Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 32

37 Mantra
4/32
Devata- अग्निर्देवता Rishi- वत्स ऋषिः Chhand- निचृत् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम्। यत्रैत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑॥३२॥

सूर्य्य॑स्य। चक्षुः॑। आ। रो॒ह॒। अ॒ग्नेः। अ॒क्ष्णः। क॒नीन॑कम्। यत्र॑। एत॑शेभिः। ईय॑से। भ्राज॑मानः। वि॒प॒श्चितेति॑ विपः॒ऽचिता॑ ॥३२॥

Mantra without Swara
सूर्यस्य चक्षुरारोहाग्नेरक्ष्णः कनीनकम् । यत्रैत्रशेभिरीयसे भ्राजमानो विपश्चिता ॥

सूर्य्यस्य। चक्षुः। आ। रोह। अग्नेः। अक्ष्णः। कनीनकम्। यत्र। एतशेभिः। ईयसे। भ्राजमानः। विपश्चितेति विपःऽचिता॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सूर्यस्य) सवितृमण्डलस्य विद्युतो वा (चक्षुः) दर्शकम् (आ) समन्तात् (रोह) दर्शयसि दर्शयति वा (अग्नेः) भौतिकस्य (अक्ष्णः) दर्शनसाधकस्य (कनीनकम्) कनति=प्रकाशते येन तत् । अत्र कनीधातोर्बाहुलकादौणादिक ईनक प्रत्यय: (यत्र) यस्मिन् (एतशेभिः) विज्ञानवेगादिभिरागमकैर्गुणैरश्वैः। एतश इत्यश्वनामसु पठितम् ॥ निघं० १ । १४ ॥ (ईयसे) विज्ञायसे विज्ञायते वा (भ्राजमानः) प्रकाशमानः (विपश्चिता) मेधाविना विदुषा । विपश्चिदिति मेधाविनामसु पठितम् ॥ नि० ३ ।१५ ॥ अयं मन्त्रः शत० ३।३।४ । ८ व्याख्यातः ॥ ३२॥
[ईश्वरः]
Essence
अत्र श्लेषालङ्कारः ॥ मनुष्यैर्यथा विद्वद्भिरीश्वरः प्राणो विद्युच्च विज्ञायोपास्यते संप्रयुज्यते च तथैव विज्ञायोपास्य उपयोक्तव्यः संप्रयोजितव्य च ।। ४ । ३२।।
Subject
पुनस्ते कीदृशा इत्युपदिश्यते॥
Meaning of Anvay
हे परमेश्वर ! यत्र यस्मिन् त्वमेतशेभिः विज्ञानवेगादिभिरागमकैर्गुणैरश्वैःभ्राजमानः प्रकाशमान: विपश्चिता मेधाविना विदुषा ईयसे विज्ञायसे ।
यत्र यस्मिन् त्वं सूर्यस्य सवितृमण्डलस्य विद्युतो वा अग्नेः भौतिकस्य अक्ष्णः दर्शनसाधकस्य कनीनकं कनति=प्रकाशते येन तत् चक्षुः दर्शकम् आरोह समन्ताद् दर्शयसि तत्र वयं त्वामुपासीमहि ॥
[प्राणो विद्युच्च]
यत्र यस्मिन् प्राणो विद्युद्वैतशेभिः विज्ञानवेगादिभिरागमकैर्गुणैरश्वैःविपश्चिता मेधाविना विदुषा भ्राजमानः प्रकाशमानः [ईयसे]=विज्ञायते ।
यत्र यस्मिन् स, सा च सूर्यस्य सवितृमण्डलस्य विद्युतो वा अग्नेः भौतिकस्य अक्ष्णः दर्शनसाधकस्य कनीनकं कनति=प्रकाशते येन तत् चक्षुः दर्शकम् आरोह दर्शयति तत्र वयं तं तां च युञ्जयाम ।। ४ । ३२ ।।

[हे परमेश्वर! यत्र त्वमेतशेभिर्भ्राजमानो विपश्चितेयसे, यत्र प्राणो विद्युद्वैतशेभिर्विपश्चिता भ्राजमानो विज्ञायते तत्र त्वं, स, साच.......आरोह=समन्ताद् दर्शयति वा तत्र वयं त्वां, तं, तां चोपासीमहि, युञ्ज्याम वा]
Special
वत्सः । अग्निः=ईश्वरः, प्राणो विद्युच्च॥ निचृदार्ष्यनुष्टुप् ।गान्धारः ॥