Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 11

37 Mantra
4/11
Devata- अग्निर्देवता Rishi- आङ्गिरस ऋषयः Chhand- स्वराट् ब्राह्मी अनुष्टुप्,आर्षी उष्णिक् Swara- गान्धारः, ऋषभः
Mantra with Swara
व्र॒तं कृ॑णुता॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञियः॑। दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसꣳ सुती॒र्था नो॑ऽअस॒द्वशे॑। ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतव॒स्ते नो॒ऽवन्तु॒ ते नः॑ पान्तु॒ तेभ्यः॒ स्वाहा॑॥११॥

व्रतम्। कृ॒णु॒त॒। अ॒ग्निः। ब्रह्म॑। अ॒ग्निः। य॒ज्ञः। वन॒स्पतिः॑। य॒ज्ञियः॑। दैवी॑म्। धिय॑म्। म॒ना॒म॒हे॒। सु॒मृ॒डी॒कामिति॑ सुऽमृडी॒काम्। अ॒भिष्ट॑ये। व॒र्चो॒धामिति॑ वर्चः॒ऽधाम्। य॒ज्ञवा॑हस॒मिति॑ य॒ज्ञऽवा॑हसम्। सु॒ती॒र्थेति॑ सु॒ऽती॒र्था। नः॒। अ॒स॒त्। वशे॑। ये। दे॒वाः। मनो॑जाता॒ इति॒ मनः॑ऽजाताः। म॒नो॒यु॒ज॒ इति॑ मनः॒ऽयुजः॑। दक्ष॑ऽक्रतव॒ इति॒ दक्ष॑ऽक्रतवः। ते। नः॒। अ॒व॒न्तु॒। ते। नः॒। पा॒न्तु॒। तेभ्यः॑। स्वाहा॑ ॥११॥

Mantra without Swara
व्रतङ्कृणुत व्रतङ्कृणुताग्निर्ब्रह्माग्निर्यज्ञो वनस्पतिर्यज्ञियः दैवीन्धियम्मनामहे सुमृडीकामभिष्टये वर्चाधाँ यज्ञवाहसँ सुतीर्था नो असद्वशे । ये देवा मनोजाता मनोयुजो दक्षक्रतवस्ते नो वन्तु ते नः पान्तु तेभः स्वाहा ॥

व्रतम्। कृणुत। अग्निः। ब्रह्म। अग्निः। यज्ञः। वनस्पतिः। यज्ञियः। दैवीम्। धियम्। मनामहे। सुमृडीकामिति सुऽमृडीकाम्। अभिष्टये। वर्चोधामिति वर्चःऽधाम्। यज्ञवाहसमिति यज्ञऽवाहसम्। सुतीर्थेति सुऽतीर्था। नः। असत्। वशे। ये। देवाः। मनोजाता इति मनःऽजाताः। मनोयुज इति मनःऽयुजः। दक्षऽक्रतव इति दक्षऽक्रतवः। ते। नः। अवन्तु। ते। नः। पान्तु। तेभ्यः। स्वाहा॥११॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(व्रतम्) नियमपूर्वकं धर्म्यानुचरणम् (कृणुत) स्वीकुरुत (अग्निः) वाचकः (ब्रह्म) सच्चिदानन्दलक्षणं चेतनं वाच्यम् (अग्निः) अभिधायकः (यज्ञः) अभिधेयः (वनस्पतिः) वनानां
पालयिताग्निसंज्ञक: (यज्ञियः) यो यज्ञमर्हति (दैवीम्) दिव्यगुणसंपन्नाम् (धियम्) प्रज्ञां, क्रियां वा (मनामहे) विजानीयाम। याचेमहि । मनामह इति याच्ञाकर्मसु पठितम् ॥ निघं० ३ ।१९।। (सुमृडीकाम् ) सुष्ठु मृडन्ति=सुखयन्ति यया ताम् । मृडः कीकच्कंकणौ ॥ उ०४ ।२४ ॥ अनेन मृडीकेति सिद्धम् (अभिष्टये) इष्टसिद्धये । अत्र एमन्नादिषु छन्दसि पररूपं वाच्यम् ॥ अ० ६ । १ । ९४ ।। अनेन वार्तिकेन पररूपादस्य सिद्धिः (वर्चोधाम्) या वर्चो विद्यां दीप्तिं दधाति ताम् (यज्ञवाहसम्) या यज्ञं=परमेश्वरोपासनं शिल्पविद्यासिद्धं वा वहति=प्रापयति ताम् (सुतीर्था) शोभनानि तीर्थानि=वेदाध्ययनधर्माचरणदीन्याचरितानि यया सा (नः) अस्मदर्थम् (असत्) भवेत्। लेट् प्रयोगोऽयम् (वशे) प्रकाशन्ते यस्मिंस्तस्मिन् । अत्र बाहुलकादौणादिकोऽन् प्रत्ययः (ये) वक्ष्यमाणाः (देवाः) विद्वांसः (मनोजाताः) ये मनसा विज्ञानेन जायन्ते ते (मनोयुजः) ये मनसा=सदसद्विज्ञानेन युञ्जन्ति योजयन्ति वा ते (दक्षक्रतवः) दक्षाः=शरीरात्मबलानि क्रतवः=प्रज्ञाः कर्माणि वा येषां ते। दक्ष इति बलनामसु पठितम्॥ निघं० २ ॥ ९॥ (ते) उक्ता: (नः) अस्मान् (अवन्तु) विद्यासत्क्रियासुशिक्षादिषु प्रवेशयन्तु (ते) आप्ता: (नः) अस्मान् (पान्तु) सततं रक्षन्तु (तेभ्य:) पूर्वोक्तेभ्यः (स्वाहा) येभ्यो विद्यावाक् प्राप्ता भवति ॥ अयं मंत्रः श० ३ ।२ ।२ ।७-१८ व्याख्यातः ॥ ११ ॥
Essence
मनुष्यैर्यस्याग्निसंज्ञा तद् ब्रह्म विज्ञायोपास्य सुप्रज्ञा प्राप्तव्याः ।

[ये देवा:=विद्वांसो वशे वर्तमानाः सन्ति, तेभ्यः स्वाहा प्राप्ता भवति]
विद्वांसः, तया शिल्पयज्ञान् संसाध्नुवन्ति । तेषां संगमेन विद्यां प्राप्य स्वतन्त्रे व्यवहारे सदा स्थातव्यम् ।

[ ते नः=अस्मान्सततं पान्तु]
न हि प्रज्ञया विना कश्चित् सुखमेधते, तस्मात् सर्वविद्वद्भिः सर्वेभ्यो मनुष्येभ्यो ब्रह्मविद्यां पदार्थविद्यां, बुद्धिं च दत्त्वैते सततं रक्ष्याः ।

[रक्षिताश्च वयं व्रतं कृणुत]
रक्षिताश्चैते परमेश्वरस्य धार्मिकाणां विदुषां च प्रियाणि कर्माणि नित्यमाचरेयुः ॥ ४ ॥ ११॥
Subject
अथानेकार्थमग्निं विज्ञाय किं किमुपकारो ग्राह्य इत्युपदिश्यते ।।
Meaning of Anvay
वयं यद् ब्रह्म सच्चिदानन्दलक्षणं चेतनं वाच्यम् अग्निनाम [अग्निः=वाचकः] असत् भवेत्, यो यज्ञःअभिधेय: अग्निसंज्ञः अभिधायकः असत् भवेत्, यो [यज्ञियः] यो यज्ञमर्हति, वनस्पतिः वनानां पालयिताग्निसंज्ञकः, यश्च यज्ञ: अभिधेयः अग्निनामकस्तमुपास्य, उपकृत्याभिष्टये इष्टसिद्धये, या सुतीर्था शोभनानि तीर्थानि=वेदाध्ययनधर्माचरणादीन्याचरितानि यया सा अस्ति, तां सुमृडीकां सुष्ठु मृडन्ति= सुखयन्ति यया तां वर्चोधां या वर्चः=विद्यादीप्तिं दधाति तां [यज्ञवाहसम्] या यज्ञम्=परमेश्वरोपासनं शिल्प- विद्यासिद्धं वा वहति=प्रापयति तां दैवीं दिव्यगुणसम्पन्नां धियं प्रज्ञां क्रियां वा मनामहे=विजानीयाम याचेमहि ।
ये वक्ष्यमाणाः दक्षक्रतवः दक्षाः=शरीरात्मबलानि क्रतवः=प्रज्ञाः कर्माणि वा येषां ते मनोजाताः ये मनसा=विज्ञानेन जायन्ते ते मनोयुजः ये मनसा=सदसद्विज्ञानेन युञ्जन्ति योजयन्ति वाते, देवा:=विद्वांसो वशे प्रकाशन्ते यस्मिंस्तस्मिन् वर्तमानाःसन्ति, तेभ्यः पूर्वोक्तेभ्यः स्वाहा येभ्यो विधावाक् (प्राप्ता भवति) प्राप्ता भवति ।
ये वक्ष्यमाणाः नः=अस्मदर्थं धियं प्रज्ञां क्रियां वा प्रकाशयन्ति तेभ्यः पूर्वोक्तेभ्यः पूर्वोक्तामेतां धियं प्रज्ञां क्रियां वा मनामहे=याचामहे विजानीयाम याचेमहि ते उक्ताः नः=अस्मान् अवन्तु विद्या- सत्क्रियासुशिक्षादिषु प्रवेशयन्तु ।
ते आप्ताः नः=अस्मान् सततं पान्तु सततं रक्षन्तु [रक्षिताश्च वयं] [व्रतं] नियमपूर्वकं धर्म्यानुचरणं [कृणुत] स्वीकुर्मः ॥ ४ । ११ ।।

[वयं यद्ब्रह्माग्निनामासद्........तमुपास्य=उपकृत्याभिष्टये धियं मनामहे=विजानीयाम]
Meaning of Essence
व्रतम्=परमेश्वरस्य धार्मिकाणां विदुषां च प्रियं कर्म ।
Special
अंगिरस:।अग्निः=ब्रह्माद्यभिधायकः। पूर्वस्य स्वराड् ब्राह्म्यनुष्टुप्। गान्धारः। ये देवा इत्युत्तरस्यार्ष्युष्णिक् ऋषभः।