Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 7

63 Mantra
3/7
Devata- अग्निर्देवता Rishi- सर्पराज्ञी कद्रूर्ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म्॥७॥

अ॒न्तरित्य॒न्तः। च॒र॒ति॒। रो॒च॒ना। अ॒स्य॒। प्रा॒णात्। अ॒पा॒न॒तीत्य॑पऽअ॒न॒ती। वि। अ॒ख्य॒न्। म॒हि॒षः। दिव॑म् ॥७॥

Mantra without Swara
अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम् ॥

अन्तरित्यन्तः। चरति। रोचना। अस्य। प्राणात्। अपानतीत्यपऽअनती। वि। अख्यन्। महिषः। दिवम्॥७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अन्तः) ब्रह्माण्डशरीरयोर्मध्ये (चरति) गच्छति (रोचना) दीप्ति: (अस्य ) अग्नेः (प्राणात्) ब्रह्माण्डशरीरयोर्मध्य ऊर्ध्वगममनशीलात् (अपानती) अपानमधोगमनशीलं वायुं निष्पादयन्ती विद्युत् (वि) विविधार्थे (अख्यत्) ख्यापयति । अत्र लडर्थे लुङन्तर्गतो ण्यर्थश्च (महिषः) स्वगुणैर्महान् (दिवम्) सूर्यलोकम् ।। ७ ।।
Essence
मानवैर्योऽग्निर्विद्युदाख्या सर्वान्तःस्था कान्तिर्वर्तते सा प्राणापानाभ्यां सह संयुज्य सर्वान् प्राणापानाग्निप्रकाशगत्यादीन् चेष्टाव्यवहारान् प्रसिद्धीकरोतीति बोध्यम् ॥ ३ । ७ ।।
Subject
सोग्निः कथंभूत इत्युपदिश्यते ।।
Meaning of Anvay
याऽस्य=अग्नेः प्राणात् ब्रह्माण्डशरीरयोर्मध्य ऊर्ध्वगमनशीलाद् अपानती अपानमधोगमनशीलं वायुं निष्पादयन्ती विद्युत् सतीरोचना=दीप्तिर्विद्युच्छरीरब्रह्माण्डयोरन्तः ब्रह्माण्डशरीरयोर्मध्ये चरति गच्छति।

 

स महिष: स्वगुणैर्महान् अग्निः दिवं सूर्यलोकं व्यख्यत्=विख्यापयति विविधं ख्यापयति ॥

[अस्य=अग्ने: प्राणादपानती सती रोचना दीप्तिर्विद्युच्छरीरब्रह्माण्डयोरन्तश्चरति ]
Meaning of Essence
रोचना=कान्तिः । व्यख्यत्=चेष्टाव्यवहारन् प्रसिद्धीकरोति॥
Special
सर्पराज्ञी कद्रूः । अग्निः=[विद्युत्] । गायत्री । षड्जः ।