Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 4 / Mantra 1

37 Mantra
4/1
Devata- अबोषध्यौ देवते Rishi- प्रजापतिर्ऋषिः Chhand- विराट् ब्राह्मी जगती, Swara- निषादः
Mantra with Swara
एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ऽअजु॑षन्त॒ विश्वे॑। ऋ॒क्सा॒माभ्या॑ स॒न्तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम। इ॒माऽआपः॒ शमु॑ मे सन्तु दे॒वीरोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ꣳहिꣳसीः॥१॥

आ। इ॒दम्। अ॒ग॒न्म॒। दे॒व॒यज॑न॒मिति॑ देव॒यज॑नम्। पृ॒थि॒व्याः। यत्र॑। दे॒वासः॑। अजु॑षन्त। विश्वे॑। ऋ॒क्सा॒माभ्या॒मित्यृ॑क्ऽसा॒माभ्या॑म्। स॒न्तर॑न्त॒ इति॑ स॒म्ऽतर॑न्तः। यजु॑र्भि॒रिति॒ यजुः॑ऽभिः। रा॒यः। पोषे॑ण। सम्। इ॒षा। म॒दे॒म॒। इ॒माः। आपः॑। शम्। ऊँ॒ऽइ॒त्यूँ॑। मे॒। स॒न्तु॒। दे॒वीः। ओष॑धे। त्राय॑स्व। स्वधि॑त॒ इति॒ स्वऽधि॑ते। मा। ए॒न॒म्। हि॒ꣳसीः॒ ॥१॥

Mantra without Swara
एदमगन्म देवयजनम्पृथिव्या यत्र देवासो अजुषन्त विश्वे । ऋक्सामाभ्याँ सन्तरन्तो यजुर्भी रायस्पोषेण समिषा मदेम । इमा आपः शमु मे सन्तु देवीरोषधे त्रायस्व । स्वधिते मैनँ हिँसीः ॥

आ। इदम्। अगन्म। देवयजनमिति देवयजनम्। पृथिव्याः। यत्र। देवासः। अजुषन्त। विश्वे। ऋक्सामाभ्यामित्यृक्ऽसामाभ्याम्। सन्तरन्त इति सम्ऽतरन्तः। यजुर्भिरिति यजुःऽभिः। रायः। पोषेण। सम्। इषा। मदेम। इमाः। आपः। शम्। ऊँऽइत्यूँ। मे। सन्तु। देवीः। ओषधे। त्रायस्व। स्वधित इति स्वऽधिते। मा। एनम्। हिꣳसीः॥१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) समन्तात् ( इदम् ) वक्ष्यमाणम् (अगन्म) प्राप्नुयाम । अत्र लिङर्थे लुङ् (देवयजनम्) देवानां=विदुषां यजनं=पूजनं तेभ्यो दानं च (पृथिव्याः) भूमेर्मध्ये (यत्र) देशे (देवासः) विद्वांसः (अजुषन्त) प्रीतवन्तः सेवितवन्तः (विश्वे) सर्वे (ऋक्सामाभ्याम् ) ऋचन्ति=स्तुवन्ति पदार्थान् येन स ऋग्वेदः। सामयन्ति=सान्त्वयन्ति कर्मान्तं फलं प्राप्नुवन्ति येन स सामवेदः । ऋक् च साम च ताभ्याम् । अत्र अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम० अ० ५ । ४ । ७७ ।। इति सूत्रेणायं समासान्ताऽच्प्रत्ययेन निपातितः (संतरन्तः) दुःखस्यान्तं प्राप्नुवन्तः (यजुर्भिः) यजुर्वेदस्थमन्त्रोक्तैः कर्मभिः (रायः) धनस्य (पोषेण) पुष्ट्या (सम्) सम्यगर्थे (इषा) इष्टविद्ययाऽन्नादिना वा (मदेम) सुखयेम । अत्र विकरणव्यत्ययः (इमाः) प्रत्यक्षाः (आपः) जलानि (शम्) सुखकारिका: (उ) वितर्के (मे) मम (सन्तु) भवन्तु (देवीः) शुद्धा=रोगनाशिकाः । अत्र वा च्छन्दसीति जसः पूर्वसवर्णत्वम् (ओषधे) सोमाद्योषधिगणः (त्रायस्व) त्रायताम् (स्वधिते) रोगनाशने स्वधितिर्वज्रवत्प्रवर्त्तमानः। स्वधितिरिति वज्रनामसु पठितम् ॥ निघं० २ । २० ।। (मा) निषेधार्थे (एनम्) यजमानं प्राणिसमूहं वा (हिंसीः) हिंस्यात् । अत्र लिङर्थे लुङ् ॥ अयं मन्त्रः शत० ३।१ । १ । ११–१२ ।। ३ । १ । २ । १-१० व्याख्यातः ॥ १ ॥
Essence
अत्र लुप्तोपमालङ्कारः ॥ यथा मनुष्याः साङ्गान् सरहस्याँश्चतुरो वेदानधीत्यान्यानध्याप्य विद्यां प्रदीप्य विद्वांसो भूत्वा सुकर्मानुष्ठानेन सर्वान् प्राणिनः सुखयेयुः,

[यथौषधे=सोमलताद्योषधिगणो रोगेभ्यस्त्रायते तथा त्वं नस्त्रायस्व]
तथैवैतान् सत्कृत्यैतेभ्यो वैदिकविद्यां प्राप्य श्रेष्ठाचारौषधिसेवनाभ्यां दुःखान्तर्गत्वा शरीरात्मपुष्ट्या धनं समुपचित्य सर्वैर्मनुष्यैरानन्दितव्यम् ॥ ४।१ ॥
Subject
अथ जलगुणस्वभावकृत्यमुपदिश्यते ॥
Meaning of Anvay
हे विद्वन् यथा पृथिव्या मध्ये भूमेर्मध्ये [इदम्] वक्ष्यमाणं मनुष्यजन्म, देवयजनं देवानां=विदुषां यजनं=पूजनं तेभ्यो दानं च प्राप्य, यत्र देशे ऋक्सामाभ्याम् ऋचन्ति=स्तुवन्ति पदार्थान् येन स ऋग्वेदः, सामयन्ति=सान्त्वयन्ति कर्मान्तं फलं प्राप्नुवन्ति येन स सामवेदः, ऋक् च साम च ताभ्यां, यजुर्भिः यजुर्वेस्थमन्त्रोक्तैः कर्मभिः रायः धनस्य पोषेण पुष्ट्या दुःखानि सन्तरन्तः दुःखस्यान्तं प्राप्नुवन्तः विश्वे सर्वे देवासः विद्वांसः वयम् [इषा] इष्टविद्ययाऽन्नादिना वा सुखानि आ-अगन्म समन्तात् प्राप्नुयाम, अजुषन्त=प्रीतवन्तः सेवितवन्तः [सम्] मदेम सुखयेम (सम्यक् सुखयेम)।

उ=इति वितर्के मे=मम विद्या सुशिक्षाभ्यां सेविता इमाः प्रत्यक्षाः [देवी:] देव्यः, शुद्धा:=रोगनाशिका: आपः जलानि सुखकारिकाः सन्ति, तथैव तत्र त्वं तानि जुषस्व, [मदेम] मदेमस्तवैताः शं सन्तु=सुखकारिका भवन्तु ।
यथौषधे=सोमलताद्योषधिगण:सोमाद्योषधिगणः रोगेभ्यस्त्रायते तथा त्वंनस्त्रायस्व (त्रायताम्) ।
[स्वधिते] स्वधितिः=वज्रः रोगनाशने स्वधितिर्वज्रवत् प्रवर्तमानः त्वमेनं=जीवं यजमानं प्राणिसमूहं वा मा हिंसीः=हननं मा कुर्य्याः (न हिंस्यात्) ४ । १ ।।

[हे विद्वन्! यथा.........ऋक्सामाभ्यां यजुर्भी रायस्पोषेण दुःखानि सन्तरन्तो विश्वे देवासो वयं......... सुखान्यागन्म......तथैव.......त्वं तानि जुषस्व]
Special
प्रजापतिः । अबोषध्यौ=जलम्, ओषधियश्च ॥ विराड् ब्राह्मीजगती । निषादः ॥