Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 24

37 Mantra
4/24
Devata- यज्ञो देवता Rishi- वत्स ऋषिः Chhand- ब्राह्मी जगती,याजुषी पङ्क्ति, Swara- निषादः, पञ्चमः
Mantra with Swara
ए॒ष ते॑ गाय॒त्रो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒ सा॑म्राज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒कोऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु॥२४॥

ए॒षः। ते॒। गा॒य॒त्रः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। ए॒षः। ते॒। त्रैष्टु॑भः। त्रैस्तु॑भ॒ इति त्रैऽस्तु॑भः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। ए॒षः। ते॒। जाग॑तः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। छ॒न्दो॒ना॒माना॒मिति॑ छन्दःऽना॒माना॑म्। साम्रा॑ज्य॒मिति॒ साम्ऽरा॑ज्यम्। ग॒च्छ॒। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। आ॒स्मा॒कः। अ॒सि॒। शु॒क्रः। ते॒। ग्रह्यः॑। वि॒चित॒ इति॑ वि॒ऽचितः॑। त्वा॒। वि। चि॒न्व॒न्तु॒ ॥२४॥

Mantra without Swara
एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताच्छन्दोनामानाँ साम्राज्यङ्गच्छेति मे सोमाय ब्रूतादास्माकोसि शुक्रस्ते ग्रह्यो विचितस्त्वा विचिन्वन्तु ॥

एषः। ते। गायत्रः। भागः। इति। मे। सोमाय। ब्रूतात्। एषः। ते। त्रैष्टुभः। त्रैस्तुभ इति त्रैऽस्तुभः। भागः। इति। मे। सोमाय। ब्रूतात। एषः। ते। जागतः। भागः। इति। मे। सोमाय। ब्रूतात्। छन्दोनामानामिति छन्दःऽनामानाम्। साम्राज्यमिति साम्ऽराज्यम्। गच्छ। इति। मे। सोमाय। बूतात्। आस्माकः। असि। शुक्रः। ते। ग्रह्यः। विचित इति विऽचितः। त्वा। वि। चिन्वन्तु॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एषः) प्रत्यक्षः (ते) तव (गायत्रः) गायत्रीप्रगाथोऽस्य सः । सोऽस्यादिरितिच्छन्दस: प्रगाथेषु ॥ अ० ४ । २ । ५५ ॥ अनेन प्रगाथविषये प्रत्यय: (भागः) सेवनीयः (इति) प्रकारार्थे (मे) मह्यम् (सोमाय) पदार्थविद्यासंपादकाय (ब्रूतात्) ब्रवीतु (एषः) यो विज्ञातुं योग्यः सः (ते) तव (त्रैष्टुभः) त्रिष्टुप्-प्रगाथोऽस्य सः (भागः) अंशः (इति) प्रकारे (मे) मह्यम् (सोमाय) उत्तमरससंपादकाय (ब्रूतात्) ब्रवीतु (एषः) योक्तुमर्हः (ते) तव (जागतः) जगतीप्रगाथोऽस्य सः (भागः) स्वीकर्तुमर्हः (इति) प्रकारार्थे (मे) मह्यम् (सोमाय) पदार्थविद्यास्वीकारकाय (ब्रूतात्) उपदिशतु (छन्दोनामानाम्) यानि छन्दसामुष्णिगादीनां नामानि तेषाम् । अत्र अनसन्तान्न० ॥ अ० ५ । ४ । १०३।।इति सूत्रेण समासान्तष्टच् प्रत्ययः (साम्राज्यम्) सम्यग्राजन्ते= प्रकाशन्ते ते सम्राजी राजानस्तेषां भावः कर्म वा तत् (गच्छ) प्राप्नुहि प्रापय वा (इति) प्रकारे (मे) मह्यम् (सोमाय) ऐश्वर्य्ययुक्ताय राज्याय (ब्रूतात्) ब्रवीतु (अस्माकः) योऽस्माकमयमुपदेष्टाऽधिपतिः सः (असि) वर्त्तते (शुक्रः) पवित्रः पवित्रकारको वा (ते) तव (ग्रह्यः) ग्रहीतुं योग्यः (विचितः) विविधविद्याशुभगुणधनादिभिश्चित: संयुक्तः (त्वा) त्वां तं वा (वि) विविधार्थे (चिन्वन्तु) वर्धयन्तु । अत्रान्तर्गतो ण्यर्थः। अयं मंत्र श० ३।३।२।४-८ व्याख्यातः ॥ २४ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ मनुष्या विद्वद्भ्यः पृष्ट्वा सर्वा विद्याः संगृह्णीरन्। विद्वांसः खल्वेता: संग्राहयन्तु ।
[ते=तवाहं विचितो ग्रह्योऽस्मि.....सर्वे त्वामेतं यज्ञं मां च विचिन्वन्तु=वर्धयन्तु]
परस्परमनुग्राह्यानुग्राहकभावेन वर्त्तित्वा सर्वे वृद्धिं प्राप्य चक्रवर्त्तिराज्यं सेवेरन्निति ।। ४ । २४ ॥
Subject
किं प्रतिपादनाय जिज्ञासुर्विदुषः पृच्छेदित्युपदिश्यते।।
Meaning of Anvay
हे विद्वन्! त्वं विद्वांसं प्रति कोऽस्य यज्ञस्य गायत्रः गायत्री प्रगाथोऽस्य सः भागः सेवनीयः अस्तीति एवं प्रकारं पृच्छ,
स विद्वान् ते=तस्य (तव) एष प्रत्यक्षः अयमस्तीति एवं प्रकारं मे=मह्यं सोमाय पदार्थं विद्यासम्पादकाय एतं ब्रूताद्=ब्रवीतु=उपदिशतु।
कोऽस्य यज्ञस्य त्रैष्टुभः त्रिष्टुप् प्रगार्थोऽस्य स भागःअंशः अस्तीति एवं प्रकारत्वं पृच्छ, स ते=तस्य (तव) एष यो विज्ञातुं योग्यः सः अयम् अस्तीति एवं प्रकारंसमक्षे खल्वेतं मे=मह्यंसोमाय उत्तमरससम्पादकाय ब्रूताद् ब्रवीतु ।
कोऽस्य यज्ञस्य जागतः जगतीप्रगाथोऽस्य स भागः स्वीकर्त्तुमर्हः अस्तीति एवं प्रकार त्वं पृच्छ, स ते तस्य (तव) एष योक्तुमहेः अयमस्तीति एवं प्रकार प्रसिध्क्ष्यैतं सोमाय पदार्थविद्यास्वीकारकाय मे=मह्यं ब्रूताद् उपादिशतु ।
यथा भवान् छन्दोनामानाम्=उष्णिगादीनां छन्दसां यानि छन्दसामुष्णिगादीनां नामानि तेषां मध्ये प्रतिपादितस्य यज्ञस्योपदेशे साम्राज्यं सम्यग्राजन्ते=प्रकाशन्ते ते सम्राजो=राजानस्तेषां भावः कर्म वा तत् [गच्छ]=गच्छतु प्राप्नुहि प्रापय वा तथैवैतेषामेनं सोमाय ऐश्वर्ययुक्ताय राज्याय मे=मह्यं ब्रूतात् ब्रवीतु ।
यतस्त्वमास्माकः योऽस्माकमयमुपदेष्टाऽधिपतिः स शुक्रः पवित्रः पवित्रकारको वा असि वर्त्तसे, तस्मान्ते= तवाहं विचितः विविधविद्याशुभगुणधनादिभिश्चित: संयुक्तः ग्रह्यः गृहीतुं योग्यः अस्मि,
[त्वा]=त्वं मां सर्वैरेतैर्विचिनुहि। अहं त्वां तं वा विचिनोम्येवं सोऽपिसर्वे त्वामेतं यज्ञं मां च विचिन्वन्तु=वर्धयन्तु विविधं वर्धन्तु ॥ ४।२४ ।।

[हे विद्वन्! त्वं विद्वांसं प्रतिकोऽस्य यज्ञस्य गायत्रो भागोऽस्तीति पृच्छ, स विद्वान् ते=तस्यैषोऽयमस्तीति....एतं ब्रूताद्=ब्रवीति=उपदिशतु]
Meaning of Essence
ग्रह्यः=परस्परमनुग्राह्यानुग्राहकभावः ।
Special
वत्सः । यज्ञः=स्पष्टम् । पूर्वस्य ब्राह्मी जगती । निषादः ॥ अन्त्यस्य दशाक्षरस्य याजुषी पंक्तिः । पञ्चमः ॥