Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 27

37 Mantra
4/27
Devata- विद्वान् देवता Rishi- वत्स ऋषिः Chhand- भूरिक् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
मि॒त्रो न॒ऽएहि॒ सुमि॑त्रध॒ऽइन्द्र॑स्यो॒रुमावि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ꣳ स्यो॒नः स्यो॒नम्। स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑ सोम॒क्रय॑णा॒स्तान् र॑क्षध्वं॒ मा वो॑ दभन्॥२७॥

मि॒त्रः। नः॒। आ। इ॒हि॒। सुमि॑त्रध॒ इति॒ सुऽमि॑त्रधः। इन्द्र॑स्य। उ॒रुम्। आ। वि॒श॒। दक्षि॑णम्। उ॒शन्। उ॒शन्त॑म्। स्यो॒नः। स्यो॒नम्। स्वान॑। भ्राज॑। अङ्घा॑रे। बम्भा॑रे। हस्त॑। सुह॒स्तेति॒ सुऽहस्त॑। कृशा॑नो॒ऽइति॒ कृशानो। ए॒ते। वः॒। सो॒म॒क्रय॑णा॒ इति॑ सोम॒ऽक्रय॑णाः। तान्। र॒क्ष॒ध्व॒म्। मा। वः॒। द॒भ॒न् ॥२७॥

Mantra without Swara
मित्रो न एहि सुमित्रधः इन्द्रस्योरुमा विश दक्षिणमुशन्नुशन्तँ स्योनः स्योनम् । स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानोवेते वः सोमक्रयणास्तान्रक्षध्वम्मा वो दभन् ॥

मित्रः। नः। आ। इहि। सुमित्रध इति सुऽमित्रधः। इन्द्रस्य। उरुम्। आ। विश। दक्षिणम्। उशन्। उशन्तम्। स्योनः। स्योनम्। स्वान। भ्राज। अङ्घारे। बम्भारे। हस्त। सुहस्तेति सुऽहस्त। कृशानोऽइति कृशानो। एते। वः। सोमक्रयणा इति सोमऽक्रयणाः। तान्। रक्षध्वम्। मा। वः। दभन्॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मित्रः) सुहृत् सन् (नः) अस्मान् (आ) आगमने (इहि) प्राप्नुहि (सुमित्रधः) यः शोभनानि मित्राणि दधाति सः (इन्द्रस्य) सभाद्यध्यक्षस्य विदुषः (उरुम्) आ बह्वाच्छादनं स्वीकरणं वा (आ) समन्तात् (विश) (दक्षिणम्) उत्तमाङ्गं दक्षिणभागम् (उशन्) कामयन् (उशन्तम्) कामयन्तम् (स्योनः) सुखकारक: (स्योनम् ) सुखम् । स्योनमिति सुखनामसु पठतिम् ॥ निघं० ३।६ ॥ (स्वान) स्वनत्युपदिशति यस्तत्संबुद्धौ (भ्राज) यो भ्राजते=प्रकाशते तत्संबुद्धौ (अङ्घारे) अंघस्य=छलस्यारि: शत्रुस्तत्संबुद्धौ (बम्भारे) बन्धानां=सुविचारनिरोधकानां शत्रुस्तत्संबुद्धौ। अत्र वर्णव्यत्ययेन धस्य भः (हस्त) हसन्ति=प्रसन्ना भवन्ति यस्मात्तत्संबुद्धौ (सुहस्त) शोभना हस्तक्रिया यस्य तत्संबुद्धौ (कृशानो) दुष्टान् कृशति तत्संबुद्धौ (एते) सर्वे धार्मिकाः प्रजास्था भृत्या वा (वः) युष्मान् (सोमक्रयणाः) ये सोमानुत्तमान् पदार्थान् क्रीणन्ति ते (तान्) सर्वान् (रक्षध्वम्) सततं पालयत । अत्र व्यत्ययेनात्मनेपदम् (मा) निषेधे (वः) युष्मान् (दभन्) हिंसेयुः । अत्र व्यत्ययो लिङर्थे लङ् च ॥ अयं मंत्रः श० ३।३। ३। १०-१२ व्याख्यातः ॥ २७ ॥
Essence
राजप्रजापुरुषैः परस्परं प्रीत्योपकारे धर्म्ये व्यवहारे च वर्त्तित्वा शत्रून् निवार्याविद्यान्धकारं विनाश्य चक्रवर्त्तिराज्यं प्रशास्यानन्दे सदा स्थातव्यम् ।। ४ । २७ ।।
Subject
मनुष्यैर्विदुषा सह विदुषैतैश्च कथं वर्त्तितव्यमित्युपदिश्यते॥
Meaning of Anvay
हे स्वान! स्वनत्युपदिशति यस्तत्सम्बुद्धौ, भ्राज यो भ्राजते=प्रकाशते तत्सम्बुद्धौ, अङ्घारे अङ्घस्य=छलस्यारि:=शत्रुस्तत्सम्बुद्धौ, बम्भारे बन्धानां=सुविचारनिरोधकानां शत्रुस्तत्सम्बुद्धौ, हस्त हसन्ति= प्रसन्ना भवन्ति यस्मात्तत्सम्बुद्धौ, सुहस्त शोभना हस्तक्रिया यस्य तत्सम्बुद्धौ, कृशानो दुष्टान् कृशति तत्सम्बुद्धौ, सभाद्यध्यक्ष! सुमित्रधः यः शोभनानि मित्राणि दधाति सः, मित्रः सुहृत्सन्, स्योनः सुखकारकः, उशन् कामयन् त्वं नः=अस्मान् आ-इहिआगम्य प्राप्नुहि ।
दक्षिणम् उत्तमाङ्गं दक्षिणभागम् उरुं बह्वाच्छादनं स्वीकरणं वा उशन्तं कामयन्तं स्योनं सुखम् आविश समन्ताद् विश ।
हे मनुष्या ! एते सर्वे धार्मिकाः प्रजास्था भृत्या वा इन्द्रस्य=विदुषः सभाद्यध्यक्षस्य विदुषः सोमक्रयणाः ये सोमानुत्तमान् पदार्थान् क्रीणन्ति ते मनुष्या वः=युष्मान् रक्षन्तु, यूयमेतान् रक्षध्वं सततं पालयत ।
यथा तान् सर्वान् वः=युष्मान् शत्रवो मा दभन्=हिंसितारो न भवेयुः न हिंसेयुः तथैव परस्परं संप्रीत्या मिलित्वाऽनुष्ठेयम् ।। ४ । २७ ।।

[हे मनुष्या! एते इन्द्रस्य=विदुषः सोमक्रयणा मनुष्या वः=युष्मान् रक्षन्तु, यूयमेतान् रक्षध्वम्, यथा तान् सर्वान् वः=युष्मान् शत्रवो मा दभन्=हिंसितारो न भवेयुः, तथैव परस्परं संप्रीत्या मिलित्वाऽनुष्ठेयम्]
Special
वत्सः। विद्वान्=स्पष्टम्। भूरिग्ब्राह्मी पंक्तिः । पंचमः ।।