Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 19

37 Mantra
4/19
Devata- वाग्विद्युतौ देवते Rishi- वत्स ऋषिः Chhand- निचृत् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी। सा नः॒ सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाऽध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय॥१९॥

चित्। अ॒सि॒। म॒ना। अ॒सि॒। धीः। अ॒सि॒। दक्षि॑णा। अ॒सि॒। क्ष॒त्रिया॑। अ॒सि॒। य॒ज्ञिया॑। अ॒सि॒। अदि॑तिः। अ॒सि॒। उ॒भ॒य॒तः॒शी॒र्ष्णीत्यु॑भयतःऽशी॒र्ष्णी। सा। नः॒ सुप्रा॒चीति॒ सुऽप्रा॑ची। सुप्र॑ती॒चीति॒ सुऽप्र॑तीची। ए॒धि॒। मि॒त्रः॒। त्वा॒। प॒दि। ब॒ध्नी॒ता॒म्। पू॒षा। अध्व॑नः। पा॒तु॒। इन्द्रा॑य। अध्य॑क्षा॒येत्यधि॑ऽअक्षाय ॥१९॥

Mantra without Swara
चिदसि मनासि धीरसि दक्षिणासि क्षत्रियासि यज्ञियास्यदितिरस्युभयतःशीर्ष्णी । सा नः सुप्राची सुप्रतीच्येधि मित्रस्त्वा पदि बध्नीताम्पूषाध्वनस्पात्विन्द्रायाधक्षाय ॥

चित्। असि। मना। असि। धीः। असि। दक्षिणा। असि। क्षत्रिया। असि। यज्ञिया। असि। अदितिः। असि। उभयतःशीर्ष्णीत्युभयतःऽशीर्ष्णी। सा। नः सुप्राचीति सुऽप्राची। सुप्रतीचीति सुऽप्रतीची। एधि। मित्रः। त्वा। पदि। बध्नीताम्। पूषा। अध्वनः। पातु। इन्द्राय। अध्यक्षायेत्यधिऽअक्षाय॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(चित्) या विद्याव्यवहारस्य चेतयमाना वाग्विद्युद्वा (असि) अस्ति । अत्र सर्वत्र व्यत्ययः (मना) ज्ञानासाधिका (असि) अस्ति (धी:) प्रज्ञा कर्मविद्याधारिका (असि) अस्ति (दक्षिणा) दक्षन्ते=प्राप्नुवन्ति विज्ञानं विजयं च यया सा (असि) अस्ति (क्षत्रिया) या क्षत्रस्यापत्यवद्वर्त्तते (असि) अस्ति (यज्ञिया) या यज्ञमर्हति सा (असि) अस्ति (अदितिः) अविनाशिनी (असि) अस्ति (उभयतः शीर्ष्णी) उभयतः शिरोवदुत्तमा गुणा यस्यां सा । अत्र पञ्चम्या अलुक् (सा) (नः) अस्मभ्यम् (सुप्राची) शोभन: प्राक्=पूर्वः कालो यस्यां सा (सुप्रतीची) सुष्ठु प्रत्यक्=पश्चिमः कालो यस्यां सा (एधि) भवतु (मित्रः) सखा (त्वा) ताम् (पदि) पद्यते=जानाति प्राप्नोति येन व्यवहारेण तस्मिन् । अत्र कृतो बहुलमिति करणे क्विप् (बन्धीताम्) बद्धां कुरुताम् (पूषा) पुष्टिकर्ता (अध्वनः) मार्गस्य मध्ये (पातु) रक्षतु (इन्द्राय) परमैश्वर्य्यवते परमेश्वराय स्वामिने व्यवहाराय वा (अध्यक्षाय) अधिरुपरिभावेऽन्वेक्षणेऽक्षाण्यक्षिणी वा यस्य यस्माद्वा तस्मै । अयं मंत्रः शत० ३ ।२ ।४ ।१६-२० व्याख्यातः ।। १९॥
Essence
अत्र श्लेषालङ्कारः ॥ (ते), (सत्यसवसः), (प्रसवे) इति पदत्रयमत्रानुवर्तते ।

[या वाग् विद्युद्वा चिद् [असि]=अस्ति......उभयतः शीर्ष्णी.....[असि]=अस्ति, सा नः=अस्मभ्यं सुप्राची सुप्रतीच्येधि ]

या बाह्याभ्यन्तर-रक्षणाभ्यां सर्वोत्तमा वाग् विद्युच्च वर्तते, सैवा भूतभविष्यद्वर्त्तमानकालेषु सुखकारिण्यस्तीति वेद्यम् ।

[य!...... मनुष्यत्वाय [त्वा] त्वांतां पद्यध्यक्षायेन्द्राय बध्नीताम्]
यः कश्चित् परमेश्वरसभाध्यक्षोत्तमव्यवहारसिद्धिप्रीत्याज्ञापालनाय सत्यां वाचं, विद्युद्विद्यां च दृढां निबध्नाति,

[स भवान्.......नः=अस्मान् सततंपातु=रक्षतु]
स एव मनुष्यः सर्वरक्षको भवतीति ॥ ४ ॥ १९॥
Subject
पुनस्ते कीदृश्यावित्युपदिश्यते ।।
Meaning of Anvay
हे जगदीश्वर ! सत्यसवसस्ते=तव प्रसवे या वाग् विद्युद्वा चित् या विद्या व्यवहारस्य चेतयमाना वाग् विद्युद्वा [असि]=अस्ति, मना ज्ञानासाधिका [असि]=अस्ति, धीः प्रज्ञाकर्मविद्याधारिका [असि]=अस्ति, दक्षिणा दक्षन्ते=प्राप्नुवन्ति विज्ञानं विजयं च यया सा [असि]=अस्ति, क्षत्रिया या क्षत्रस्यापत्यवद्वर्तते [असि]=अस्ति, यज्ञिया या यज्ञमर्हति सा [असि]=अस्ति, उभयतःशीर्ष्णी उभयतः शिरोवदुत्तमा गुणा यस्यां सा अदितिः अविनाशिनी [असि]=अस्ति, सा नः=अस्मभ्यं सुप्राची शोभन: प्राक्=पूर्वः कालो यस्यां सा सुप्रतीची सुष्ठु प्रत्यक्=पश्चिमः कालोयस्यां सा एधि भवतु।
याः पूषा पुष्टिकर्ता मित्रः=सर्वसखो भूत्वा मनुष्यत्वाय [त्वा]=त्वां (तां) पदि पद्यते=जानाति प्राप्नोति येन व्यवहारेण तस्मिन् अध्यक्षाय अधिरुपरिभावेऽन्वेक्षणेऽक्षाण्यक्षिणी वा यस्य यस्माद्वा तस्मैइन्द्राय परमैश्वर्यवते परमेश्वराय स्वामिने व्यवहाराय वा बध्नीतां बद्धां कुरुताम्।

स भवानध्वनः=व्यवहारपरमार्थसिद्धिकरस्य मार्गस्य मध्ये नः=अस्मान् सततं पातु=रक्षतु ।।
४ । १९।।

[ अनुवृत्तिमाह--]
Meaning of Essence
उभयतः शीर्ष्णी=बाह्याभ्यन्तररक्षणाभ्यां सर्वोत्तमा [वाग् विद्युच्च]। सुप्राची=भूतकाले सुखकारिणी। सुप्रतीची=भविष्यत्काले सुखकारिणी। पदि=उत्तमव्यवहारसिद्धिप्रीत्याज्ञापालने । अध्यक्षाय = सभाध्यक्षाय ।
Special
वत्सः । वाग्विद्युतौ=वाणी विद्युच्च।निचृद् ब्राह्मीपंक्तिः । पञ्चमः ॥