Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 28

37 Mantra
4/28
Devata- अग्निर्देवता Rishi- वत्स ऋषिः Chhand- साम्नी बृहती,साम्नी उष्णिक्, Swara- मध्यमः
Mantra with Swara
परि॑ माग्ने॒ दुश्च॑रिताद् बाध॒स्वा मा॒ सुच॑रिते भज। उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ऽअनु॑॥२८॥

परि॑। मा॒। अ॒ग्ने॒। दुश्च॑रिता॒दिति॒ दुःऽच॑रितात्। बा॒ध॒स्व॒। आ। मा॒। सुच॑रित॒ इति॒ सुऽच॑रिते। भ॒ज॒। उत्। आयु॑षा। स्वा॒युषेति॑ सुऽआ॒युषा॑। उत्। अ॒स्था॒म्। अ॒मृता॑न्। अनु॑ ॥२८॥

Mantra without Swara
परि माग्ने दुश्चरिताद्बाधस्वा मा सुचरिते भज । उदायुषा स्वायुषोदस्थाममृताँ अनु ॥

परि। मा। अग्ने। दुश्चरितादिति दुःऽचरितात्। बाधस्व। आ। मा। सुचरित इति सुऽचरिते। भज। उत्। आयुषा। स्वायुषेति सुऽआयुषा। उत्। अस्थाम्। अमृतान्। अनु॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(परि) सर्वतः (मा) माम् (अग्ने) विज्ञानस्वरूपदयालो जगदीश्वर! (दुश्चरितात्) दुष्टाचरणात् (बाधस्व) निवर्त्तय (आ) समन्तात् (मा) माम् (सुचरिते) यस्मिन् शोभनानि चरितानि धर्म्ये व्यवहारे तस्मिन् (भज) स्थापय (उत्) अपि (आयुषा) जीवनेन (स्वायुषा) शोभनमायुर्जीवनं=प्राणधारणं यस्मिँस्तेन सह (उत्) उत्कृष्टे (अस्थाम्) तिष्ठेयम् (अमृतान्) प्राप्तमोक्षान् सदेहान् विगतदेहान् वा विदुषो मुक्त्यानन्दानुत्तमान् भोगान् वा (अनु) आनुकूल्ये ॥ अयं मंत्र श० ३ ।३ ।३ । १३–१४ व्याख्यातः॥ २८ ॥
Essence
मनुष्यैरधर्मत्यागायधर्मग्रहणाय सत्यभावेन प्रार्थितोऽयं परमात्मा तथैतानधर्माद् वियोज्य धर्मे सद्यः प्रवर्त्तयति, तथैव स्वैरपि यावज्जीवनं तावत् सर्वं धर्माचरणे नीत्वा संसार-मुक्तिसुखानि सेवनीयानि ।। ४ । २८ ।।
Subject
सर्वैर्मनुष्यैः सर्वेषु कर्त्तव्येषु शुभकर्मानुष्ठानेषु परमेश्वरः सदा प्रार्थनीय इत्युपदिश्यते ॥
Meaning of Anvay
हे अग्ने=जगदीश्वर! विज्ञानस्वरूप दयालो जगदीश्वर! त्वं कृपया येन कर्मणाऽहं स्वायुषा शोभनमायुर्जीवनं प्राणधारणं यस्मिंस्तेन सह आयुषा जीवनेन अमृतान्=प्राप्तमोक्षान्, सदेहान् विगतदेहान् वा विदुषो, ऽमृतात्मभोगान् वा प्राप्तमोक्षान् सदेहान् विगतदेहान् वा विदुषो मुक्त्यानन्दानुत्तमान् भोगान्वा उदस्थाम्=उत्कृष्टतया प्राप्नुयाम् (उत्कृष्टं तिष्ठेयम्)।
तेन मा=मां संयोज्य दुश्चरितात् दुष्टाचरणात् [परि] उद्बाधस्व=पृथक् कुरू, सर्वतोऽपि निवर्त्तय पृथक् कृत्वा मा=मां येन कर्मणाऽहं सुचरिते यस्मिन् शोभनानि चरितानि धर्म्ये व्यवहारे तस्मिन् अन्वाभजअनुकूलं समन्तात् स्थापय ।। ४ । २८ ।।

[हे अग्ने=जगदीश्वर! त्वं कृपया येन कर्मणाऽहं....आयुषाऽमृतान्.....अमृतात्मभोगान्... उदस्थाम्.....उत्कृष्टतया प्राप्नुयाम्, तेन मा=मां संयोज्य दुश्चरितात् [परि] उद्बाधस्व=पृथक् कुरु]
Special
वत्सः। अग्निः=ईश्वरः । पूर्वार्द्धस्य साम्नी बृहती। मध्यमः। उत्तरार्द्धस्य साम्न्युष्णिक्।ऋषभः ॥