Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 10

37 Mantra
4/10
Devata- यज्ञो देवता Rishi- आङ्गिरस ऋषयः Chhand- निचृत् आर्षी जगती,साम्नी त्रिष्टुप् Swara- निषादः
Mantra with Swara
ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ऽऊर्जं॒ मयि॑ धेहि। सोम॑स्य नी॒विर॑सि॒ विष्णोः॒ शर्मा॑सि॒ शर्म॑ यज॑मान॒स्येन्द्र॑स्य॒ योनि॑रसि सुऽस॒स्याः कृ॒षीस्कृ॑धि। उच्छ्र॑यस्व वनस्पतऽऊ॒र्ध्वो मा॑ पा॒ह्यꣳह॑स॒ऽआस्य य॒ज्ञस्यो॒दृचः॑॥१०॥

ऊर्क्। अ॒सि॒। आ॒ङ्गि॒र॒सि॒। ऊर्ण॑म्रदा॒ इत्यूर्ण॑ऽम्रदाः। ऊर्ज॑म्। मयि॑। धे॒हि॒। सोम॑स्य। नी॒विः। अ॒सि॒। विष्णोः॑। शर्म॑। अ॒सि॒। शर्म॑। यज॑मानस्य। इन्द्र॑स्य। योनिः॑। अ॒सि॒। सु॒स॒स्या इति॑ सुऽस॒स्याः। कृ॒षीः। कृ॒धि॒। उत्। श्र॒य॒स्व॒। व॒न॒स्प॒ते॒। ऊ॒र्ध्वः। मा॒। पा॒हि॒। अꣳह॑सः। आ। अ॒स्य। य॒ज्ञस्य॑। उ॒दृच॒ इत्यु॒त्ऽऋचः॒ ॥१०॥

Mantra without Swara
ऊर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मयि धेहि । सोमस्य नीविरसि विष्णोः शर्मासि शर्म यजमानस्येन्द्रस्य योनिरसि सुसस्याः कृषीस्कृधि । उच्छ्रयस्व वनस्पत ऊर्ध्वा मा पाह्यँहस आस्य यज्ञस्योदृचः ॥

ऊर्क्। असि। आङ्गिरसि। ऊर्णम्रदा इत्यूर्णऽम्रदाः। ऊर्जम्। मयि। धेहि। सोमस्य। नीविः। असि। विष्णोः। शर्म। असि। शर्म। यजमानस्य। इन्द्रस्य। योनिः। असि। सुसस्या इति सुऽसस्याः। कृषीः। कृधि। उत्। श्रयस्व। वनस्पते। ऊर्ध्वः। मा। पाहि। अꣳहसः। आ। अस्य। यज्ञस्य। उदृच इत्युत्ऽऋचः॥१०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
( ऊर्क्) पराक्रमान्नादिप्रदा शिल्पविद्या (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (आङ्गिरस) याङ्गिरीभिरग्न्यादिभिर्निर्वृत्ता=सिद्धा सा । ऊवटमहीधराभ्यामिदं निघातत्वात् संबोधनान्तं पदमबुद्ध्वा व्याख्यातमत एतयो: स्वरज्ञानमपि नास्त्यर्थज्ञानस्य तु का कथा? (ऊर्णम्रदाः) ऊर्णमाच्छादनं मृद्नन्ति मृदन्ति संत्वेषन्ति यया सा (ऊर्जम्) पराक्रममन्नादिकं वा (मयि) शिल्पिनि (धेहि) दधाति (सोमस्य) उत्पन्नस्य पदार्थ- समूहस्य (नीविः) या नितरां व्ययति=संवृणोति । नौ व्योर्यलोपः ॥ उ० ४ ।१४१ ॥ इत्यौणादिकसूत्रेण व्येञ्संवरण इत्यस्मादिण् प्रत्ययः । स च डित् । डित्वादाकारलोपः। यलोपस्तु सूत्रेणैव पूर्वपदस्य च दीर्घत्वम् (असि) अस्ति (विष्णोः) शिल्पविद्याव्यापकस्यविदुषः सकाशात् प्राप्यम् (शर्म) सुखम् (असि) अस्ति (शर्म) सुखम् (यजमानस्य) शिल्पक्रियाविदः (इन्द्रस्य) परमैश्वर्येण युक्तस्य योजकस्य वा (योनिः) निमित्तम् (असि) भवति (सुसस्याः) शोभनानि सस्यानि=धान्यादीनि यास्यास्ताः (कृषी:) कर्षन्ति=विलिखन्ति याभिः क्रियाभिस्ताः। अत्र कः करत् करति०॥ अ० ८।३।५० ॥ इति विसर्जनीयस्य सत्यम् (कृधि) कुरु, कारय वा (उत्) उत्कृष्टार्थे (श्रयस्व) सेवस्व, सेवते वा (वनस्पते) वनानां=विद्याप्रकाशकानां पतिः=पालयिता तत्संबुद्धौ वृक्षावयवो वा (ऊर्ध्वः) ऊर्ध्वं स्थित ऊर्ध्वं स्थापितो वा (मा) माम् (पाहि) रक्ष, रक्षति वा (अंहसः) पापात्तत्फलाद् दुःखाद्वा (आ) समन्तात् (अस्य) प्रत्यक्ष-मनुष्ठीयमानस्य (यज्ञस्य) शिल्पविद्यासाध्यस्य (उदृचः) उक्तार्थस्य ॥ अयं मंत्रः श० ३ । २ । १ । १४-३५ व्याख्यातः ।। १० ।।
Essence
मनुष्यैर्विद्वद्भ्यः शिल्पविद्यां साक्षात्कृत्यैतां प्रचार्य्यं सर्वे मनुष्याः समृद्धाः कार्याः।। ४ । १० ।।
Subject
स शिल्पविद्यो यज्ञः कीदृशोस्तीत्युपदिश्यते ॥
Meaning of Anvay
हे वनस्पते! वनानां=विद्याप्रकाशकानां पतिः=पालयिता तत्सबुद्धौ, विद्वंस्त्वं याऽऽङ्गिरसियाङ्गिरीभिरग्न्यादिभिर्निवृत्ता=सिद्धा सा, ऊर्णम्रदाः ऊर्णम्=आच्छादानं मृद्नन्ति=सन्त्वेषन्ति यया सा, ऊर्क्=शिल्पविद्या पराक्रमान्नादिप्रदा शिल्पविद्या [असि]=अस्ति या ऊर्जं पराक्रममन्नादिकं वा [मयि] शिल्पिनि [धेहि]=दधाति, या सोमस्य उत्पन्नस्य पदार्थसमूहस्य नीविः या नितरां व्ययति=संवृणोति[असि] =अस्ति ।
या विष्णो: शिल्पविद्याव्यापकस्य विदुषः सकाशात् प्राप्यंयजमानस्य शिल्पक्रियाविदः इन्द्रस्य परमैश्वर्येण युक्तस्य योजकस्य वा [शर्म] सुखं योनिः निमित्तं [असि]=अस्ति भवति ।
या अस्य प्रत्यक्षमनुष्ठीयमानस्य उदृचः उक्तार्थस्य [उत्कृष्टा अधीताः प्रत्यक्षीकृता ऋचो यस्मिंस्तस्य] विष्णो: शिल्पविद्याव्यापकस्य विदुषः सकाशात् प्राप्यं यज्ञस्य शिल्पविद्यासाध्यस्य शर्म=सुखकारिका (सुखम्)[असि]=अस्ति तामाधेहि समन्ताद् दधाति।
सुसस्याः शोभनानि सस्यानि=धान्यादीनि=याभ्यस्ताः, कृषीः कर्षन्ति=विलिखन्ति याभिः क्रियाभिस्ताः कृधि=कुरु कारय वा, [ऊर्ध्व:] ऊर्ध्वम् ऊर्ध्वं स्थित ऊर्ध्वं स्थापितो वा मामुच्छ्रयस्व उत्कृष्टं सेवस्व सेवते वा । सुसस्याः शोभनानि सस्यानि=धान्यादीनि याभ्यस्ताः कृषीः कर्षन्ति=विलिखन्ति याभिः क्रियाभिस्ताः च अंहसः पापात्तत्फलाद् दुःखाद्वा [भा] मां पाहि रक्ष रक्षतिवा। विमानादिषु यानेषु यो [वनस्पते] वनस्पतिः वृक्षावयवम् ऊर्ध्वं स्थाप्यते तमप्युच्छ्रयस्व सेवस्व सेवते वा ।। ४ । १० ।।

[हे वनस्पते विद्वांस्त्वं.........ऊर्क्=शिल्पविद्या [असि] अस्ति......तमाधेहि, सुसस्याः कृषी: कृधि=कुरु कारय वा]
Special
अंगिरस।यज्ञः=स्पष्टम् । कृधीत्यन्तस्य निचृदार्षी जगती । निषादः ।
उच्छ्रयस्वेत्यस्य साम्नी त्रिष्टुप्।धैवतः।।