Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 25

37 Mantra
4/25
Devata- सविता देवता Rishi- वत्स ऋषिः Chhand- भूरिक् शक्वरी,भूरिक् गायत्री, Swara- निषादः, षड्जः
Mantra with Swara
अ॒भि त्यं दे॒वꣳ स॑वि॒तार॑मो॒ण्योः क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वꣳ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम्। ऊ॒र्ध्वा यस्या॒मति॒र्भाऽअदि॑द्यु॒त॒त् सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा स्वः॑। प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि॥२५॥

अ॒भि। त्यम्। दे॒वम्। स॒वि॒ता॑रम्। ओण्योः᳖। क॒विक्र॑तु॒मिति॑ क॒विऽक्र॑तु॒म्। अर्चा॑मि। स॒त्यस॑व॒मिति॑ स॒त्यऽस॑वम्। र॒त्न॒ऽधामिति॑ रत्न॒धाम्। अ॒भि। प्रि॒यम्। म॒तिम्। क॒विम्। ऊ॒र्ध्वा। यस्य॑। अ॒मतिः॑। भाः। अदि॑द्यु॒तत्। सवी॑मनि। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। अ॒मि॒मी॒त॒। सु॒क्रतु॒रिति॑ सु॒ऽक्रतुः॑। कृ॒पा। स्व॒रिति॒ स्वः॑। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। त्वा॒। प्र॒जा इति॑ प्र॒ऽजाः। त्वा॒। अ॒नु॒प्राण॒न्त्वित्य॑नु॒ऽप्राण॑न्तु॒। प्र॒जा इति॑ प्र॒ऽजाः। त्वम्। अ॒नु॒ऽप्राणि॒हीत्य॑नु॒ऽप्राणि॑हि ॥२५॥

Mantra without Swara
अभि त्यं देवँ सवितारमोण्योः कविक्रतुमर्चामि सत्यसवँ रत्नधामभि प्रियम्मतिङ्कविम् । ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः । प्रजाभ्यस्त्वा । प्रजास्त्वानुप्राणन्तु प्रजास्त्वमनुप्राणिहि ॥

अभि। त्यम्। देवम्। सवितारम्। ओण्योः। कविक्रतुमिति कविऽक्रतुम्। अर्चामि। सत्यसवमिति सत्यऽसवम्। रत्नऽधामिति रत्नधाम्। अभि। प्रियम्। मतिम्। कविम्। ऊर्ध्वा। यस्य। अमतिः। भाः। अदिद्युतत्। सवीमनि। हिरण्यपाणिरिति हिरण्यऽपाणिः। अमिमीत। सुक्रतुरिति सुऽक्रतुः। कृपा। स्वरिति स्वः। प्रजाभ्य इति प्रऽजाभ्यः। त्वा। प्रजा इति प्रऽजाः। त्वा। अनुप्राणन्त्वित्यनुऽप्राणन्तु। प्रजा इति प्रऽजाः। त्वम्। अनुऽप्राणिहीत्यनुऽप्राणिहि॥२५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अभि) आभिमुख्ये (त्यम्) जगदीश्वरं राजसभास्थजनसमूहं वा (देवम्) सुखदातारम् (सवितारम्) देवानामग्न्यादीनां रसानां वा प्रसवितारम् (ओण्योः) द्यावापृथिव्योः। ओण्योरिति द्यावापृथिवीनामसु पठितम्॥ निघं० ३ ।३० ॥ (कविक्रतुम्) कविः=सर्वज्ञा सकलविद्या युक्ता क्रतु:¬=प्रज्ञा कर्म क्रमदर्शनं व यस्य तम् । कवि क्रान्तदर्शनो भवति कवतेर्वा।।निरु०१२ । १३ ।। (अर्चामि) पूज्यामि (सत्यसवम्) सत्यं सव=ऐश्वर्य्यं जगद्वा यस्मिन्यस्य वा तम् (रत्नधाम्) यो रत्नानि=रमणीयानि विज्ञानानि हीरकादीनि भुवनानि वा दधातीति तम् (अभि) आभिमुख्ये (प्रियम्) यः प्रीणाति तम् (मतिम्) यो वेदादिशास्त्रैर्विद्वद्भिश्च मन्यते तम् (कविम्) वेदविद्याया उपदेष्टारं निमित्तं वा (उर्ध्वा) उत्कृष्टा (यस्य) सच्चिदानन्दस्वरूपस्य शुभगुणयुक्तस्य वा (अमतिः) रूपम्। अमतिरिति रूपनामसुपठितम् ॥ निघं० ३ ।७ ॥ (भा) योभाति प्रकाशते सः (अदिद्युतत्) प्रकाशितवान्। प्रकाशयति वा (सवीमनि) यः सूयते संसारस्तस्मिन् (हिरण्यपाणिः) हिरण्यानि =ज्योतींषि सूर्य्यादीनि सुवर्णादीनि वा पाणौ व्यवहारे यस्य सः । ज्योतिर्हि हिरण्यम् ॥श० ४ ।३ ।४ ।२१॥इति प्रमाणेन हिरण्यशब्देन ज्योतिषो ग्रहणम् (अमिमीत) निर्मितवान् निर्मिमीते वा (सुक्रतुः) शोभनः क्रतुः=प्रज्ञा कर्म वा यस्य सः (कृपा) करुणा (स्व:) सुखमादित्यं वा। स्वरादित्यो भवति स एतानि सारयति । निरु० ५ । ४॥ (प्रजाभ्यः) उत्पन्नाभ्यः सृष्टिभ्यः (त्वा) त्वाम् (प्रजाः) मनुष्यादिसृष्टयः (त्वा) त्वाम् (अनुप्राणन्तु) आयुर्भुज्जताम् (प्रजाः) जगत्स्था: (त्वम्) अयं वा (अनुप्राणिहि) जीवतोऽनुजीवनं धर धरति वा । अयं मन्त्रः श० ३ ।३ ।२ ।१२-१९ व्याख्यातः ॥ २५ ॥


[ईश्वरः]
Essence
अत्र श्लेषालङ्कारः॥ मनुष्यैः सर्वजगत्स्रष्टुर्निराकारस्य व्यापिनः सर्वशक्तिमत: सच्चिदानन्दादिलक्षणस्य परमेश्वरस्य, प्रजापालनतत्परस्य सभापतेर्धार्मिकस्य त्वैवार्चा नित्यं कर्त्तव्या, नातो भिन्नस्य कस्यचित्।। ४ । २५ ।।

[[त्वा]=तं प्रजा अनुप्राणन्तु कृपया त्वं प्रजा अनुप्राणिहि]
विद्वद्भिः प्रजास्थानां सुखायैतेषां स्तुतिप्रार्थनोपदेशा नित्यं कार्या:। यतः सर्वाः प्रजास्तदाज्ञानुकूलाः सदा वर्त्तेरन्। यथा प्राणे सर्वेषां जीवानां प्रीतिरस्ति तथा परमात्मादिष्वपि कार्येति।। ४ । २५ ।।
Subject
पुनरीश्वरराजसभाप्रजागुणा उपदिश्यन्ते ॥
Meaning of Anvay
हे परमात्मन् ! अहं यस्य सच्चिदानन्दस्वरूपस्य सवीमनि यः सूयते संसारस्तस्मिन् उद्धर्वा उत्कृष्टा अमतिः रूपं भाः यो भाति=प्रकाशते स अदिद्युतत् प्रकाशितवान् कृपा करुणा स्वः=सुखम् आदित्यं करोति।
यो हिरण्यपाणिः हिरण्यानि=ज्योतींषि सूर्यादीनि पाणौ=व्यवहारे यस्य स सक्रतुः शोभन: क्रतुः=प्रज्ञा कर्म वा यस्य स स्वरमिमीत=आदित्यं निर्मितवान्।
त्यं=यं जगदीश्वरं ओण्योः द्यावापृथिव्योः सवितारं देवानामग्न्यादीनां प्रसवितारंकविक्रतुं कविः=सर्वज्ञा सर्वविद्यायुक्ता प्रज्ञा यस्य तं [सत्यसवसम्] सत्यं सव: ऐश्वर्यं जगद्वा यस्मिन् रत्नधां यो रत्नानि=रमणीयानि विज्ञानानि भुवनानि वा दधातीति तं प्रियं यः प्रीणाति तं मतिं यो वेदादिशास्त्रैर्विद्वद्भिश्च मन्यते तं कविं वेदविद्याया निमित्तं देवं सुखदातारं त्वा त्वां प्रजाभ्यः उत्पन्नाभ्यः सृष्टिभ्यः अभ्यर्चामि अभिमुखं पूजयामि । [त्वा]=तं त्वां प्रजाः मनुष्यादिसृष्टयः अनुप्राणन्तु आयुर्भुञ्जताम्,कृपया त्वं प्रजाः जगत्स्था: अनुप्राणिहि जीवतोऽनुजीवनं धर ।।

[सभाध्यक्ष:]

हे सभाध्यक्षराजपुरुष ! अहं यस्य शुभगुणयुक्तस्य सवीमनि यः सूयते संसारस्तस्मित् उर्ध्वा उत्कृष्टा अमतिः रूपं भाः यो भाति=प्रकाशते स अदिद्युतत् प्रकाशयति कृपा करुणा स्वः=सुखं करोति।
यो हिरण्यपाणिः हिरण्यानि=सुवर्णादीनि पाणौ=व्यवहारे यस्य स सुक्रतुः शोभनः क्रतुः=प्रज्ञा कर्म वा यस्य स स्वः सुखं अमिमीत निर्मिमीते।
त्यं=यं राजसभास्थजनसमूहं ओण्योः द्यावापृथिव्योः सवितारं रसानां प्रसवितारं कविक्रतुं कविः=सर्वविद्यायुक्ता क्रतुः=प्रज्ञा कर्म क्रमदर्शनं यस्य तं [सत्यसवसम्] सत्यं सवः=ऐश्वर्यं यस्य रत्नधां यो रत्नानि=रमणीयानि विज्ञानानि हीरकादीनि दधातीति तं प्रियं यः प्रीणाति तं मतिंयो विवद्भिर्मन्यते तं कविंवेदविद्याया उपदेष्टारंत्वा त्वां प्रजाभ्यः उत्पन्नाभ्यः सृष्टिभ्य, अभ्यर्चामि अभिमुखं पूजयामि।
[त्वा]=तं प्रजाः मनुष्यादिसृष्टयः अनुप्राणन्तु आयुर्भुञ्जताम्, कृपया त्वम् अयं प्रजाः जगत्स्थाः अनुप्राणिहि जीवतोऽनुजीवनं धरति ।। ४ । २५ ।।

[हे परमात्मन्! अहं......यो.....स्वरमिमीत=अदित्यं निर्मितवान्, त्यं=यमोण्योः सवितारं--देवं त्वा प्रजाभ्योऽभ्यर्चामि]
Special
वत्सः।सविता=परमेश्वरः, सभाध्यक्षः । पूर्वस्य भुरिक् शक्वरी । निषादः । सुक्रतुरित्युत्तरस्य भृरिगार्षी गायत्री । षड्जः ॥