Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 9

63 Mantra
3/9
Devata- अग्निसूर्यो देवते Rishi- प्रजापतिर्ऋषिः Chhand- पङ्क्ति,याजुषी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑। अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॒ सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑। ज्योतिः॒ सूर्यः॒ सूर्यो॒ ज्योतिः॒ स्वाहा॑॥९॥

अ॒ग्निः। ज्योतिः॑। ज्योतिः॑। अ॒ग्निः। स्वाहा॑। सूर्य्यः॑। ज्योतिः॑। ज्योतिः॑। सूर्य्यः॑। स्वाहा॑। अ॒ग्निः। वर्च्चः॑। ज्योतिः॑। वर्च्चः॑। स्वाहा॑। सूर्य्यः॑। वर्च्चः॑। ज्योतिः॑। वर्च्चः॑। स्वाहा॑। ज्योतिः॑। सूर्य्यः॑। सूर्य्यः॑। ज्योतिः॑। स्वाहा॑ ॥९॥

Mantra without Swara
अग्निर्ज्यातिर्ज्यातिरग्निः स्वाहा सूर्यो ज्योतिर्ज्यातिः सूर्यः स्वाहा अग्निर्वर्चा ज्योतिर्वर्चः स्वाहा सूर्यो वर्चा ज्योतिर्वर्चः स्वाहा ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥

अग्निः। ज्योतिः। ज्योतिः। अग्निः। स्वाहा। सूर्य्यः। ज्योतिः। ज्योतिः। सूर्य्यः। स्वाहा। अग्निः। वर्च्चः। ज्योतिः। वर्च्चः। स्वाहा। सूर्य्यः। वर्च्चः। ज्योतिः। वर्च्चः। स्वाहा। ज्योतिः। सूर्य्यः। सूर्य्यः। ज्योतिः। स्वाहा॥९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
पदार्थ:-- (अग्निः) परमेश्वरः (ज्योतिः) सर्वप्रकाशकः (ज्योतिः) प्रकाशमयः, शिल्पविद्यासाधनप्रकाशक: (अग्निः) भौतिकः । अग्निरिति पदनामसु पठितम् ॥ निघं॰ ५ ॥ ४ ॥अनेनाग्नेर्गत्यर्थत्वेन ज्ञानस्वरूपत्वादीश्वरः प्राप्तिहेतुत्वाद्भौतिकोर्थो वा गृह्यते (स्वाहा) सुष्ठु सत्यमाह यस्यां वाचि सा। स्वाहेति वाङ्नामसु पठितम् ॥ निघं० १ । ११ ॥ (सूर्य:) चराचरात्मा । यः सरति=जानाति चराचरं जगत्स जगदीश्वरः । सूर्य आत्माजगतस्तस्थुषश्च ॥ यजु० ७ ।४२ ॥ अनेन सर्वस्यांतर्यामी परमेश्वरोर्थो गृह्यते (ज्योतिः) सर्वात्मप्रकाशको=वेदद्वारा सकलविद्योपदेशक: (ज्योतिः) पृथिव्यादिमूर्तद्रव्यप्रकाशक: (सूर्यः) यः सुवति=स्वप्रकाशेन प्रेरणाहेतुर्भवति स सूर्यलोकः । सूर्य इति पदनामसु पठितम् ॥ निघं० ५। ६ ॥अनेन ज्ञापकेनेश्वरो, व्यवहारसिद्धः प्राप्तिहेतुत्वात्सूर्यलोको वा गृह्यते (स्वाहा) स्वा स्वकीया हृदयस्था वाग् यदाह तदेव सत्यं वाच्यं नानृतमित्यस्मिन्नर्थे (अग्निः) सर्वविद्योपदेष्टा (वर्च्चः) वर्चन्ते=दीप्यतेऽनेन तत् वर्च्चो विद्याप्रापणम् (ज्योतिः) सकलपदार्थप्रकाशनम् (वर्च:) विद्याव्यवहारप्रापकम् (स्वाहा) मनुष्यैः स्वकीयान्पदार्थान्प्रति ममेति वाच्यं नान्यपदार्थान्प्रतीत्यस्मिन्नर्थे (सूर्यः) सकलविद्यादिव्यवहारप्रापकत्वेन वर्तमानः प्राणादिसमूहो वायुगुणः (वर्च्च:) प्रकाशकं विद्युत्सूर्यप्रसिद्धाग्न्याख्यं तेजः (ज्योतिः) सर्वव्यवहारप्रकाशकम् (ज्योतिः) सत्यप्रकाशक: (सूर्यः) सर्वव्यापक ईश्वर: (स्वाहा) वेदवाणी यज्ञक्रियामाहेत्यस्मिन्नर्थे । स्वाहाशब्दार्थं निरुक्तकार एवं समाचष्टे । स्वाहा कृतयः स्वाहेत्येतत्सु आहेति स्वा वागाहेति वा स्वं आहेति वा स्वाहुतं हविर्जुहोतीति वा ॥ निरु० ८।२० ॥ अयं मंत्रः शत० २ ।२ ।३ ।१ – ३६ व्याख्यातः ।। ९।।
Essence
भावार्थः—स्वाहाशब्दार्थो निरुक्तकाररीत्याऽत्र गृहीतः ।

[अग्निः=जगदीश्वरः  स्वाहा ज्योतिः सर्वस्मै ददाति, एवं [अग्नि:] भौतिकोऽग्निः [ज्योतिः] सर्वप्रकाश ज्योतिर्ददाति ]

ईश्वरेणाऽग्निना कारणेनाग्न्यादिकं जगत् प्रकाश्यते, तत्राग्निः स्वप्रकाशेन स्वं, स्वतरं विश्वं च प्रकाशयति ।

[ [अग्निः] सर्वविद्याप्रकाशकोऽग्नि-जगदीश्वरो मनुष्यार्थं सर्वविद्याधिकरणं वर्चः=वेदचतुष्टयं प्रादुर्भावयति]


  परमेश्वरो वेदद्वारा सर्वाविद्याः प्रकाशयत्येवमग्निसूर्यावपि शिल्पविद्याः प्रकाशयत इति ।। ३ । ९ ।।
Subject
अथाग्निसूर्यौ कीदृशावित्युपदिश्यते ॥
Meaning of Anvay
अग्निः=जगदीश्वरः, परमेश्वरः, स्वाहा=सुष्ठु सत्यमाह यस्यां वाचि सा, ज्योतिः=सर्वप्रकाशकः सर्वस्मै ददाति। एवं [अग्निः]=भौतिकोऽग्निः [ज्योतिः] सर्वप्रकाशकं ज्योतिर्ददाति।

सूर्यः=चराचरात्मा, यः सरति=जानाति चराचरं जगत्स जगदीश्वरः स्वाहा स्वा=स्वकीया हृदयस्था वाग् यदाह तदेव सत्यं वाच्यं नानृतम् ज्योतिः सर्वात्मप्रकाशको=वेदद्वारा सकलविद्योपदेशकः सर्वात्मसु ज्ञानं ददाति ।

  [सूर्यः] अयं सूर्यलोकः यः सुवति=स्वप्रकाशेन प्रेरणाहेतुर्भवति स सूर्यलोक: [ज्योतिः] (पृथि- व्यादिमूर्तद्रव्यप्रकाशकः) ज्योतिर्दानं मूर्त्तद्रव्यप्रकाशनं च करोति ।

 [अग्निः]=सर्वविद्याप्रकाशकोऽग्निर्जगदीश्वरः सर्वविद्योपदेष्टा मनुष्यार्थं सर्वविद्याधिकरणं वर्च्चः= वेदचतुष्टयं वर्चन्ते=दीप्यन्तेऽनेन दद्वर्च्चो=विद्याप्रापणं प्रादुर्भावयति । एवं ज्योतिः=विद्युदाख्योऽयमग्निः शरीरब्रह्माण्डस्थः, सकलपदार्थप्रकाशनं, वर्च्चः=विद्यावृष्टिहेतुः, विद्याव्यवहारप्रापकं, भवति ।

सूर्यः=सकलविद्याप्रकाशको जगदीश्वरः, सर्वव्यापक ईश्वरः,सर्वमनुष्यार्थं स्वाहा मनुष्यैः स्वकीयान् पदार्थान् प्रति ममेति वाच्यं नान्ययं-पदार्थान् प्रति ज्योतिः सत्यप्रकाशक: वर्च्च:=प्रकाशकं विद्युत् सूर्यप्रसिद्धाग्न्याख्यं तेजः करोति, एवंज्योतिः सर्वव्यवहारप्रकाशक: सूर्यलोकोपि वर्च्चः=शरीरात्मबलं प्रकाशयति ।

सूर्य:=प्राणः सकलविद्यादिव्यवहारप्रापकत्वेन वर्तमानः प्राणादिसमूहो वायुगुणः ज्योतिः=सकलविद्याप्रकाशकं ज्ञानं कारयति ।

तथाऽयं ज्योतिर्मयः सूर्यः=जगदीश्वरः स्वाहा वेदवाणी यज्ञक्रियामाह  ज्योतिः=स्वाहुतं हविः स्वसृष्टपदार्थेषु स्वशक्त्या सर्वत्र प्रसारयति ॥३॥९॥

[स्वाहा शब्दार्थे प्रमाणमाह --]
Special
प्रजापतिः । अग्निसूर्यौ=भौतिकोऽग्निः सूर्यस्तथेश्वरः ॥ पंक्तिः । पंचमः ॥ ज्योतिरित्यस्य याजुषी बृहती छन्दः । मध्यमः स्वरः ॥