Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 17

37 Mantra
4/17
Devata- अग्निर्देवता Rishi- वत्स ऋषिः Chhand- आर्ची त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राज॑ङ्गच्छ। जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॥१७॥

ए॒षा। ते॒। शु॒क्र॒। त॒नूः। एतत्। वर्चः॑। तया॑। सम्। भ॒व॒। भ्राज॑म्। ग॒च्छ॒। जूः। अ॒सि॒। धृ॒ता। मन॑सा। जुष्टा॑। विष्ण॑वे ॥१७॥

Mantra without Swara
एषा ते शुक्र तनूरेतद्वर्चस्तया सम्भव भ्राजङ्गच्छ । जूरसि धृता मनसा जुष्टा विष्णवे ॥

एषा। ते। शुक्र। तनूः। एतत्। वर्चः। तया। सम्। भव। भ्राजम्। गच्छ। जूः। असि। धृता। मनसा। जुष्टा। विष्णवे॥१७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एषा) वक्ष्यमाणा (ते) तव (शुक्र) वीर्य्यवन् विद्वन्! (तनूः) शरीरम् (एतत्) प्रत्यक्षम् (वर्च:) विज्ञानं तेजो वा (तथा) तन्वा (सम्) सम्यगर्थे (भव) निष्पद्यस्व (भ्राजम्) प्रकाशम् (गच्छ) प्राप्नुहि (जूः) ज्ञानी वेगवान् वा (असि) भवसि (धृता) ध्रियते यया तया। अत्र कृतो बहुलमिति क्विप् (मनसा) विज्ञानेन (जुष्टा) प्रीता सेविता वा (विष्णवे) परमेश्वराय यज्ञाय वा ॥ अयं मन्त्रः श० ३।२।४। ९-११ व्याख्यातः ।।
१७ ।।
Essence
मनुष्यैः परमेश्वराज्ञापालनेन विज्ञानयुक्तेन मनसा शरीरात्मारोग्यं वर्धित्वा, यज्ञमनुष्ठाय, विज्ञानयुक्तेन मनसा सुखयितव्यम् ।। ४ । १७ ।।
Subject
एतान्सेवित्वा मनुष्येण कथं भवितव्यमित्युपदिश्यते॥
Meaning of Anvay
हे शुक्र=विद्वन् ! वीर्यवन् विद्वन्! [एषा] वक्ष्यमाणा ते=तव या विष्णवे परमेश्वराय यज्ञाय वा तनूः शरीरम् [असि]=अस्ति (भवसि) या त्वया धृताध्रियते यया तयाजुष्टा प्रीता सेविता वा च तया तन्वा जूः ज्ञानी वेगवान् वा सँस्त्वमेतत् प्रत्यक्षंवर्चः विज्ञानं तेजो वा सम्भव=सम्यग्भावय सम्यक् निष्पद्यस्व, भ्राजं प्रकाशंगच्छ प्राप्नुहि, मनसा विज्ञानेन एतेनपुरुषार्थं गच्छ=प्राप्नुहि ।। ४ । १७ ।।

[हे शुक्र=विद्वन्! [एषा] ते तव या विष्णवे तनूः[असि]=अस्ति.......तथा जूः संस्त्वमेतद्वर्चः सम्भव=सम्यग्भावय,........मनसैतेन पुरुषार्थं गच्छ=प्राप्नुहि]
Meaning of Essence
विष्णवे=परमेश्वराज्ञापालनाय, यज्ञानुष्ठानाय वा । मनसा=विज्ञानयुक्तेन मनसा।
Special
वत्सः। अग्नि:=ईश्वरः॥ आर्चीत्रिष्टुप् ।धैवतः।।