Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 21

37 Mantra
4/21
Devata- वाग्विद्युतौ देवते Rishi- वत्स ऋषिः Chhand- विराट् आर्षी बृहती, Swara- मध्यमः
Mantra with Swara
वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑। बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒राच॑के॥२१॥

वस्वी॑। अ॒सि॒। अदि॑तिः। अ॒सि॒। आ॒दि॒त्या। अ॒सि॒। रु॒द्रा। अ॒सि॒। च॒न्द्रा। अ॒सि॒। बृह॒स्पतिः॑। त्वा॒। सु॒म्ने। र॒म्णा॒तु॒। रु॒द्रः। वसु॑भि॒रिति॒॑ वसु॑ऽभिः। आ। च॒के॒ ॥२१॥

Mantra without Swara
वस्व्यस्यदितिरस्यादित्यासि रुद्रासि चन्द्रासि । बृहस्पतिष्ट्वा सुम्ने रम्णातु रुद्रो वसुभिरा चके ॥

वस्वी। असि। अदितिः। असि। आदित्या। असि। रुद्रा। असि। चन्द्रा। असि। बृहस्पतिः। त्वा। सुम्ने। रम्णातु। रुद्रः। वसुभिरिति वसुऽभिः। आ। चके॥२१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वस्वी) याऽग्न्यादिपदार्थाख्यवसुविद्यासंबन्धिनी वसुभिश्चतुर्विंशतिवर्षं कृतब्रह्मचर्यैः प्राप्ता सा (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (अदितिः) प्रकाशवन्नित्या। अदितिर्द्यौरिति प्रकाशकारकोऽर्थो गृह्यते (असि) अस्ति (आदित्या) यऽऽदित्यवदर्थविद्याप्रकाशिकाऽष्टचत्वारिंशत्संवत्सरपर्यन्तानुष्ठितब्रह्मचर्य्यैः स्वीकृता सा (असि) अस्ति (रुद्रा) सा प्राणवायुसंबन्धिनी चतुश्चत्वारिंशद्धायनावधिसेवितब्रह्मचर्यैः स्वीकृता सा (असि) अस्ति (चन्द्रा) आह्लादयित्री (असि) अस्ति (बृहस्पतिः) परमेश्वरो विद्वान् वा (त्वा) ताम् (सुम्ने) सुखे (रम्णातु) रमयतु । अत्रान्तर्गतो ण्यर्थो विकरणव्यत्ययश्च (रुद्रः) दुष्टानां रोदयिता विद्वान् (वसुभिः) उषितसर्वविद्यैर्विद्वद्भिः सह (आ) समन्तात् (चके) कामितवान् कामयतां वा अत्र पक्षे लोडर्थे लिट्। आचक इति कान्तिकर्मसु पठितम् ॥ निघं० २ । ६ ॥ अयं मंत्र: श० ३।२।४।१-२ व्याख्यातः ॥ २१ ॥
[या वस्वी [असि]=अस्ति,अदिति: [असि]=अस्ति]
Essence
अत्र श्लेषवाचकलुप्तोपमालङ्कारौ ॥ यथा ये वाग्विद्युतौ प्राणपृथिव्यादिभि: सह वर्तमाने अनेकव्यवहारहेतू स्तः,

[रुद्रा[असि]=अस्ति, आदित्या [असि]=अस्ति, चन्द्रा [असि]=अस्ति]
ये जितेन्द्रियादिधर्मपुरस्सरं यथायोग्यं कृतब्रह्मचर्यैर्मनुष्यैर्विज्ञानेन क्रियासु संप्रयोजिते सत्यौ वाग्विद्युतौ बहुसुखकारके जायेते। ऐते त्वमपि नित्यं सेवस्व ।। ४ । २१ ।।
Subject
पुनस्ते कोदृश्यावित्युपदिश्यते ॥
Meaning of Anvay
हे विद्वन् मनुष्य ! यथा या वस्वी याऽग्न्यादि पदार्थाख्यवसुविद्यासम्बन्धिनी, वसुभिश्चतुर्विंशतिवर्षकृतब्रह्मचर्यै:प्राप्ता सा [असि]=अस्ति, अदितिः प्रकाशवन्नित्या [असि]=अस्ति, रुद्रा सा प्राणवायुसम्बन्धिनी, चतुश्चत्वारिंशद्धायनावधिसेवितब्रह्मचर्यैः स्वीकृता सा [असि]=अस्ति, आदित्या याऽऽदित्यवदर्थं विद्याप्रकाशिकाऽष्टचत्वारिंशत्संवत्सरपर्यन्तानुष्ठितब्रह्मचर्यैः स्वीकृता सा [असि]= अस्ति, चन्द्रा आह्लादयित्री [असि]=अस्ति, यां बृहस्पतिः परमेश्वरो विद्वान् वा सुम्नेसुखेरमयति=प्रेरयति, यां रुद्रः दुष्टानां रोदयिता विद्वान् वसुभिः उषित उषितसर्वविद्यैर्विद्वद्भिः सह वर्तमानामाचके समन्तात् कामितवान् कामयतां वा, यामहं कामये, तथा त्वां=तां भवान् रम्णातु=रमयतु ॥ ४ । २१ ।।
Meaning of Essence
चन्द्रा=बहुसुखकारिका।
Special
वत्सः। वाग्विद्युतौ=वाणी विद्युच्च । विराडार्षी बृहती। मध्यमः ॥