Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 62

63 Mantra
3/62
Devata- रुद्रो देवता Rishi- नारायण ऋषिः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त्र्या॒यु॒षं ज॒म॑दग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ऽअस्तु त्र्यायु॒षम्॥६२॥

त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। ज॒मद॑ग्नेरिति॑ ज॒मत्ऽअ॑ग्नेः। क॒श्यप॑स्य। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। यत्। दे॒वेषु॑। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। तत्। नः॒। अ॒स्तु॒। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम् ॥६२॥

Mantra without Swara
त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषन्तन्नो अस्तु त्र्यायुषम् ॥

त्र्यायुषमिति त्रिऽआयुषम्। जमदग्नेरिति जमत्ऽअग्नेः। कश्यपस्य। त्र्यायुषमिति त्रिऽआयुषम्। यत्। देवेषु। त्र्यायुषमिति त्रिऽआयुषम्। तत्। नः। अस्तु। त्र्यायुषमिति त्रिऽआयुषम्॥६२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
 (त्र्यायुषम्) त्रीणि च तान्यायूंषि च त्र्यायुषम् । बाल्ययौवनवृद्धावस्थासुखकरम् । इदं पदं । अचतुरविचतुर० ॥ अ० ५ । ४ । ७७ ॥ इति सूत्रे समासान्तत्वेन निपातितम् (जमदग्ने:) चक्षुषः । जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा तैरभिहुतो भवति ।।निरु० ७ । २४ ॥ चक्षुर्वै जमदग्निर्ॠषिर्यदनेन जगत्पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः ॥ शत० ८ ।१ ।२ ।३ ।।अनेनापि प्रमाणेन रूपगुणग्राहकं चक्षुर्गृह्यते (कश्यपस्य) आदित्यस्येश्वरस्य । प्रजापतिः प्रजा असृजत यदसृजताकरोत्तद्यदकरोत् तस्मात् कूर्मः । कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति ॥ श० ७ । ४ । १ । ५ ॥ अनेन प्रमाणेनेश्वरस्य कश्यपसंज्ञा । एतन्निर्मितं त्रिगुणमायुर्लभेमहीत्यभिप्रायः (त्र्यायुषम्) ब्रह्मचर्य्यगृहस्थवानप्रस्थाश्रमसुखसंपादकं त्रिगुणमायुः (यत्) यादृशम् यावत् (देवेषु) विद्वत्सु । विद्वाँसो हि देवाः ।।श० ३ ।७ ।३ ।१० ॥ (त्र्यायुषम् ) विद्याशिक्षापरोपकारसहितं त्रिगुणमायुः (तत्) तादृशं तावत् (नः) अस्माकम् । (अस्तु) भवतु (त्र्यायुषम्) त्रिगुणमायुः । अत्र एतेर्णिच्च ॥ उ० २ ।११८॥ अनेनेण धातोरुसिः प्रत्ययो णिद्वत्वाद्वृद्धिः । ईयते=यत्तदायुः ॥ अयं मंत्रः शत० २ । ५ । ४ । १--७ व्याख्यातः ॥ ६२॥
Essence
अत्र चक्षुरिन्द्रियाणां कश्यप=ईश्वरः सष्टृणामुत्तमोऽस्तीति विज्ञेयम् ।

[त्र्यायुषमित्यस्य चतुरावृत्त्याभिप्रायमाह--]

त्र्यायुषमित्यस्य चतुरावृत्त्या  त्रिगुणादधिकं चतुर्गुणमप्यायुः संगृह्यैतत्प्राप्त्यर्थं जगदीश्वरं प्रार्थ्यं स्वेन पुरुषार्थश्च कर्त्तव्यः । तद्यथा—

[हे रुद्र=जगदीश्वर ! तव कृपया यद् देवेषु त्र्यायुषम्]

हे जगदीश्वर ! भवत्कृपया यथा विद्वांसो विद्यापरोपकारधर्मानुष्ठानेनानन्दतया त्रीणि शतानि वर्षाणि यावत् तावदायुर्भुञ्जते,

[यज्जमदग्नेस्त्र्यायुषं कश्यपस्य तत्र व्यवस्थासिद्धं त्र्यायुषमस्ति, तत् त्र्यायुषं नः=अस्माकमस्तु]


तथैव--यत्त्रिविधतापव्यतिरिक्तं शरीरेन्द्रियान्तःकरणप्राणसुखाढ्यं विद्याविज्ञानसहितमायुरस्ति, तद् वयं प्राप्य त्रिंशतवर्षं चतुःशतवर्षं वाऽऽयुः सुखेन भुञ्जीमहीति ॥ ३ । ६२ ।।
Subject
मनुष्येण कीदृशमायुर्भोक्तुमीश्वरः प्रार्थनीय इत्युपदिश्यते ॥
Meaning of Anvay
हे रुद्र=जगदीश्वर ! तव कृपया यत् यादृशं यावत् देवेषु विद्वत्सु  त्र्यायुषं त्रीणि च तान्यायूंषि च त्र्यायुषं बाल्ययौवनवृद्धावस्थासुखकरं यज्जमदग्नेः चक्षुषः त्र्यायुषंब्रह्मचर्यगृहस्थवानप्रस्थाश्रमसुखसम्पादकं त्रिगुणमायुः कश्यपस्य आदित्यस्येश्वरस्य तव व्यवस्थासिद्धं त्र्यायुषं विद्याशिक्षापरोपकारसहितं त्रिगुणमायुः अस्ति तत् तादृशं तावत् त्र्यायुषं पूर्वोक्तं त्रिगुणमायुः नः=अस्माकमस्तु भवतु ।। ३ । ६२ ।।

[सष्टृणामुत्तममाह--]
Special
नारायणः । रुद्रः=ईश्वरः । उष्णिक् । ऋषभः ।।