Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 30

37 Mantra
4/30
Devata- वरुणो देवता Rishi- वत्स ऋषिः Chhand- स्वराट् याजुषी त्रिष्टुप्,आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
अदि॑त्या॒स्त्वग॒स्यदि॑त्यै॒ सद॒ऽआसी॑द। अस्त॑भ्ना॒द् द्यां वृ॑ष॒भोऽअ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्याः। आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑॥३०॥

अदि॑त्याः। त्वक्। अ॒सि॒। अदि॑त्यै। सदः॑। आ। सी॒द॒। अस्त॑भ्नात्। द्याम्। वृ॒ष॒भः। अ॒न्तरिक्ष॑म्। अमि॑मीत। व॒रि॒माण॑म्। पृ॒थि॒व्याः। आ। अ॒सी॒द॒त्। विश्वा॑। भुव॑नानि। स॒म्राडिति॑ स॒म्ऽराट्। विश्वा॑। इत्। तानि॑। वरु॑णस्य। व्र॒तानि॑ ॥३०॥

Mantra without Swara
अदित्यास्त्वगसि अदित्यै सद आ सीद । अस्तभ्नाद्द्याँ वृषभो अन्तरिक्षममिमीत वरिमाणम्पृथिव्याः । आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥

अदित्याः। त्वक्। असि। अदित्यै। सदः। आ। सीद। अस्तभ्नात्। द्याम्। वृषभः। अन्तरिक्षम्। अमिमीत। वरिमाणम्। पृथिव्याः। आ। असीदत्। विश्वा। भुवनानि। सम्राडिति सम्ऽराट्। विश्वा। इत्। तानि। वरुणस्य। व्रतानि॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आदित्याः) पृथिव्यादे: (त्वक्) यस्त्वचति संवृणोति सः (असि) अस्ति वा । अत्र पक्षे सर्वत्र व्यत्ययः (अदित्यै) पृथिव्यादिसृष्टये (सदः) स्थापनम् (आ) समन्तात् (सीद) सादयति वा । अत्र व्यत्ययोऽन्तर्गतो ण्यर्थश्च (अस्तभ्नात्) स्तभ्नासि, स्तभ्नाति धरति वा । अत्र लडर्थे लङ् (द्याम्) सूर्यादिकं प्रकाशं वा (वृषभः) श्रेष्ठः (अन्तरिक्षम्) अवकाशम् (अमिमीत) निर्मिमीते । अत्रापि लडर्थे लुङ् (वरिमाणम्) वरस्य भावम् (पृथिव्याः) अन्तरिक्षस्यावकाशस्य मध्ये। पृथिवीत्यन्तरिक्षनामसु पठितम् ॥ निघं० १ ॥ ३ ॥ (आ) सर्वतः (आसीदत्) सादयसि सादयत्यवस्थापयति वा (विश्वा) सर्वाणि (भुवनानि) लोकान् (सम्राट् ) यः सम्यग्राजते सः (विश्वा) अखिलानि (इत्) एव (तानि) एतानि (वरुणस्य) परमेश्वरस्य, सूर्य्यस्य, वायोर्वा (व्रतानि) शीलानि ॥ अयं मंत्रः श० ३ ।३ ।४ ।१-५ व्याख्यातः ॥ ३०॥

[ ईश्वरः]
Essence
अत्र श्लेषालङ्कारः॥ पूर्वस्मान्मत्राद् 'अपद्महि' इति पदमनुवर्त्तते ।

[हे जगदीश्वर! --पृथिव्याः=अन्तरिक्षस्य विश्वा भुवनान्यासीदत्=आसादयसि, अस्मात्तानि= एतानि......= ते=तव इत्=एव व्रतानि सन्ति]

परमेश्वरस्यैतैष स्वभावो यदिदं सर्वमभिव्याप्य रचयित्वा धरत्येव सूर्यवाय्वोरपि प्रकाशधारणस्वभावोऽस्ति ।।४ ।३० ॥
Subject
अथेश्वरसूर्य्यवायुगुणा उपदिश्यन्ते ।।
Meaning of Anvay
हे जगदीश्वर ! यतो वृषभः श्रेष्ठः त्वमदित्याः पृथिव्यादेः त्वक् यस्त्वचति= संवृणोति स असि, अदित्यै पृथिव्यादिसृष्टये सद: स्थापनम् आसीद=आसादयसि, द्यां सूर्यादिकम् अस्भनात्=स्तभ्नासि, वरिमाणं वरस्य भावम् अन्तरिक्षम् अवकाशम् अमिमीत=निर्मिमीषे, सम्राट् यः सम्यग् राजते स सन् पृथिव्याः=अन्तरिक्षस्य अन्तरिक्षस्य=अवकाशस्य मध्ये विश्वा सर्वाणि भुवनानि लोकान् आसीदत्=आसादयसि।
अस्मातानि=एतानिविश्वा=सर्वाणि अखिलानि वरुणस्य परमेश्वरस्य ते=तव इत्=एव व्रतानि शीलानि सन्तीति वयम् अपद्महि=विजानीयामेत्येकः॥

[सूर्यो वायुश्च]
यो वृषभः श्रेष्ठ: सम्राट्=सूर्यो वायुश्च यः सम्यग्राजते स अदित्याः पृथिव्यादेः त्वक् यस्त्वचति=संवृणोति स असि=अस्ति, संवृणोत्यदित्यै पृथिव्यादिसृष्टये सदः स्थापनम् आसीद=आसादयति, द्यां प्रकाशम् अस्तभ्नात्=स्तभ्नाति धरति वा वरिमाणं वरस्य भावम् अन्तरिक्षम्=अवकाशम्अमिमीत=निर्मिमीते, पृथिव्याः=अन्तरिक्षस्य मध्ये अन्तरिक्षस्यावकाशस्य मध्ये विश्वा सर्वाणि भुवनानि लोकान् आसीदत्=आसादयति सर्वतः सादयत्यवस्थापयति वा तस्य तानि=एतानि विश्वा=सर्वाणि अखिलानि वरुणस्य=सूर्यस्य वायोश्चइत्=एव व्रतानि=शीलानि सन्तीति वयम् अपद्महीति द्वितीयः ।। ४ । ३० ।।

[ अनुवृत्तिमाह--]
Meaning of Essence
व्रतानि=स्वभावाः ॥
Special
वत्सः। वरुण:=ईश्वरः, सूर्यो-वायुश्च ॥ पूर्वस्य स्वराड्याजुषी त्रिष्टुप्। अस्तभ्नादित्यन्तस्यार्षी त्रिष्टुप्। धैवतः