Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 60

63 Mantra
3/60
Devata- रुद्रो देवता Rishi- वसिष्ठ ऋषिः Chhand- विराट् ब्राह्मी अनुष्टुप्, Swara- धैवतः
Mantra with Swara
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑त्। त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑॥६०॥

त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। य॒जा॒म॒हे॒। सु॒ग॒न्धिमिति॑ सुऽग॒न्धिम्। पु॒ष्टि॒वर्ध॑न॒मिति॑ पुष्टि॒ऽवर्ध॑नम्। उ॒र्वा॒रु॒कमि॒वेत्यु॑र्वारु॒कम्ऽइ॑व। बन्ध॑नात्। मृ॒त्योः। मु॒क्षी॒य॒। मा। अ॒मृता॑त्। त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। य॒जा॒म॒हे॒। सु॒ग॒न्धिमिति॑ सुऽग॒न्धिम्। प॒ति॒वेद॑न॒मिति॑ पति॒ऽवेद॑नम्। उ॒र्वा॒रु॒कमि॒वेत्यु॑र्वारु॒कम्ऽइ॑व। बन्ध॑नात्। इ॒तः। मु॒क्षी॒य॒। मा। अ॒मु॒तः॑ ॥६०॥

Mantra without Swara
त्र्यम्बकँयजामहे सुगन्धिम्पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः ॥

त्र्यम्बकमिति त्रिऽअम्बकम्। यजामहे। सुगन्धिमिति सुऽगन्धिम्। पुष्टिवर्धनमिति पुष्टिऽवर्धनम्। उर्वारुकमिवेत्युर्वारुकम्ऽइव। बन्धनात्। मृत्योः। मुक्षीय। मा। अमृतात्। त्र्यम्बकमिति त्रिऽअम्बकम्। यजामहे। सुगन्धिमिति सुऽगन्धिम्। पतिवेदनमिति पतिऽवेदनम्। उर्वारुकमिवेत्युर्वारुकम्ऽइव। बन्धनात्। इतः। मुक्षीय। मा। अमुतः॥६०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
( त्र्यम्बकम्) उक्तार्थं रुद्रं जगदीश्वरम् (यजामहे) नित्यं पूजयेमहि (सुगन्धिम्) शोभन: शुद्धो गन्धो यस्मात्तम् । अत्र गन्धस्येदुत्पूतिसुसुरभिभ्यः ॥ अ० ५ ॥ ४ ।१३५ ।। इति सूत्रेण समासान्त इतकारादेश: (पुष्टिवर्धनम्) पुष्टे: शरीरात्मबलस्य वर्धनस्तम्। अत्र नन्द्यादित्वाल्लयुः प्रत्ययः (उर्वारुकमिव) यथोर्वारुकफलं पक्वं भूत्वाऽमृतात्मकं भवति (बन्धनात्) लतासम्बन्धात् (मृत्योः) प्राणशरीरात्मवियोगात् (मुक्षीय) मुक्तो भूयासम् (मा) निषेधे (अमृतात्) मोक्षसुखात् (त्र्यम्बकम्) सर्वाध्यक्षम् (यजामहे) सत्कुर्वीमहि (सुगन्धिम्) सुष्ठु गन्धो यस्मिँस्तम् (पतिवेदनम्) पाति=रक्षति स पतिः पतेर्वेदनं=प्रापणं ज्ञानं वा यस्मात्तम् (उर्वारुकमिव) उक्तोर्थ: ( बन्धनात्) उक्तोर्थ: (इतः) अस्माच्छरीरान्मर्त्यलोकाद्वा (मुक्षीय) पृथग्भूयासम् (मा) निषेधार्थे (अमृतः) मोक्षाख्यात् परलोकात् परजन्मसुखफलाद् धर्माद्वा ।।अत्राह यास्को निरुक्ते--त्र्यम्बको रुद्रस्तं अम्बकं यजामहे सुगन्धिं सुष्ठु गन्धिं पुष्टिवर्धनं पुष्टिकारकमिवोर्वारुकमिव फलं बंधनादारोधनान्मृत्योः सकाशान् मुञ्चस्व माम् ॥ निरु० १३।४८ ॥ अयं मंत्रः शत० २ । ६ । २ । १२--१४ व्याख्यातः ॥ ६० ॥
Essence
अत्रोपमालङ्कारः ॥ नैव मनुष्या ईश्वरं विहाय कस्याप्यन्यस्य पूजनं कुर्युः, तस्य वेदाविहितत्वेन दुःखफलत्वात् । यथोर्वारुकफलं यदा लतायां लग्नं सत्, स्वयं पक्वं भूत्वा, समयं प्राप्य लताबन्धनान्मुक्त्वा सुस्वादु भवति, तथैव वयं पूर्णमायुर्भुक्त्वा, शरीरं त्यक्त्वा मुक्तिं प्राप्नुयाम ।

[अमृतान्मा मुञ्जीमहि=मा श्रद्धारहिता भूयास्म]

मा कदाचिन्मोक्षप्राप्त्यनुष्ठानात् परलोकात् परजन्मनो वा विरक्ता भवेम।

[वयं.....त्र्यम्बकंयजामहे=सततं सत्कुर्वीमहि, वयममुतः=मोक्षसुखात् सत्यसुखफलाद् धर्माद् विरक्ता माभूयास्म]

नैव नास्तिकत्वमाश्रित्य कदाचिदीश्वरस्यानादरं कुर्याम, यथा--व्यावहारिकसुखायान्नजलादिकमीप्सन्ति, तथैवेश्वरे वेदेषु तदुक्तधर्मे मुक्तौ च नित्यं श्रद्दधीमहि ॥ ३ । ६० ।।
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
वयं सुगन्धिं शोभनः शुद्धो गन्धो यस्मात्तं पुष्टिवर्धनं पुष्टे:=शरीरात्मबलस्य वर्द्धनस्तं त्र्यम्बकं=देवम् उक्त्तार्थं रुद्रं जगदीश्वरं यजामहे=नित्यं पूजयेमहि ।

एतस्य कृपयाऽहं बन्धनात् लतासम्बन्धात् उर्वारुकमिव यथोर्वारुकफलं पक्वं भूत्वाऽमृतात्मकं भवति [तथा ] मृत्योः प्राणशरीरात्मवियोगात् मुक्षीय=मुक्तो भूयासम् ।

अमृतात् मोक्षसुखात् मा मुक्षीमहि=मा श्रद्धारहिता भूयास्म।

वयं सुगन्धिं सुष्ठुगन्धो यस्मिँस्तं पतिवेदनं पाति=रक्षति स पतिः पतेर्वेदनं=प्रापणं ज्ञानं वा यस्मात्तं त्र्यम्बकं सर्वाध्यक्षं यजामहे=सततं सत्कुर्वीमहि ।

एतदनुग्रहेणाहं बन्धनाद् उर्वारुकमिव इतः अस्माच्छरीरान्मर्त्यलोकाद्वा मुक्षीय=पृथग्भूयासम् ।

 वयममुतः=मोक्षसुखात्सत्यसुखफलाद् धर्माद् मोक्षाख्यात् परलोकात् परजन्मसुखफलाद् धर्माद् वा विरक्ता मा भूयास्म । ३ । ६० ।।

[वयं....त्र्यम्बकं  देवं यजामहे=नित्यं  पूजय्येमहि, एतस्य कृपयाऽहं बन्धनादुर्वारुकमिव मृत्योर्मुक्षीय=मुक्तो भूयासम्]
Meaning of Essence
भा. पदार्थः—अमृतात्=मोक्षप्राप्त्यनुष्ठानात्, परलोकात् ,परजन्मनो वा। मुक्षीमहि= विरक्ता भवेम ।
Special
वसिष्ठः । रुद्रः=ईश्वर:।।विराड् ब्राह्मी त्रिष्टुप् ।धैवतः ।