुरुतः, यजमानस्य धार्मिकस्य जीवस्य गृहान् गृहाणिस्वस्ति (सुखं सुखेन वा) गच्छतं=सुखेन गमयतस्तौ यूयं युक्त्या सेवयत ।। ४ । ३३ ।।

[ हे मनुष्या! यथा विद्याशिल्पे चिकीर्षू......धूर्षाहौ=सूर्यविद्वांसौ, गावौ......एतं= प्राप्नुतः, युज्येथां=युक्तौ कुरुतः, यजमानस्य गृहान् स्वस्ति गच्छतं=सुखेन गमयतस्तौ यूयं युक्त्या सेवयत]
Special
वत्सः। सूर्य्यविद्वांसौ=स्पष्टम्॥ पूर्वस्य निचृदार्षी गायत्री।षड्जः। स्वस्तीत्यन्तस्य याजुषी जगती। निषादः ॥