Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 18

37 Mantra
4/18
Devata- वाग्विद्युतौ देवते Rishi- वत्स ऋषिः Chhand- स्वराट् आर्षी बृहती, Swara- मध्यमः
Mantra with Swara
तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो य॒न्त्रम॑शीय॒ स्वाहा॑। शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि॥१८॥

तस्याः॑। ते॒। स॒त्यस॑वस॒ इति॑ स॒त्यऽस॑वसः। प्र॒स॒व इति॑ प्रऽस॒वे। त॒न्वः᳖। य॒न्त्रम्। अ॒शी॒य॒। स्वाहा॑। शु॒क्रम्। अ॒सि॒। च॒न्द्रम्। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। वै॒श्व॒दे॒वमिति॑ वैश्वऽदे॒वम्। अ॒सि॒ ॥१८॥

Mantra without Swara
तस्यास्ते सत्यसवसः प्रसवे तन्वो यन्त्रमशीय स्वाहा । शुक्रमसि चन्द्रमस्यमृतमसि वैश्वदेवमसि ॥

तस्याः। ते। सत्यसवस इति सत्यऽसवसः। प्रसव इति प्रऽसवे। तन्वः। यन्त्रम्। अशीय। स्वाहा। शुक्रम्। असि। चन्द्रम्। असि। अमृतम्। असि। वैश्वदेवमिति वैश्वऽदेवम्। असि॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तस्याः) वाचो विद्युतो वा (ते) तव (सत्यसवसः) सत्यं सवं=ऐश्वर्यं जगत्कारणं वा यस्य तस्य परमात्मनः (प्रसवे) उत्पादिते संसारे (तन्व:) शरीरस्य। अत्र जसादिषु छन्दसि वा वचनमिति वार्तिकेनाडभाव: (यन्त्रम्) यन्त्रयति=संकुचति चालयति निबन्धाति वा येन तत् (अशीय) प्राप्नुयाम्
(स्वाहा) वाचं विद्युतं वा (शुक्रम्) शुद्धम् (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (चन्द्रम्) आह्लादकारकम् (असि) अस्ति (अमृतम्) अमृतात्मकव्यवहारपरमार्थसुखसाधकम् (असि) अस्ति (वैश्वदेवम्) यद्विश्वेषां देवानां=विदुषामिदं तत् (असि) अस्ति। अयं मंत्रः शत० ३ ।२ ।४ ।१२–१५ व्याख्यातः ।। १८ ।।
Essence
अत्र श्लेषालङ्कारः ॥ मनुष्यैरीश्वरोत्पादितायामस्यां सृष्टौ विद्यया कलायन्त्रसिद्धेरग्न्यादिभ्यः पदार्थेभ्यः सम्यगुपकारान् गृहीत्वा सर्वाणि सुखानि सम्पादनीयानि ॥ ४ ॥ १८ ॥
Subject
ते वाग्विद्युतौ कीदृशावित्युपदिश्यते ।।
Meaning of Anvay
हे जगदीश्वर ! सत्यसवसः सत्यं सवम्=ऐश्वर्यं जगत्कारणं वा यस्य तस्य परमात्मनः ते=तव प्रसवे उत्पादिते संसारे या स्वाहा=वाग् विद्युच्च वर्त्तते तस्याः वाचो विद्युतो वा विद्यां प्राप्य यत् [तन्वः] शरीरस्य शुक्रं शुद्धम् [असि]=अस्ति, चन्द्रम् आह्लादकारकम् [असि]=अस्ति, अमृतम् अमृतात्मकव्यवहारपरमार्थसुखसाधकम् [असि]=अस्ति, वैश्वदेवं यद्विश्वेषां देवानां=विदुषामिदं तत् [असि] अस्ति, तद्यन्त्रं यन्त्रयति=संकुचति चालयति निबध्नाति वा तत् अहमशीय=प्राप्नुयाम् ॥ ४ ॥ १८ ॥

[हे जगदीश्वर! ......ते =तव प्रसवे--विद्यां प्राप्य.......यन्त्रमहमशीय=प्राप्नुयाम्]
Meaning of Essence
प्रसवे= ईश्वरोत्पादितायामस्यां सृष्टौ । यन्त्रम्=कलायन्त्रम् ।
Special
वत्सः। वाग्विद्युत्=वाणी विद्युच्च ॥ स्वराडार्षीबृहती ।मध्यमः ॥