Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 29

37 Mantra
4/29
Devata- अग्निर्देवता Rishi- वत्स ऋषिः Chhand- निचृत् आर्षी अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म्। येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ व॒सु॑॥२९॥

प्रति॑। पन्था॑म्। अ॒प॒द्म॒हि॒। स्व॒स्ति॒गामिति॑ स्वस्ति॒ऽगाम्। अ॒ने॒हस॑म्। येन॑। विश्वाः॑। परि॑। द्विषः॑। वृ॒णक्ति॑। वि॒न्दते॑। वसु॑ ॥२९॥

Mantra without Swara
प्रति पन्थामपद्महि स्वस्तिगामनेहसम् येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥

प्रति। पन्थाम्। अपद्महि। स्वस्तिगामिति स्वस्तिऽगाम्। अनेहसम्। येन। विश्वाः। परि। द्विषः। वृणक्ति। विन्दते। वसु॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्रति) प्रत्यक्षे वीप्सायां च (पन्थाम्) मार्गं मार्गम् (अपद्महि) प्राप्नुयाम (स्वतिगाम्) स्वस्ति=सुखं गच्छति येन तम् । अत्र जनसनखन० ॥ अ०३।२। ६७ ॥ अनेन विट् प्रत्ययः (अनेहसम्) अविद्यमानानि एहांसि हननानि यस्मिंस्तम् । अत्र नञि हन एह च । उ०४ ।२२४ । अनेनायं सिद्धः (येन) मार्गेण (विश्वाः) सर्वा: (परि) सर्वतः (द्विषः) द्विषन्ति [न] प्रीणयन्ति याभ्यः शत्रुसेनाभ्यो दुःखक्रियाभ्यो वा ताः। अत्र कृतो बहुलमिति हेतौ क्विप् (वृणक्ति) वर्जयति । अत्रान्तर्गतो ण्यर्थः (विन्दते) लभते (वसु) सुखकारकं धनम् ॥ अयं मंत्रः श० ३ ।३ ।३ ।१५-१६ व्याख्यातः ॥ २९॥
Essence
मनुष्यैर्द्वेषादित्यागाय, विद्याधनप्राप्तये, धर्ममार्गप्रकाशायेश्वरप्रार्थना धर्म विद्वत्सेवा च नित्यं कार्या ॥ ४ ॥ २९॥
Subject
पुनः स किमर्थं प्रार्थनीय इत्युपदिश्यते ॥
Meaning of Anvay
हे जगदीश्वराग्ने ! त्वदनुगृहीताः पुरुषार्थिनो भूत्वा वयं येन मार्गेणविद्वान् विश्वाःसर्वाः द्विषः द्विषन्ति=[न] प्रीणयन्ति याभ्यः शत्रुसेनाभ्यो दुःखक्रियाभ्यो वा ताः परिवृणक्ति सर्वतो वर्जयति, वसु सुखकारकं धनं विन्दते लभते, तमनेहसम् अविद्यमानानि एहांसिहननानि यस्मिंस्तंस्वस्तिगां स्वस्ति=सुखं गच्छति येन तं पन्थां=मार्गंमार्गं मार्गंप्रत्यपद्महि=प्रत्यक्षतया व्याप्त्या प्राप्नुयाम ॥ ४ ॥ २९॥

[हे जगदीश्वराग्ने! –वयं येन विद्वान् विश्वा द्विषः परिवृणक्ति, वसु विन्दते तम्......पन्थां=मार्गं प्रत्यपद्महि=प्रत्यक्षतया व्याप्त्या प्राप्नुयाम]
Meaning of Essence
वसु=विद्याधनम् । पन्थाम्=धर्ममार्गम् ॥
Special
वत्सः ।अग्निः=ईश्वरः।।निचृदार्ष्यनुष्टुप् । गान्धारः ॥