Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 20

37 Mantra
4/20
Devata- वाग्विद्युतौ देवते Rishi- वत्स ऋषिः Chhand- साम्नी जगती,भूरिक् आर्षी उष्णिक् Swara- निषादः
Mantra with Swara
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः। सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ꣳ रु॒द्रस्त्वा॑वर्त्तयत् स्वस्ति सोम॑सखा॒ पुन॒रेहि॑॥२०॥

अनु॑। त्वा॒। मा॒ता। म॒न्य॒ता॒म्। अनु॑। पि॒ता। अनु॑। भ्राता॑। सग॑र्भ्य॒ इति॒ सऽग॑र्भ्यः। अनु॑। सखा॑। सयू॑थ्य॒ इति॒ सऽयू॑थ्यः। सा। दे॒वि॒। दे॒वम्। अच्छ॑। इ॒हि॒। इन्द्रा॑य। सोम॑म्। रु॒द्रः। त्वा॒। आ। व॒र्त्त॒य॒तु॒। स्व॒स्ति॑। सोम॑स॒खेति॒ सोम॑ऽसखा। पुनः॑। आ। इ॒हिः॒ ॥२०॥

Mantra without Swara
अनु त्वा माता मन्यतामनु पितानु भ्राता सगर्भ्या नु सखा सयूथ्यः । सा देवि देवमच्छेहीन्द्राय सोमँ रुद्रस्त्वा वर्तयतु स्वस्ति सोमसखा पुनरेहि ॥

अनु। त्वा। माता। मन्यताम्। अनु। पिता। अनु। भ्राता। सगर्भ्य इति सऽगर्भ्यः। अनु। सखा। सयूथ्य इति सऽयूथ्यः। सा। देवि। देवम्। अच्छ। इहि। इन्द्राय। सोमम्। रुद्रः। त्वा। आ। वर्त्तयतु। स्वस्ति। सोमसखेति सोमऽसखा। पुनः। आ। इहिः॥२०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अनु) अन्यभावे (त्वा) त्वाम् (माता) जननी (मन्यताम् ) विज्ञापयतु स्वीकुरुताम् (अनु) पुनरर्थे (पिता) जनकः (अनु) पश्चादर्थे । अन्विति सादृश्यापरभावम् ॥ निरु० १ ।३ ॥ (भ्राता) बन्धुः (सगर्भ्यः) समानश्वासौ गर्भ: सगर्भस्तस्मिन्भवः । अत्र सगर्भसयूथसनुताद्यन् ॥ अ० ॥ ४ ॥ ४ । ११४ ।। इति सूत्रेणभवार्थे यन्प्रत्यय: (अनु) आनुकूल्ये (सखा) मित्र: (सयूथ्यः) समानश्चासौ यूथः समूहस्तस्मिन् भवः । पूर्वसूत्रेणास्य सिद्धि: (सा) पूर्वोक्ता (देवि) देदीप्यमाना (देवम्) परमेश्वरं विद्यायुक्तं शुद्धव्यवहारं वा (अच्छ) सम्यग्रीत्या (इहि) जानीहि प्राप्नुहि वा (इन्द्राय) परमैश्चर्य्यप्राप्तये (सोमम्) उत्तमपदार्थसमूहम् (रुद्रः) परमेश्वरः। चतुश्चत्वारिंशद्वर्षकृतब्रह्मचर्यो विद्वान् वा (त्वा) ताम् (आ) समन्तात् (वर्त्तयतु) प्रवृत्तं कारयतु (स्वस्ति) शोभनमस्ति यस्मिन् प्राप्तव्ये तत्सुखम् । स्वस्तीति पदनामसु पठितम् ॥ निघं. ५ । ५ ॥ (सोमसखा) सोमः=परमेश्वरः सोमविद्याविन्मनुष्यो वा सखा=सुहृद्यस्य सः (पुनः) पश्चात् (आ) समन्तात् (इहि) प्राप्नुहि प्राप्नोति वा ॥ अयं मंत्रः श० ३।२।४।२०-२१ व्याख्यातः ॥ २०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। मनुष्यैः परस्परमेव वर्त्तितव्यं--यथा धर्मात्मा विदुषी माता, धर्मात्मा विद्वान् पिता, भ्राता, मित्रादयश्च सत्ये व्यवहारे प्रवर्तेरँस्तथैव पुत्रादिभिरप्यनुवर्तितव्यम् ।
यथा च विद्वांसो धार्मिकाः पुत्रादयो धर्मे व्यवहारे प्रवर्तेरँस्तथैव मात्रादिभिरप्यनुष्ठातव्यमित्येवं सर्वैः परस्परं वार्त्तित्वऽऽनन्दितव्यम् ॥ 4 । 20॥
Subject
पुनस्ते कीदृश्यावित्युपदिश्यते॥
Meaning of Anvay
हे मनुष्य! यथा रुद्रः=परमेश्वरो विद्वान् वा परमेश्वरः, चतुश्चत्वारिंशद्वर्षकृतब्रह्मचर्यो विद्वान् वा वर्त्तयतु प्रवृत्तं कारयतु, यां वाणीं विद्युतं सोमम् उत्तम पदार्थसमूहं देवं परमेश्वरं विद्यायुक्तं शुद्धव्यवहारं वा, स्वस्ति=सुखं शोभनमस्ति यस्मिन् प्राप्तव्ये तत्सुखं, यस्मा इन्द्राय परमैश्वर्यप्राप्तये आवर्त्तयतु समन्तात् प्रवृत्तं कारयतु, या सोमसखा सोम:=परमेश्वरःसोमविद्याविन्मनुष्यो वा सखा=सुहृद्यस्य सः [सा] पूर्वोक्ता देवि=वाग् विद्युद् वा देदीप्यमाना देवं=विद्वांसं परमेश्वरं विद्यायुक्तं शुद्धव्यवहारं वा एति, तथैव त्वं तस्मै पुनरच्छेहि=पुनः पुनः समन्तात् सम्यग्रीत्या प्राप्नुहि पश्चात् सम्यग्रीत्या जानीहि प्राप्नुहि वा ।
एतद्विद्यां ग्रहीतुं त्वा=त्वां माता जननी अनुमन्यताम् अन्यभावेन विज्ञापयतु स्वीकुरुतां, पिता जनकः अनुमन्यतां पुनः विज्ञापयतु स्वीकुरुतां, सगर्भ्यः समानश्चासौ गर्भः सगर्भस्तस्मिन् भवः भ्राता बन्धुः अनुमन्यतां पश्चाद् विज्ञापयतु स्वीकुरुतां, सयूथ्यः समानश्चासौ यूथः=समूहस्तस्मिन् भवः सखा मित्र: अनुमन्यताम् अनुकूलं विज्ञापयतु स्वीकुरुतां, त्वं च त्वा=एतां पुनः पुनः पुरुषार्थेनैहि=प्राप्नुहि, समन्तात् प्राप्नुहि (प्राप्नोति वा) ।। ४ । २०।।

[एतद्विद्यां ग्रहीतुं त्वा=त्वां माता, पिता, सगर्भ्यो भ्राता, सयूथ्यः सखाऽनुमन्यताम् त्वं च त्वा=एतां पुनः
पुनः पुरुषार्थेनैहि]
Meaning of Essence
माता=धर्मात्मा विदुषी माता। पिता=धर्मात्मा विद्वान्पिता ।।
Special
वत्स । वाग्विद्युतौ=वाणी विद्युच्च ॥ पूर्वार्द्धस्य साम्नी जगती । निषादः । उत्तरार्द्धस्य भुरिगार्ष्युष्णिक् । ऋषभः ।।