Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 58

63 Mantra
3/58
Devata- रुद्रो देवता Rishi- बन्धुर्ऋषिः Chhand- विराट् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम्। यथा॑ नो॒ वस्य॑स॒स्कर॒द् यथा॑ नः॒ श्रेय॑स॒स्कर॒द् यथा॑ नो व्यवसा॒यया॑त्॥५८॥

अव॑। रु॒द्रम्। अ॒दी॒म॒हि॒। अव॑। दे॒वम्। त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। यथा॑। नः॒। वस्य॑सः। कर॑त्। यथा॑। नः॒। श्रेय॑सः। कर॑त्। यथा॑। नः॒। व्य॒व॒सा॒यया॒दिति॑ विऽअवसा॒यया॑त् ॥५८॥

Mantra without Swara
अव रुद्रमदीमह्यव देवन्त्र्यम्बकम् । यथा नो वस्यसस्करद्यद्यथा नः श्रेयसस्करद्यद्यथा नो व्यवसाययात् ॥

अव। रुद्रम्। अदीमहि। अव। देवम्। त्र्यम्बकमिति त्रिऽअम्बकम्। यथा। नः। वस्यसः। करत्। यथा। नः। श्रेयसः। करत्। यथा। नः। व्यवसाययादिति विऽअवसाययात्॥५८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
 (अव) विनिग्रहार्थे (रुद्रम्) दुष्टानां रोदयितारं परमेश्वरम् (अदीमहि) सर्वाणि दुःखानि क्षाययेम=नाशयेम । अत्र दीङ् क्षय इत्यस्माल्लिङर्थे लङ् । बहुलं छन्दसीति श्यनो लुक् (अव) अवगमार्थे (देवम्) दातारम् (त्र्यम्बकम्) अमति येन ज्ञानेन तदम्बं त्रिषु कालेष्वेकरसं ज्ञानं यस्य तम् । अत्र अमगत्यादिष्वस्माद् बाहुलकेन करणकारके बः प्रत्ययस्ततः । शेषाद्विभाषा ।अ॰ ५ ।४ ।१५४ ॥इति समासान्तः कप् प्रत्ययः (यथा) येन प्रकारेण (नः) अस्मान् (वस्यसः) येऽतिशयेन वसन्ति ते वसीयांसस्तान् । अत्र छान्दसो वर्णलोपो वेतीकारलोपः (करत्) कुर्य्यात् । अयं लेट् प्रयोगः ।डुकृञ् करण इत्यस्य भ्वादिगणान्तर्गत पठितत्वाच्छब्विकरणोऽत्र गृह्यते । तनादिभिः सह पाठादुविकरणोपि । कः करत्करति कृधिकृतेष्वनदितेः ॥ अ० ८। ३ । ५० ॥ नित्यं करोतेः ॥ अ० ६ ।४ ।१०८ ॥ एताभ्यां द्वाभ्यां ज्ञापकाभ्यामप्युभयगणप्रयोगः कृञ्गृह्यते (यथा) (नः) अस्मान् (श्रेयसः) अतिशयेन प्रशस्तान् (करत्) कुर्य्यात् अत्रापि लेट् (यथा) (नः) अस्मान् (व्यवसाययात्) निश्चयवतः कुर्य्यात् । अयं व्ययपूर्वात् षोऽन्तकर्मणीति णिजन्ताद्धातोः प्रथमपुरुषकवचने तिपि लेट् प्रयोगः ।। अयं मंत्र: शत० २ । ६ । २ । ११ व्याख्यातः ।। ५८ ।।
Essence
नहीश्वरस्योपासनेन विना कश्चिन्मनुष्यः सर्वदुःखान्तं गच्छति ।

[स यथा नः=अस्मान् वस्यसः, श्रेयसोऽवकरत्, व्यवसाययात् तथा तं वसीयांसं श्रेयांसं व्यवसायप्रदं परमेश्वरमेव प्रार्थयामः]

 यः सर्वान् सुखनिवासान्, प्रशस्तान्, सत्यनिश्चयान् करोति, तस्यैवाज्ञा सर्वैः पालनीयेति ।। ३ । ५८ ।।
Subject
अथ रुद्रशब्देनेश्वर उपदिश्यते ॥
Meaning of Anvay
वयं त्र्यम्बकम् अमति येन ज्ञानेन तदम्बं त्रिषु कालेष्वेकरसं ज्ञानं यस्य तं देवं दातारं रुद्रं=जगदीश्वरं दुष्टानां रोदयितारं परमेश्वरम् उपास्य दुःखान्यवादीमहि=अवक्षाययेम सर्वाणि दुःखानि क्षाययेम=नाशयेम ।

 स यथा येन प्रकारेण नः=अस्मान् वस्यसः येऽतिशयेन वसन्ति ते वसीयांसस्तान् अवकरत् अवगमं=कुर्य्यात् यथा येन प्रकारेण नः=अस्मान् श्रेयसः अतिशयेन प्रशस्तान् अवकरत् कुर्य्यात; यथा येन प्रकारेण नः=अस्मान् व्यवसाययात् निश्चयवतः कुर्य्यात्, तथा तं वसीयांसं श्रेयांसं व्यवसायप्रदं परमेश्वरमेव प्रार्थयामः ॥ ३। ५८ ।।

                        [वयं त्र्यम्बकं रुद्रं=जगदीश्वरमुपास्य दुःखान्यवादीमहि=शवक्षाययेम]
Meaning of Essence
भा० पदार्थः--वस्यस्य:=सुखनिवासान् । श्रेयसः=प्रशस्तान् । व्यवसाययात्=सत्यनिश्चयान् करोति । करत्=करोति ।।
Special
बन्धुः ।रुद्रः=ईश्वरः ॥ विराट् पंक्तिः । पञ्चमः ।।