Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 53

63 Mantra
3/53
Devata- मनो देवता Rishi- बन्धुर्ऋषिः Chhand- अतिपाद निचृत् गायत्री, Swara- षड्जः
Mantra with Swara
मनो॒ न्वाह्वा॑महे नाराश॒ꣳसेन॒ स्तोमे॑न। पि॒तॄ॒णां च॒ मन्म॑भिः॥५३॥

मनः॑। नु। आ। ह्वा॒म॒हे॒। ना॒रा॒श॒ꣳसेन॑। स्तोमे॑न। पि॒तॄ॒णाम्। च॒। मन्म॑भि॒रिति॒ मन्म॑ऽभिः ॥५३॥

Mantra without Swara
मनो न्वाह्वमहे नाराशँसेन स्तोमेन । पितऋृणाञ्च मन्मभिः ॥

मनः। नु। आ। ह्वामहे। नाराशꣳसेन। स्तोमेन। पितॄणाम्। च। मन्मभिरिति मन्मऽभिः॥५३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मनः) मननशीलं संकल्पविकल्पात्मकम् (नु) क्षिप्रार्थे (आ) समन्तात् क्रियायोगे (ह्वामहे) स्पर्धामहे (नाराशंसेन) नराणां समन्ताच्छंसः=प्रशंसनं नराशंसः, नराशंसेन निर्वृत्तस्तेन (स्तोमेन) स्तुतियुक्तेन व्यवहारेण (पितृणाम्) पालकानामृतूनां ज्ञानवतां मनुष्याणां वा (च) समुच्चये (मन्मभिः) मन्यन्ते=जानन्ति यैस्तैः । अत्र सर्वधातुभ्यो मनिन् ॥ उ० ४ ।१४५ ॥ इति मन्निन्प्रत्ययः । अयं मंत्र: शत० २ । ६ । १ । ३९ व्याख्यातः ।। ५३ ।।
Essence
मनुष्यैर्मनुष्यजन्मसाफल्यार्थं विद्यादिगुणयुक्तं मनः कर्त्तव्यम् ।

 यथर्तवः स्वान् स्वान् गुणान् क्रमेण प्रकाशयन्ति यथा च विद्वांसः क्रमशोऽन्यामन्यां च विद्यां साक्षात्कुर्वन्ति, तथैव सततमनुष्ठाय विद्याप्रकाशौ प्राप्तयौ । ३ । ५३ ।।
Subject
अथ मनसो लक्षणमुपदिश्यते ॥
Meaning of Anvay
वयं नाराशंसेन नराणां समन्ताच्छंसः=प्रशंसनं नराशंसः, नराशंसेन निर्वृत्तस्तेन स्तोमेन स्तुतियुक्तेन व्यवहारेण पितृणां पालकानामृतूनां ज्ञानवतां मनुष्याणां वा च मन्मभिः मन्यन्ते जानन्ति यैस्तैः मनः मननशीलं संकल्प-विकल्पात्मकं नु क्षिप्रम्,आह्वामहे समन्तात् स्पर्द्धामहे ॥ ३ ॥ ५३ ॥

[वयं नाराशंसेन स्तोमेन, पितॄणां च मन्मभिर्मनो न्वाह्वामहे]
Meaning of Essence
भा॰ प्रदार्थ:--पितृणाम् ऋतूनाम्--विदुषाम् । मन्मभिः=गुणप्रकाशैः/विद्यासाक्षात्कारैः ।।
Special
बन्धुः । मन्त्रः=स्पष्टम् ।। अतिपादनिचृद्गायत्री । षड्जः ।।