Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 12

37 Mantra
4/12
Devata- आपो देवताः Rishi- आङ्गिरस ऋषयः Chhand- भूरिक् ब्राह्मी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पोऽअ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवाः॑। ताऽअ॒स्मभ्य॑मय॒क्ष्माऽअ॑नमी॒वाऽअना॑गसः॒ स्व॑दन्तु दे॒वीर॒मृता॑ऽऋता॒वृधः॑॥१२॥

श्वा॒त्राः पी॒ताः। भ॒व॒त॒। यू॒यम्। आ॒पः॒। अ॒स्माक॑म्। अ॒न्तः। उ॒दरे। सु॒शेवा॒ इति॑ सु॒ऽशे॑वाः। ताः। अ॒स्मभ्य॑म्। अ॒य॒क्ष्माः। अ॒न॒मी॒वाः। अना॑गसः। स्वद॑न्तु। दे॒वीः। अ॒मृताः॑। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑ ॥१२॥

Mantra without Swara
श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः । ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृधः ॥

श्वात्राः पीताः। भवत। यूयम्। आपः। अस्माकम्। अन्तः। उदरे। सुशेवा इति सुऽशेवाः। ताः। अस्मभ्यम्। अयक्ष्माः। अनमीवाः। अनागसः। स्वदन्तु। देवीः। अमृताः। ऋतावृधः। ऋतवृध इत्यृतऽवृधः॥१२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(श्वात्राः) श्वात्रं प्रशस्तं विज्ञानं धनं वा विद्यते यासां ताः । अत्र अर्श आदिभ्योऽच् ॥ अ. ५ ।२ ।१२७ ।। इति प्रशंसार्थेऽच्। श्वात्रमिति पदनामसु पठितम् ॥ निघं० ४ ।२ ।।धननामसु च ॥ निघं. २ ।१० ॥ (पीताः) कृतपाना: (भवत) नित्यं संपद्येरन् (यूयम्) एताः (आपः) प्राणा जलादयो वा (अस्माकम् ) मनुष्याणाम् (अन्तः) मध्ये (उदरे) शरीराभ्यन्तरे (सुशेवाः) सुष्ठु शेवं सुखं याभ्यस्ताः। शेवमिति सुखनामसु पठितम् ॥ निघं० ३ ।६॥[ताः] (अस्मभ्यम्) मनुष्यादिभ्यः (अयक्ष्माः) अविद्यमानो यक्ष्मा क्षयरोगो याभ्यस्ता: (अनमीवाः) अविद्यमानोऽमीवा ज्वरादिरोगसमूहो याभ्यस्ताः (अनागसः) न विद्यतेऽग: पापं दोषो यासु ता निर्दोषा: (स्वदन्तु) सुष्ठु सेवन्ताम् (देवीः) दिव्यगुणसंपन्नाः। अत्र वा च्छन्दसीति जसः पूर्णसवर्णत्वम् (अमृताः) नाशरहिता अमृतरसाः (ऋतावृधः) या ऋतं सत्यं वर्धयन्ति ताः ।।अयं मन्त्रः शत० ३।२।२।१९ व्याख्यातः ।। १२।।
Essence
मनुष्यैर्विद्वत्संगेन सुशिक्षया विद्यां प्राप्य सर्वथा सुपरीक्षिताः, शोधिताः, संस्कृताः शरीरात्मबलवर्धका रोगविच्छेदका जलादयः पदार्थाः सेवनीयाः।
[ तात्पर्यमाह--]
न हि विद्याऽऽरोग्याभ्यां विना कश्चिदपि निरन्तरं कर्म कर्त्तुं शक्नोति, तस्मादेतत्सर्वदाऽनुष्ठेयम् ।। ४ । १२ ।।
Subject
एतदनुष्ठायाग्रे मनुष्यैः किं किं कर्त्तव्यमित्युपदिश्यते॥
Meaning of Anvay
हे मनुष्या ! या अस्माभिः पीताः कृतपानाः अस्माकं मनुष्याणाम् अन्तः मध्ये उदरे शरीराभ्यन्तरे स्थिता अस्मभ्यंमनुष्यादिभ्यः श्वात्राः श्वात्रं=प्रशस्तं विज्ञानं धनं वा विद्यते यासां ताः सुशेवा: सुष्ठु शेवं=सुखं याभ्यस्ताः अयक्ष्मा: अविद्यमानो यक्ष्मा=क्षयरोगो याभ्यस्ताः अनमीवाः अविद्यमानोऽमीवा=ज्वरादिरोगसमूहो याभ्यस्ता: अनागसः न विद्यतेऽगः=पापं दोषो यासु ता निर्दोषाः ऋतावृधः या ऋतं=सत्यं वर्धयन्ति ताः अमृताः नाशरहिता अमृतरसाः देवीः=देव्यः दिव्यगुणसम्पन्नाः आपः प्राणा जलादयो वा भवन्ति ता भवन्तः स्वदन्तु सुष्ठु सेवन्ताम् ।
तदेतदनुष्ठाय यूयं सुखिनो भवत [यूयम्=एताः, भवत=नित्यं सम्पद्येरन्] ॥ ४ ॥ १२।।

[हे मनुष्या!.......अनागसः, ऋतावृधः, अयक्ष्मा,अनमीवा आपो भवन्ति ता भवन्तः स्वदन्तु]
Meaning of Essence
अनागसः=सुपरीक्षिताः, शोधिताः, संस्कृताः । ऋतावृधः=शरीरात्मबलवर्धकाः। अनमीवाः = रोगविच्छेदकाः ।।
Special
अंगिरसः।आपः=जलानि ॥ भुरिग् ब्राह्म्यनुष्टुप्। गान्धारः ।।