Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 55

63 Mantra
3/55
Devata- मनो देवता Rishi- बन्धुर्ऋषिः Chhand- निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑। जी॒वं व्रात॑ꣳसचेमहि॥५५॥

पुनः॑। नः॒। पि॒त॒रः॒। मनः॑। ददा॑तु। दैव्यः॑। जनः॑। जी॒वम्। व्रा॑तम्। स॒चे॒म॒हि॒ ॥५५॥

Mantra without Swara
पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवँ व्रातँ सचेमहि ॥

पुनः। नः। पितरः। मनः। ददातु। दैव्यः। जनः। जीवम्। व्रातम्। सचेमहि॥५५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पुनः) अस्मिन् जन्मनि पुनर्जन्मनि वा (नः) अस्मभ्यम् (पितरः) पान्त्यन्नसुशिक्षाविद्यादानेन तत्संबुद्धौ (मनः) धारणावतीं बुद्धिम् (ददातु) प्रयच्छतु (दैव्यः) यो देवेषु=विद्वत्सु जातो विद्वान् । अत्र देवाद्यञञौ ॥ [अ० ४ ।१ ।८५ ॥ इति वार्तिकेन प्राग्दीव्यतीयान्तर्गते जातेर्थे यञ् प्रत्ययः (जनः) यो विद्याधर्माभ्यां परोपकारान् जनयति=प्रकटयति (जीवम्) ज्ञानसाधनयुक्तम् (व्रातम्) व्रतानां=सत्यभाषणादीनां समूहस्तत् (सचेमहि ) समवेयाम ॥ अयं मंत्रः शत० २ ।६ ।१ ।३९ व्याख्यातः ॥ ५५ ।।
Essence
नहि मनुष्याणां, विदुषां मातापित्राचार्याणां च सुशिक्षया बिना मनुष्यजन्म साफल्यं सम्भवति,

[येन वयं जीवं व्रातं सचेमहि=समवेयाम]

न च मनुष्यास्तया बिना पूर्णं जीवनं कर्म च समवैतुं शक्नुवन्ति ।

[तात्पर्यमाह--]

तस्मात्--सर्वदा मातापित्राचार्यैः स्वसन्तानानि सम्यगुपदेशेन शरीरात्मबलवन्ति कर्त्तव्यानीति ।। ३ । ५५ ।।
Subject
पुनर्मनःशब्देन बुद्धिरुपदिश्यते ।।
Meaning of Anvay
रे पितरः !=जनका ! विद्याप्रदाश्च पान्त्यन्नसुशिक्षाविद्यादानेन तत्सम्बुद्धौ ! भवच्छिक्षया दैव्यः यो देवेषु=विद्वत्सु जातो जनो यो विद्याधर्माभ्यां परोपकारान् जनयति=प्रकटयति [सः]विद्वान् नः=अस्मभ्यं पुनः पुनः अस्मिन् जन्मनि पुनर्जन्मनि वा मनः=धारणावतीं बुद्धिं ददातु प्रयच्छतु ।

येन वयं जीवं ज्ञानसाधनयुक्तं व्रातं व्रतानां=सत्यभाषणादीनां समूहस्तत्सचेमहि=समवेयाम ।। ३ । ५५ ।।

[हे पितरः=जनका ! विद्याप्रदाश्च भवाच्छिक्षया.....विद्वान्  नः=अस्मभ्यं पुनः पुनर्मनः=धारणवतीं बुद्धिं ददातु]
References
भा० पदार्थः-- पितर:=विद्वांसो मातापित्राचार्या: । जीवम्=मनुष्यजन्म, जीवनम् । व्रातम्=कर्म ।
Special
बन्धुः । मनः=बुद्धिः ॥ निचृद्गायत्री। षड्जः ॥