Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 61

63 Mantra
3/61
Devata- रुद्रो देवता Rishi- वसिष्ठ ऋषिः Chhand- पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि। अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ऽअहि॑ꣳसन्नः शि॒वोऽती॑हि॥६१॥

ए॒तत्। ते॒। रु॒द्र॒। अ॒व॒सम्। तेन॑। प॒रः। मूज॑वत॒ इति॒ मूज॑ऽवतः। अति॑। इ॒हि॒। अव॑ततध॒न्वेत्यव॑ततऽधन्वा। पिना॑कावस॒ इति॒ पिना॑कऽअवसः। कृत्ति॑वासा॒ इति॒ कृत्ति॑ऽवासाः। अहि॑ꣳसन्। नः॒। शि॒वः। अति॑। इ॒हि॒ ॥६१॥

Mantra without Swara
एतत्ते रुद्रावसन्तेन परो मूजवतो तीहि । अवततधन्वा पिनाकावसः कत्तिवासा अहिँसन्नः शिवो तीहि ॥

एतत्। ते। रुद्र। अवसम्। तेन। परः। मूजवत इति मूजऽवतः। अति। इहि। अवततधन्वेत्यवततऽधन्वा। पिनाकावस इति पिनाकऽअवसः। कृत्तिवासा इति कृत्तिऽवासाः। अहिꣳसन्। नः। शिवः। अति। इहि॥६१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एतत्) उक्तं वक्ष्यमाणं च (ते) तव (रुद्र ) यो रोदयति शत्रूँस्तत्सम्बुद्धौ शूरवीर ! (अवसम्) रक्षणं स्वाम्यर्थं वा (तेन) रक्षणादिना (परः) प्रकृष्टः समर्थ: (मूजवतः) बहवो मूजा=घासादयो विद्यन्ते यस्मिन् तस्मात् पर्वतात् । मूजवान् पर्वतः ॥ निरु० ९ ।८ ॥ (अति) अतिक्रमणे (इहि) उल्लङ्घय । अत्रान्तर्गतो ण्यर्थः (अवततधन्वा ) अवेति=निगृहीतं  ततं=विस्तृतं धनुर्येन सः (पिनाकावसः) पिनष्टि शत्रून् येन तत् पिनाकम् । तेनावसो पिनाकस्यावसो रक्षणं वा यस्मात्सः । पिनाकं प्रतिपिनष्ट्यनेन । निरु० ॥ ३ ।२१ ॥ (कृत्तिवासाः) कृत्तिश्चर्म तद्वद् दृढानि वासांसि धृतानि येन सः (अहिंसन्) अनाशयन् रक्षन् सन् (नः) अस्मान् (शिवः) सुखप्रदः (अति) अभिपूजितार्थे।निरु० १ ।३ ॥ (इहि ) प्राप्नुहि ॥ अयं मन्त्रः शत० २।६।२।१६-१७ व्याख्यातः ॥ १६ ।।
Essence
हे रुद्र !=शूरवीरविद्वन् ! युद्धविद्याविचक्षण सेनाध्यक्ष! यो रोदयति शत्रूँस्तत्सम्बुद्धौ अवततधन्वा अवेति निगृहीतं, ततं=विस्तृतं धनुर्येन सः, पिनाकावसः पिनष्टि शत्रून् येन तत् पिनाकं, तेनावसो पिनाकस्यावसो रक्षणं वा यस्मात्सः, कृत्तिवासाः कृत्तिश्चर्मतद्वद् दृढानि वासांसि घृतानि येन सः. शिवः सुखप्रदः परः=प्रकृष्टसामर्थ्यः प्रकृष्टः समर्थ: संस्त्वं मूजवतः=पर्वतात् बहवो मूजा=घासादयो विद्यन्ते यस्मिन् तस्मात् पर्वतात् परं शत्रूनतीहि=उल्लंघय=तस्मात् पारङ्गमय ।

यदेतत् उक्तं वक्ष्यमाणं ते=तवावसम्=पालनम् रक्षणं स्वाम्यर्थं वा अस्ति तेन रक्षणादिना न:=अस्मानहिंसन् अनाशयन्=रक्षन् सन्  अतीहि सर्वतः प्राप्नुहि ।। ३ । ६१ ।।

[हे रुद्र=शूरवीर विद्वन् !......अवततधन्वा  पिनाकावस:.....पर:=प्रकृष्टसामर्थ्यः संस्त्वं शत्रूनतीहि=उल्लंघय, यदेतत्  ते=तवावसम्=पालनमस्ति तेन नः=अस्मानहिंसन्नतीहि]
Subject
अथ रुद्रशब्देन शूरवीरकृत्यमुपदिश्यते ॥
References
हे मनुष्या ! अजातशत्रुभिर्युष्माभिर्भूत्वा निश्शत्रुकं राज्यं कृत्वा सर्वाण्यस्त्रशस्त्राणि संपाद्य दुष्टानां दण्डहिंसाभ्यां श्रेष्ठानां पालनेन भवितव्यम् ।

[हेतुमाह--]


यतो न कदाचिद् दुष्टाः सुखिनः श्रेष्ठा दुःखिताश्च भवेयुरिति ।। ३ । ६१ ।।
Special
वसिष्ठः । रुद्रः=शूरवीर सेनाध्यक्षः। भुरिगास्तारपंक्तिः । पंचमः ॥