Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 57

63 Mantra
3/57
Devata- रुद्रो देवता Rishi- बन्धुर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒गऽआ॒खुस्ते॑ प॒शुः॥५७॥

ए॒षः। ते॒। रु॒द्र॒। भा॒गः। स॒ह। स्वस्रा॑। अम्बि॑कया। तम्। जु॒ष॒स्व॒। स्वाहा॑। ए॒षः। ते॒। रु॒द्र॒। भा॒गः। आ॒खुः। ते॒। प॒शुः ॥५७॥

Mantra without Swara
एष ते रुद्र भागः सह स्वस्राम्बिकया तञ्जुषस्व स्वाहैष ते रुद्र भाग आखुस्ते पशुः ॥

एषः। ते। रुद्र। भागः। सह। स्वस्रा। अम्बिकया। तम्। जुषस्व। स्वाहा। एषः। ते। रुद्र। भागः। आखुः। ते। पशुः॥५७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(एषः) प्रत्यक्षः (ते) तवास्य वा (रुद्र) रोदयत्यन्यायकारिणो जनान् स रुद्रः=स्तोता तत्सम्बुद्धौ । रुद्र इति स्तोतृनामसु पठितम् ॥ निघं० ३ ।१६ ॥रुद्र इत्येतस्य त्रयस्त्रिंशद्देवव्याख्याने प्राणसंज्ञेत्युक्तम् ।रुद्र रौतीति सतो रोरूयमाणो द्रवतीति वा रोदयतेर्वा यदरुदत्तद्रुद्रस्य रुद्रत्वमिति काठकं, यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति हारिद्रविकम् ।।निरु० १० ।५ ॥ रोदेर्णिलुक च ॥ उ० २ ।२२ ॥अनेन रुद्रशब्दः सिद्ध: (भागः) सेवनीयः (सह) संगे (स्वस्रा) सुष्ठवस्यति=प्रक्षिपति यया विद्यया क्रियया वा तया । सावसेर्ऋन् । उ० २ ।९६ ॥ अनेन सवसृशब्दः सिध्यति (अम्बिकया) अम्बते=शब्दयति यया तया (तम्) भागम् (जुषस्व) सेवस्व सेवते वा । अत्र पक्षे व्यत्ययो लडर्थे लोट् च (स्वाहा) शोभनं देयमादेयमाह यया सा (एषः) वक्ष्यमाणः (ते) तवास्य वा (रुद्र) उक्तार्थ: (भागः) भजनीयः (आखुः) समन्तात्खनत्यवदृणाति येन भोजनसाधनेन सः । अत्र आङ्परयोः खनिशुभ्यां डिच्च । उ० १ ।३३ ॥ इति कुप्रत्ययो डित्संज्ञा च (पशुः) यो दृश्यते भोग्यपदार्थसमूहः समक्षे स्थापितः सः । अत्र अजिदृशिकमि० ॥ १ ॥ २७ ॥ इत्यौणादिकसूत्रेणास्य सिद्धिः। अयं मंत्रः शत० २।६। २।९-१० व्याख्यातः ।। ५७॥
Essence
अत्र श्लेषालङ्कारः ।।यथा भ्राता प्रियया विदुष्या भगिन्या सह वेदादिशब्दविद्यां पठित्वाऽऽनन्दं भुङ्क्ते,

[योऽयं रुद्रः=प्राणस्ते=अस्य रुद्रस्य योऽयं भागोऽम्बिकया स्वस्रा सह जुषस्व=सेवते ]

यथा चायं प्राणः श्रेष्ठया शब्दविद्यया प्रियो जायते, तथैव विद्वान् शब्दविद्यां प्राप्य सुखी जायते ।

[तात्पर्यमाह--]

नैताभ्यां विना कश्चिदपि सत्यं ज्ञानं सुखभोगं च प्राप्तुं शक्नोतीति ॥ ३ । ५७ ।।
Subject
अथ मनोलक्षणकथनानन्तरं प्राणलक्षणमुपदिश्यते ॥
Meaning of Anvay
 हे रुद्रा != स्तोतः ! रोदयत्यन्यायकारिणो जनान् स रुद्रः स्तोता तत्सम्बुद्धौ ते=तवैष प्रत्यक्षः भागः सेवनीयः अस्ति, तं त्वमम्बिकिया अम्बते=शब्दयति यया तया स्वस्रा सुष्ठ्वस्यति=प्रक्षिपति यया विद्यया तया सह सङ्गे जुषस्व सेवस्व ।

हे रुद्र ! ते=तवैषोऽयं भागः सेवनीयः स्वाहा शोभनं देयमादेयमाह यया सा अस्ति, तं सेवस्व।

हे रुद्र ! ते=तवैष वक्ष्यमाणः आखुः समन्तात् खनत्यवदृणाति येन भोजनसाधनेन स पशुः यो दृश्यते भोग्यपदार्थ समूहः समक्षे स्थापितः सः चास्ति, तं भागं जुषस्वः सेवस्वेत्येकः ।।

 योऽयं रुद्रः=प्राणस्ते=अस्य रुद्रस्य योऽयं भागः सेवनीय: अम्बिकया अम्बते=शब्दयति यया तया स्वस्रा सुष्ठ्वस्यति=प्रक्षिपति यया क्रियया तयासह जुषस्व=सेवते ।

तेऽस्य रुद्रस्यैषोऽयं स्वाहा शोभनं देयमादेवमाह यया सा भाग: भजनीयः, तथा यस्ते=अस्याखुः समन्तात् खनत्यवदृणाति येन भोजनसाधनेन सः पशुः यो दृश्यते भोग्यपदार्थसमूहः समक्षे स्थापितः सः चास्ति, यमयं सततं जुषस्व=सेवते, तं सर्वे मनुष्याः सेवन्ताम् [इति द्वितीयः] ॥ ३ ॥ ५७ ।।

[हे रुद्र=स्तोतः ! ते=तवैष भागोऽस्ति, तं त्वमम्बिकया स्वस्रा सह जुषस्व]
Meaning of Essence
भा० पदार्थ:--रुद्र=भ्रातः । स्वस्रा=वेदादिशब्दविद्यया, भगिन्या । अम्बिकया=विदुष्या ।
Special
बन्धुः । रुद्रः=विद्वान् और प्राण ।निचृदनुष्टुप् । गान्धारः ।।