Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 8

63 Mantra
3/8
Devata- अग्निर्देवता Rishi- सर्पराज्ञी कद्रूर्ऋषिः Chhand- गायत्री, Swara- षड्जः
Mantra with Swara
त्रि॒ꣳश॒द्धाम॒ विरा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते। प्रति॒ वस्तो॒रह॒ द्युभिः॑॥८॥

त्रि॒ꣳशत्। धाम॑। वि। रा॒ज॒ति॒। वाक्। प॒त॒ङ्गाय॑। धी॒य॒ते॒। प्रति॑। वस्तोः॑। अह॑। द्युभि॒रिति॒ द्युऽभिः॑ ॥८॥

Mantra without Swara
त्रिँशद्धाम विराजति वाक्पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥

त्रिꣳशत्। धाम। वि। राजति। वाक्। पतङ्गाय। धीयते। प्रति। वस्तोः। अह। द्युभिरिति द्युऽभिः॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
पदार्थ:-- (त्रिंशत्) पृथिव्यादीनि, त्रयस्त्रिंशतो वस्वादीनां देवानां मध्ये पठितानि । अन्तरिक्षमादित्यमग्निं च विहाय त्रिंशत्संख्याकानि (धाम) दधति येषु तानि धामानि । अत्र सुपां सुलुगिति शसो लुक् (वि) विशेषार्थे (राजति) प्रकाशयति । अत्रांतर्गतो ण्यर्थः (वाक्) उच्यते यया सा । वागिति वाङ्नामसु पठितम् । निघं० । १ । ११ ।। (पतङ्गाय) पतति=गच्छतीति पतङ्गस्तस्मा अग्नये (धीयते) धार्यताम् (प्रति) वीप्सायाम् (वस्ताः) दिनं दिनम् । वस्तोरित्यहर्नामसु पठितम् ॥ निघं० १ ६ ॥ (अह) विनिग्रहार्थे । अह इति विनिग्रहार्थीयः ॥ निरु० १ ॥ ५ ॥ (द्युभिः) प्रकाशादिगुणविशेषैः । दिवो द्योतनकर्मणामादित्यरश्मीनाम् ॥ निरु० १३ ।२५ ॥ ८॥
Essence
 या वाणी प्राणयुक्तेन शरीरस्थेन विद्युदाख्येनाग्निना नित्यं प्रकाश्यते,

[तस्मै पतङ्गाय=पतनपातनादिगुणप्रकाशिताय  प्रतिवस्तोः=प्रतिदिनं विद्वद्भिरह वाक् [धीयते]= धीयताम्]

   सा तद्गुणप्रकाशाय विद्वद्भिर्नित्यमुपदेष्टव्या श्रोतव्या चेति ॥ ३।८॥
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
 मनुष्यैर्योऽग्निर्द्युभिः प्रकाशादिगुणविशेषैः प्रतिवस्तोः दिनं दिनं त्रिंशत् पृथिव्यादीनि, त्रयस्त्रिंशतो वस्वादीनां देवानां मध्ये पठितानि, अन्तरिक्षमादित्यमग्निं च विहाय त्रिंशत्संख्याकानि, धाम=धामानि दधति येषु तानि धामानि विराजति=प्रकाशयति विशेषेण प्रकाशयति ।

तस्मै पतङ्गाय=पतनपातनादिगुणप्रकाशिताय, पतति=गच्छतीति पतङ्गस्तस्मा अग्नये प्रतिवस्तोः=प्रतिदिनं विद्वद्भिरह सविनिग्रहं वाक् उच्यते यया सा [धीयते]=धीयताम् धार्यताम् ॥ ३।८॥

[मनुष्यैर्योऽग्निर्द्युभिः प्रतिवस्तो:...... त्रिंशद्धाम=धामानि विराजति=प्रकाशयति]
Meaning of Essence
अग्निः=विद्युदाढ्यः । पतङ्गाय=तद्गुणप्रकाशाय । प्रतिवस्तोः=नित्यम् । धीयते=उपदिश्यते श्रूयते च ।।
Special
सर्पराज्ञी कद्रूः । अग्निः=विद्युत्। गायत्री। षड्जः ॥