Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 63

63 Mantra
3/63
Devata- रुद्रो देवता Rishi- नारायण ऋषिः Chhand- भूरिक् जगती, Swara- निषादः
Mantra with Swara
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्तेऽअस्तु॒ मा मा॑ हिꣳसीः। निव॑र्त्तया॒म्यायु॑षे॒ऽन्नाद्या॑य प्र॒जन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॥६३॥

शि॒वः। नाम॑। अ॒सि॒। स्वधि॑ति॒रिति॒ स्वऽधि॑तिः। ते॒। पि॒ता। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हि॒ꣳसीः॒। नि। व॒र्त्त॒या॒मि॒। आ॑युषे। अ॒न्नाद्या॒येत्य॑न्न॒ऽअ॒द्याय॑। प्र॒जन॑ना॒येति प्र॒ऽजन॑नाय। रा॒यः। पोषा॑य। सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः॒ऽत्वाय॑। सु॒वीर्य्या॒येति॑ सु॒ऽवीर्य्या॑य ॥६३॥

Mantra without Swara
शिवो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिँसीः । निवर्त्तयाम्युषे न्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥

शिवः। नाम। असि। स्वधितिरिति स्वऽधितिः। ते। पिता। नमः। ते। अस्तु। मा। मा। हिꣳसीः। नि। वर्त्तयामि। आयुषे। अन्नाद्यायेत्यन्नऽअद्याय। प्रजननायेति प्रऽजननाय। रायः। पोषाय। सुप्रजास्त्वायेति सुप्रजाःऽत्वाय। सुवीर्य्यायेति सुऽवीर्य्याय॥६३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
 (शिवः) मङ्गलस्वरूपो ज्ञानमयो विज्ञानप्रदः (नाम) आख्या (असि) भवसि (स्वधितिः) अविनाशित्वाद् वज्रमयः । स्वधितिरिति वज्रनामसु पठितम् ॥ निघं० २ ।२० ॥ (ते) तव (पिता) पालकः (नमः) सत्कारार्थे (ते) तुभ्यम् (अस्तु) भवतु (मा) निषेधार्थे (मा) माम् (हिंसीः) हिन्धि । अत्र लोडर्थे लुङ् (नि) निश्चयार्थे निवारणार्थे वा (वर्त्तयामि) (आयुषे) आयुर्भोगाय (अन्नाद्याय) अत्तुं योग्यमाद्यमन्नं च तस्मै । यद्वाऽन्नमोदनादिकं भोज्यं यस्मिंस्तस्मै (प्रजननाय) सन्तानोत्पादनाय (रायस्पोषाय) रायो विद्यासुवर्णादिधनस्य पोषाय । पुष्यन्ति यस्मिँस्तस्मै (सुप्रजास्त्वाय) शोभना: सन्तानादयश्चक्रवर्त्तिराज्यं च प्रजा यस्मात्तस्य भावस्तस्मै (सुवीर्य्याय) शोभनं वीर्यं=शरीरात्मनो बलं पराक्रमो यस्मात्तस्मै ॥ अयं मंत्रः शत० २ । ५।४ । ८-११ व्याख्यातः ६३ ।।
Essence
नहि कश्चिन्मनुष्यो मङ्गलमयस्य सर्वपितुः परमेश्वरस्याज्ञापालनेनोपदेशकसङ्गेन विनैहिकपारमार्थिकसुखे प्राप्तुं शक्नोति ।

[तात्पर्यमाह--]

नैव केनापि नास्तिकत्वेन खल्वीश्वरस्य विदुषां चानादरः कर्त्तव्यः ।

यो नास्तिको भूत्वैतस्यैतेषां चानादरं करोति, तस्य सर्वत्रानादरो जायते । तस्मान्मनुष्यैरास्तिकैः सदा भवितव्यमिति ।। ३ । ६३ ।।
Subject
अथ रुद्रशब्देनोपदेशकगुणा उपदिश्यन्ते॥
Meaning of Anvay
हे रुद्र ! यस्त्वं स्वधितिः अविनाशित्वाद्वज्रमयः असि भवसि यस्य ते=तव शिवः मंगलस्वरूपो ज्ञानमयो विज्ञानप्रदः, नाम आख्या अस्ति ।

स त्वं मम पिता पालकः असि ते=तुभ्यं नमः सत्कारः अस्तु भवतु ।

त्वं मा=मां मा हिंसीः=माहिन्ध्यहं त्वामायुषे आयुर्भोगाय अन्नाद्याय अत्तुं योग्यमाद्यमन्नं च तस्मै यद्वाऽन्नमोदनादिकं भोज्यं यस्मिँस्तस्मै [प्रजननाय] सन्तानोत्पादनाय सुप्रजास्त्वाय शोभनाः सन्तानादयश्चक्रवर्तिराज्यं च प्रजा यस्मात्तस्य भावस्तस्मै सुवीर्य्याय शोभनं वीर्य्यं=शरीरात्मनो बलं पराक्रमो यस्मात्तस्मै रायस्पोषाय रायो विद्यासुवर्णादिधनस्य पोषाय पुष्यन्ति यस्मिँस्तस्मै [नि] वर्त्तयामि=त्वदाश्रयेण सर्वाणि दुःखानि निवर्त्तयामि ।। ३ । ६३ ।।

[हे रुद्र ! .....ते....... तव शिवो नमास्ति, स त्वं मम पिताऽसि ते=तुभ्यं नमोऽस्तु ]
Meaning of Essence
भा० पदार्थ:-- शिवः=मङ्गलमयः । पिता=सर्वपिता (परमेश्वरः) ।
Special
नारायणः । रुद्रः=उपदेशकः / ईश्वरः ॥ भुरिग्जगती । निषादः ॥