Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 15

37 Mantra
4/15
Devata- अग्निर्देवता Rishi- आङ्गिरस ऋषयः Chhand- ब्राह्मी बृहती, Swara- मध्यमः
Mantra with Swara
पुन॒र्मनः॒ पुन॒रायु॑र्म॒ऽआग॒न् पुनः॑ प्रा॒णः पुन॑रा॒त्मा मऽआग॒न् पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ म॒ऽआग॑न्। वै॒श्वा॒न॒रोऽद॑ब्धस्तनू॒पाऽअ॒ग्निर्नः॑ पातु दुरि॒ताद॑व॒द्यात्॥१५॥

पुनः॑। मनः॑। पुनः॑। आयुः॑। मे॒। आ। अ॒ग॒न्। पुन॒रिति॒ पुनः॑। प्रा॒णः। पुनः॑। आ॒त्मा। मे॒। आ। अ॒ग॒न्। पुन॒रिति॒ पुनः॑। चक्षुः॑। पुन॒रिति॒ पुनः॑। श्रोत्र॑म्। मे॒। आ। अ॒ग॒न्। वै॒श्वा॒न॒रः। अद॑ब्धः। त॒नू॒पा इति॑ तनू॒ऽपाः। अ॒ग्निः। नः॒ पा॒तु॒। दु॒रि॒तादिति॑ दुःइ॒तात्। अ॒व॒द्यात् ॥१५॥

Mantra without Swara
पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रम्म आगन् । वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यात् ॥

पुनः। मनः। पुनः। आयुः। मे। आ। अगन्। पुनरिति पुनः। प्राणः। पुनः। आत्मा। मे। आ। अगन्। पुनरिति पुनः। चक्षुः। पुनरिति पुनः। श्रोत्रम्। मे। आ। अगन्। वैश्वानरः। अदब्धः। तनूपा इति तनूऽपाः। अग्निः। नः पातु। दुरितादिति दुःइतात्। अवद्यात्॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
[पुनः] जागरणे शयनानन्तरं, द्वितीये जन्मनि वा (मनः) विज्ञानसाधकम् (पुनः) पश्चाज्जन्मानन्तरम् येन (आयुः) येन जीवनम् (मे) मह्यम् (आ) समन्तात् (अगन्) प्राप्नोति । अत्र सर्वत्र लडर्थे लुङ् । मन्त्रं घस० । इति च्लेर्लुक् । मोनोधातोरिति मकारस्य नकार: (पुनः) वारंवारम् (प्राणः) शरीराधारकः (पुनः) पश्चात् मनुष्यदेहधारणानन्तरम् (आत्मा) अतति=सर्वत्र व्याप्नोतीति सर्वान्तर्यामी परमात्मा, स्वस्वभावो वा (मे) मह्यम् (आ) अभितः (अगन्) प्राप्नोति (पुनः) पश्चात् (चक्षुः) चष्टे येन तद्रूपग्राहकमिन्द्रियम् (पुनः) अग्रे (श्रोत्रम्) शृणोति शब्दान्येन तच्छब्दग्राहकमिन्द्रियम् (मे) मह्यम् (आ) आभिमुख्ये (अगन्) प्राप्नोति (वैश्वानरः) शरीरनेता जाठराग्निः। सर्वस्य नेता परमेश्वरो वा (अदब्धः) हिंसितुमनर्हः (तनूपाः) यः शरीरमात्मानं च रक्षति (अग्निः) अन्तस्थो विज्ञानस्वरूपो वा (नः) अस्मान् (पातु) पालयति पालयतु वा (दुरितात्) पापजन्यात्प्राप्तव्याद् दुःखाद् दुष्टकर्मणो वा (अवद्यात्) पापाचरणात् ॥ अयं मंत्रः श० ३ ।२ ।२ ।२३ व्याख्यातः ।। १५ ।।
Essence
अत्र श्लेषालङ्कारः ॥ यदा जीवाः शयनं मरणं च प्राप्नुवन्ति तदा यानि कार्यसिद्धिसाधनानि मनआदीनीन्द्रियाणि प्रलीनानीव भूत्वा पुनः पुनर्जागरणे जन्मान्तरे वा प्राप्नुवन्ति, तानि यस्य विद्युदग्न्यादेः सम्बन्धेन परमेश्वरस्य सत्ताव्यवस्थाभ्यां वा सगोलकानि भूत्वा कार्यकरणसमर्थानि भवन्ति ।

[सोऽदब्धस्तनूपा वैश्वानरोऽग्निर्नः=अस्मान् वद्याद् दुरितात् पातु=पालयति, पालयतु वा]
स सम्यक् सेवितो जाठराग्निः सर्वं रक्षत्युपासितो जगदीश्वरः पापकर्मणः सकाशान्निवर्त्य, धर्मं प्रवर्त्य पुन: पुनर्मनुष्यजन्मानि प्रापप्य दुष्टाचाराद् दुःखेभ्यश्च पृथक् कृत्वाऽऽभ्युदयिकं नैःश्रेयसिकं च सुखं प्रापयति ।। ४ । १५ ।।
Subject
जीवा अग्निवाय्वादिनिमित्तेन जागरणे पुनर्जन्मनि वा प्रसिद्धानि मन आदीनीन्द्रियाणि प्राप्नुवन्तीत्युपदिश्यते ॥
Meaning of Anvay
यस्य सम्बन्धेन कृपया वा मे=मह्यं [पुनः]=जागरणे पुनर्जन्मनि वा जागरणे शयनानन्तरं द्वितीये जन्मनि वा, मनः विज्ञानसाधकम् आयुः येन जीवनं पुनः पश्चाज्जन्मानन्तरं येन आ-अगन् समन्तात् प्राप्नोति ।
मे=मम प्राणः शरीरधारकः पुनः वारंवारकम् आ-गन् समन्तात् प्राप्नोति ।
आत्माअतति=सर्वत्र व्याप्नोतीति सर्वान्तर्यामी परमात्मा, स्वस्वभावो वा पुनः पश्चान्मनुष्यदेहधारणानन्तरम् आ-अगन् अभितः प्राप्नोति ।
मे=मह्यं चक्षुः चष्टे येन तद्रूपग्राहकमिन्द्रियं पुनः पश्चाद् आ-अगन् ।
श्रोत्रं शृणोति शब्दान् येन तच्छब्दग्राहकमिन्द्रियंपुनः अग्रे आ-अगन् आभिमुख्येन प्राप्नोति ।

सोऽदब्धः हिंसितुमनर्हः तनूपाः यः शरीरमात्मनं च रक्षति वैश्वानरः शरीरनेता जाठराग्निः, सर्वस्य नेता परमेश्वरो वा अग्निः अन्तरस्थो, विज्ञानस्वरूपो वा नः=अस्मान् अवद्यात् पापाचरणात् दुरितात् पापजन्यात् प्राप्तव्याद् दुःखाद् दुष्टकर्मणोवा पातु=पालयति पालयतु वा ।। ४ । १५ ।।

[यस्य सम्बन्धेन कृपया वा मे=मह्यं [पुनः]=जागरणे पुनर्जन्मनि वा मनः, आयुः, प्राणः, आत्मा, चक्षुः, श्रोत्रं, पुनरागन्]
Special
अङ्गिरसः । अग्निः=भौतिकः, ईश्वरो वा। निचृद्ब्राह्मी बृहती। मध्यमः ॥