Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 54

63 Mantra
3/54
Devata- मनो देवता Rishi- बन्धुर्ऋषिः Chhand- विराट् गायत्री, Swara- षड्जः
Mantra with Swara
आ न॑ऽएतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। ज्योक् च॒ सूर्यं॑ दृ॒शे॥५४॥

आ। नः॒। ए॒तु॒। मनः॑। पुन॒रिति॒ पुनः॑। क्रत्वे॑। दक्षा॑य। जी॒वसे॑। ज्योक्। च॒। सूर्य॑म्। दृ॒शे ॥५४॥

Mantra without Swara
आ न एतु मनः पुनः क्रत्वे दक्षाय जीवषे । ज्योक्च सूर्यन्दृशे ॥

आ। नः। एतु। मनः। पुनरिति पुनः। क्रत्वे। दक्षाय। जीवसे। ज्योक्। च। सूर्यम्। दृशे॥५४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) समन्तात् (नः) अस्मान् (एतु) प्राप्नोतु (मनः) स्मरणात्मकं चित्तम् (पुनः) वारं वारं जन्मनि जन्मनि वा (क्रत्वे) सद्विद्याशुभकर्मानुभूतसंस्कारस्मृतये । क्रतुरिति कर्मनामसु पठितम् ॥ निघं० २ ।१ ॥ (दक्षाय) बलप्राप्तये । दक्ष इति बलनामसु पठितम् ॥ निघं. २ ॥॥ (जीवसे) जीवितुम् । अत्र तुमर्थे से० । इत्यसे प्रत्ययः (ज्योक्) निरन्तरम् (च) समुच्चये (सूर्यम्) परमेश्वरं सवितृमण्डलं प्राणं वा (दृशे) द्रष्टुम्। अत्र दृशे विख्ये च ॥ अ॰ ३ ।४ ।११ ॥ इत्ययं निपातितः ॥ अयं मन्त्रः शत० २ ।६ ।१ । ३९ व्याख्यातः ॥ ५४ ॥
Essence
मनुष्यैः श्रेष्ठकर्मानुष्ठानेन चित्तशुद्धिं कृत्वा पुनःपुनर्जन्मनि चित्तप्राप्तिरेवापेक्ष्या, येन मनुष्यजन्म प्राप्येश्वरोपासनं संराध्य निरन्तरं सद्धर्मोऽनुसेव्य इति ॥ ३ । ५४ ॥
Subject
पुनस्तन्मनः कीदृशमित्युपदिश्यते ॥
Meaning of Anvay
यन्मनः स्मरणात्मकं चित्तं ज्योक्=निरन्तरं सूर्यं परमेश्वरं, सवितृमण्डलं, प्राणं वा दृशेद्रष्टुं क्रत्वे सद्विद्याशुभकर्मानुभूतं संस्कारस्तृत ये दक्षाय बलप्राप्तये जीवसे जीवितुं च=अन्येषां शुभकर्मणामनुष्ठानायास्ति तत् नः=अस्मान् [पुनः]=पुनः पुनः, वारं वारं जन्मनि जन्मनि वा आ=समन्ताद् एतु=प्राप्नोतु ।। ३ । ५४ ।।

[ यन्मनः.....क्रत्वे......जीवसे  च=अन्येषां शुभकर्मणामनुष्ठानायास्ति तन्नः=अस्मान् [पुनः]=पुनः पुनः आ=समन्तादेतु=प्राप्नोतु ]
Special
बन्धुः । मनः=स्पष्टम् ॥ विराड् गायत्री । षड्जः ।।