Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 59

63 Mantra
3/59
Devata- रुद्रो देवता Rishi- बन्धुर्ऋषिः Chhand- स्वराट् गायत्री, Swara- षड्जः
Mantra with Swara
भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम्। सु॒खं मे॒षाय॑ मे॒ष्यै॥५९॥

भे॒ष॒जम्। अ॒सि॒। भे॒ष॒जम्। गवे॑। अश्वा॑य। पुरु॑षाय। भे॒ष॒जम्। सु॒खमिति॑ सु॒ऽखम्। मे॒षाय॑। मे॒ष्यै ॥५९॥

Mantra without Swara
भेषजमसि भेषजङ्गवे श्वाय पुरुषाय भेषजम् । सुखम्मेषाय मेष्यै ॥

भेषजम्। असि। भेषजम्। गवे। अश्वाय। पुरुषाय। भेषजम्। सुखमिति सुऽखम्। मेषाय। मेष्यै॥५९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(भेषजम्) शरीरान्तःकरणेन्द्रियात्मनां सर्वरोगाऽपहारकमौषधम् (असि) (भेजषम्) अविद्यादिक्लेशनिवारकम् (गवे) इन्द्रियधेनुसमूहाय (अश्वाय) तुरङ्गाद्याय (पुरुषाय) पुरुषप्रभृतये (भेषजम्) रोगनिवारकम् (सुखम्) सुखं कस्मात्सुहितं खेभ्यः खं पुनः खनतेः ॥ निरु० ३ ।१३॥(मेषाये) अवये (मेष्यै) तत्स्त्रियै ॥ अयं मंत्रः शत० २ ।६ ।२ ।११ व्याख्यातः ॥ ५९ ॥
Essence
 नहि परमेश्वरोपासनेन विना शरीरात्मप्रजानां दुःखापनयो भूत्वा सुखं जायते ।

[स त्वं नः=अस्मभ्यमस्माकं वा गवे, अश्वाय, पुरुषाय, मेषाय, मेष्यै सुखं देहि]


तस्मात्--सर्वैर्मनुष्यैरीश्वरौषधसेवनेन शरीरात्मप्रजापशूनां प्रयत्नेन दुःखानि निवार्य सुखं जननीयमिति ।। ३ । ५९ ।।
Subject
पुनः स कीदृश इत्युपदिश्यते ।।
Meaning of Anvay
 हे रुद्र=जगदीश्वर ! यः शरीररोगनाशकत्वाद् भेषजं शरीरान्त:करणेन्द्रियात्मनां सर्वरोगाऽपहारकमौषधम् असि ।

आत्मरोगदूरीकरणाद् भेषजम् अविद्यादिक्लेशनिवारकम् असि । एवं सर्वेषां दुःखनिवारकत्वाद् भेषजम् रोगनिवारकम् असि ।

स त्वं नः=अस्मभ्यमस्माकं वा गवे इन्द्रियधेनुसमूहाय अश्वाय तुरङ्गाद्याय पुरुषाय पुरुषप्रभृतये मेषाय अवये मेष्यै तत्स्त्रियै सुखं देहि ।। ३ । ५९।।

[हे रुद्र=जगदीश्वर ! यः शरीररोगनाशकत्वाद, आत्मरोगदूरीकरणाद्, एवं सर्वेषां दुःखनिवारकत्वाद् भेषजमसि ]
Special
बन्धुः । रुद्र:=ईश्वरः ॥ स्वराड् गायत्री । षड्जः ॥