Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 2

37 Mantra
4/2
Devata- आपो देवता Rishi- प्रजापतिर्ऋषिः Chhand- स्वराट् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
आपो॑ऽअ॒स्मान् मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः पुनन्तु। विश्व॒ꣳ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒तऽए॑मि। दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वा श॒ग्मां परि॑दधे भ॒द्रं वर्णं॒ पुष्य॑न्॥२॥

आपः॑। अ॒स्मान्। मा॒तरः॑। शु॒न्ध॒य॒न्तु॒। घृ॒तेन॑। नः॒। घृ॒त॒प्व᳖ इति॑ घृतऽप्वः॒। पु॒न॒न्तु॒। विश्व॑म्। हि। रि॒प्रम्। प्र॒वह॒न्तीति॑ प्र॒ऽवह॑न्ति। दे॒वीः। उत्। इत्। आ॒भ्यः॒। शुचिः॑। आ। पू॒तः। ए॒मि॒। दी॒क्षा॒त॒पसोः॑। त॒नूः। अ॒सि॒। ताम्। त्वा॒। शि॒वाम्। श॒ग्माम्। परि॑। द॒धे॒। भ॒द्रम्। वर्ण॑म्। पुष्य॑न् ॥२॥

Mantra without Swara
आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वँ हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि । दीक्षातपसोस्तनूरसि तन्त्वा शिवाँ शग्माम्परि दधे भद्रँवर्णम्पुष्यन् ॥

आपः। अस्मान्। मातरः। शुन्धयन्तु। घृतेन। नः। घृतप्व इति घृतऽप्वः। पुनन्तु। विश्वम्। हि। रिप्रम्। प्रवहन्तीति प्रऽवहन्ति। देवीः। उत्। इत्। आभ्यः। शुचिः। आ। पूतः। एमि। दीक्षातपसोः। तनूः। असि। ताम्। त्वा। शिवाम्। शग्माम्। परि। दधे। भद्रम्। वर्णम्। पुष्यन्॥२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आपः) जलानि (अस्मान्) मनुष्यादीन्प्राणिन: (मातरः) मातृवत्पालिकाः (शुन्धयन्तु) बाह्यदेशं पवित्रं कुर्वन्तु (घृतेन) आज्येन (नः) अस्मान् (घृतप्व:) घृतं पुनन्ति यास्ताः (पुनन्तु) पवित्रयन्तु (विश्वम्) सर्वं जगत् (हि) खलु (रिप्रम्) व्यक्तवाणीप्राप्तव्यं=वेदितव्यम् । अत्र लीरीङी ह्रस्वः ।। उ० ५ । ५५ ।। अनेनायं सिद्धः (प्रवहन्ति) प्रकर्षेण प्राप्नुवन्ति (देवीः) देव्य: (उत्) उत्कृष्टे (इत्) अपि (आभ्य:) अद्भ्यः (शुचि:) पवित्र: (आ) समन्तात् (पूतः) शुद्ध: (एमि) प्राप्नोमि ( दीक्षातपसोः) दीक्षा-ब्रह्मचर्य्यादिनियमसेवनं च तपो-धर्मानुष्ठानं च तयोः (तनूः) सुखविस्तारनिमित्तं शरीरम् (असि) अस्ति । अत्र व्यत्ययः (ताम्) (त्वा) एताम् (शिवाम्) कल्याणकारिकाम् (शग्मान्) सुखस्वरूपाम् (परि) सर्वतः (दधे ) धरामि (भद्रम्) भजनीयम् (वर्णम्) स्वीकर्तुमर्हमतिसुन्दरम् (पुष्यन्) पुष्टं कुर्वन्॥अयं मन्त्रः श० ३।१ । २ । १-११ व्याख्यातः ।। २ ।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः ।। याः सर्वसुखप्रापिकाः प्राणधारिका मातृवत्पालनहेतव आपः सन्ति, ताभ्यः सर्वतः पवित्रतां सम्पाद्यैताः शोधित्वा मनुष्यं नित्यं संसेव्याः,

[भद्रं वर्णं पुष्यन्नहं--]

यतः सुन्दरं वर्णं रोगरहितं शरीरं चसापाद्य नित्यं प्रयत्नेन धर्ममनुष्ठाय पुरुषार्थेनानन्दः कर्त्तव्यः ॥ ४ । २ ॥
Subject
पुनस्ताभिरद्भिः किं कर्त्तव्यमित्युपदिश्यते ।।
Meaning of Anvay
सपदार्थान्वयः--हे मनुष्या! यथा भद्रं भजनीयं वर्णंस्वीकर्तुमर्हमतिसुन्दरं पुष्यन् पुष्टं कुर्वन् अहं या घृतप्वःघृतं पुनन्ति यास्ताः [देवी:] देव्य आप: जलानि विश्वं सर्वं जगत् रिप्रं व्यक्तवाणी प्राप्तव्यं=वेदितव्यं [हि] खलु प्रवहन्ति प्रकर्षेण प्राप्नुवन्ति, विद्वांसो या मातरः मातृवत् पालिकाः, या घृतप्वः घृतं पुनन्ति यास्ता: घृतेनआज्येन सन्ति याभिर्न:=अस्मान् सुखयन्ति ताभिरस्मान् मनुष्यादीन् प्राणिनः भवन्तः शुन्धयन्तु बाह्यदेशं पवित्रं कुर्वन्तु पुनन्तु पवित्रयन्तु च ।
यथाहम् उत् उत्कृष्ट इत् अपि आभ्यः अद्भ्यः शुचिः पवित्रः [पूतः] शुद्धः भूत्वा या दीक्षातपसो: दीक्षा= ब्रह्मचर्यादिनियमसेवनं च तपः=धर्मानुष्ठानं च तयोः, तनूः सुखविस्तारनिमित्तं शरीरम् असि=अस्ति ताम् [आ+एमि] समन्तात् प्राप्नोमि [त्वा]=त्वामेतां (एतां) शिवां कल्याणकारिकां शग्मां सुखस्वरूपां परिदधे=सर्वतो धरामि तथा तास्तां च यूयमपि धरत ॥ ४ ॥ २ ॥

[ हे मनुष्या!......आपोविश्वं रिप्रं [हि] प्रवहन्ति........या मातरः-- सन्ति ताभिरस्मान् भवन्तः शुन्धयन्तु, पुनन्तु च]
Meaning of Essence
विश्वम्=सर्वम् । रिप्रं=सुखं। मातरः=मातृवत्पालनहेतवः। भद्रम्=सुन्दरम्
Special
प्रजापतिः । आपः=जलानि । स्वराड्ब्राह्मी त्रिष्टुप्।धैवतः ।।