Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 56

63 Mantra
3/56
Devata- सोमो देवता Rishi- बन्धुर्ऋषिः Chhand- गायत्री, Swara- षड्जः
Mantra with Swara
व॒यꣳ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः। प्र॒जाव॑न्तः सचेमहि॥५६॥

व॒यम्। सो॒म॒। व्र॒ते। तव॑। मनः॑। त॒नूषु॑। बिभ्र॑तः। प्र॒जाव॑न्त॒ इति॑ प्रजाऽव॑न्तः। स॒चे॒म॒हि॒ ॥५६॥

Mantra without Swara
वयँ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥

वयम्। सोम। व्रते। तव। मनः। तनूषु। बिभ्रतः। प्रजावन्त इति प्रजाऽवन्तः। सचेमहि॥५६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वयम्) मनुष्याः (सोम) सुवति चराचरं जगत्तत्सम्बुद्धौ जगदीश्वर ! अथवा सूयन्ते रसा यस्मात्स सोम औषधिराज: (व्रते) सत्यभाषणादिधर्मानुष्ठाने (तव) अस्य वा (मनः) अन्तःकरणस्थाहङ्कारादिवृत्तिम् (तनूषु) विस्तृतसुखशरीरेषु (बिभ्रतः) धारयन्तः पोषयन्तश्च (प्रजावन्तः) बह्वयः सुसन्तानराष्ट्राख्याः प्रजा विद्यन्ते येषान्ते । अत्र भूम्यर्थे मतुप् (सचेमहि ) समवेयाम ॥ ५६ ।।
Essence
अत्र श्लेषालङ्कारः ॥ ईश्वरस्याज्ञायां वर्तमाना मनुष्याः शरीरात्मसुखं नित्यं प्राप्नुवन्ति ।

[तव= अस्य [सोम]=सोमस्य व्रते=सत्याचरणनिमित्ते........वयं सर्वैः सुखैः सचेमहि=नित्यं समवेयाम ]

 एवं सोमाद्योषधिसेविनोऽपि तत्सुखं समवयन्ति; नेतर इति ।। ३ । ५६ ।।
Subject
अथ सोमशब्देनेश्वरौषधिरसा उपदिश्यन्ते ॥
Meaning of Anvay
हे सोम=जगदीश्वर ! सुवति चराचरं जगत्तत्सम्बुद्धौ जगदीश्वर ! तव [व्रते]=सत्याचरणरूपे व्रते सत्यभाषणादिधर्मानुष्ठाने वर्तमानास्तनूषु विस्तृतसुखशरीरेषु मनः अन्तःकरणस्याहङ्कारादिवृत्तिं बिभ्रतः धारयन्तः पोषयन्तश्च सन्तः प्रजावन्तः बह्वयः सुसन्तानराष्ट्राख्याः प्रजा विद्यन्ते येषान्ते सन्तो वयं मनुष्याः सर्वैः सुखैः सचेमहि समवेयामेत्येकः ॥

तव=अस्य [सोम]=सोमस्य सूयन्ते रसा यस्मात्स सोम औषधिराज: [तस्य] व्रते=सत्याचरणनिमित्ते तनूषु विस्तृतसुखशरीरेषु मनः अन्तःकरणस्याहङ्कारादिवृत्तिं बिभ्रतः धारयन्तः पोषयन्तश्च सन्तः प्रजावन्तः बह्वयः सुसन्तानराष्ट्राख्या: प्रजा विद्यन्ते येषां ते भूत्वा वयं मनुष्याः सर्वैः सुखैः सचेमहि=नित्यं समवेयामेति द्वितीयः ।। ३ । ५६ ।।

[ हे सोम=जगदीश्वर ! तव [व्रते]=सत्याचरणरूपे व्रते वर्तमानाः ..........वयं सर्वैः सुखैः सचेमहि=नित्यं समवेयाम ]
Meaning of Essence
मा० पदार्थ:-- व्रते=ईश्वरस्याज्ञायाम् ।
Special
बन्धुः। सोमः=ईश्वर, औषधिरसश्च ॥ गायत्री ।षड्जः ।।