Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 14

37 Mantra
4/14
Devata- अग्निर्देवता Rishi- आङ्गिरस ऋषयः Chhand- स्वराट् आर्षी उष्णिक्, Swara- ऋषभः
Mantra with Swara
अग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीमहि। रक्षा॑ णो॒ऽअप्र॑युच्छन् प्र॒बुधे॑ नः॒ पुन॑स्कृधि॥१४॥

अग्ने॑। त्वम्। सु। जा॒गृ॒हि॒। व॒यम्। सु। म॒न्दि॒षी॒म॒हि॒। रक्ष॑। नः॒। अप्र॑युच्छ॒न्नित्यप्र॑ऽयुच्छन्। प्र॒बुध॒ इति॑ प्र॒ऽबुधे॑। न॒। पु॒न॒रिति॒ पुनः॑। कृ॒धि॒ ॥१४॥

Mantra without Swara
अग्ने त्वँ सु जागृहि वयँ सु मन्दिषीमहि । रक्षा णो अप्रयुच्छन्प्रबुधे नः पुनस्कृधि ॥

अग्ने। त्वम्। सु। जागृहि। वयम्। सु। मन्दिषीमहि। रक्ष। नः। अप्रयुच्छन्नित्यप्रऽयुच्छन्। प्रबुध इति प्रऽबुधे। न। पुनरिति पुनः। कृधि॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) अयमग्निः (त्वम्) य: (सु) श्रैष्ठ्ये (जागृहि) जागर्ति । अत्र व्यत्ययो लडर्थे लोट् च (वयम्) कर्मानुष्ठातारो नित्यं जागरिताः (सु) शोभने (मन्दिषीमहि) शयीमहि (रक्ष) रक्षति। अत्र द्व्यचोऽतस्तिङ इति दीर्घः (नः) अस्मान् (अप्रयुच्छन्) प्रमादमकुर्वन् (प्रबुधे) जागरिते (नः) अस्मान् (पुनः) (कृधि) करोति । अत्र व्यत्ययो लडर्थे लोट् च ॥ अयं मन्त्रः शत० ३ ।२ ।२ ।२२ व्याख्यातः॥ १४ ॥
Essence
मनुष्यैर्योऽग्निः शयन-जागरण-जीवन-मरण हेतुरस्ति, स युक्त्वा संप्रयोक्तव्यः ।। ४ । १४ ।।
Subject
पुनरग्निगुणा उपदिश्यन्ते ।
Meaning of Anvay
अग्नेअयमग्निः त्वं=योऽग्निः प्रबुधे जागरिते नः=अस्मान् सुजागृहिसुष्ठु जागरयति जागर्ति। येन वयं कर्मानुष्ठातारो नित्यं जागरिताः सुमन्दिषीमहि शोभनं शयीमहि योऽअप्रयुच्छन् प्रमादमकुर्वन् नः=अस्मान् रक्ष=रक्षति, प्रयुच्छँश्च हिनस्ति यो नः=अस्मान् पुनः पुनरेवं कृधि=करोति सोऽस्माभिर्युक्त्या सम्यक्सेवनीयः ।। ४ । १४ ।।
[अग्ने त्वं=योऽग्निः प्रबुधे नः=अस्मान् सुजागृहि=सुष्ठु जागरयति, येन वयं सुमन्दिषीमहि, योऽप्रयुच्छन् नः=अस्मान् रक्ष=रक्षति, प्रयुच्छँश्च हिनस्ति........सोऽस्माभिर्युक्त्वा सम्यक् सेवनीय:]
Special
अङ्गिरसः।अग्निः=भौतिकः। स्वराडार्ष्युष्णिक् ऋषभः ।।