Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 52

63 Mantra
3/52
Devata- इन्द्रो देवता Rishi- गोतम ऋषिः Chhand- विराट् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन् वन्दिषी॒महि॑। प्र नू॒नं पू॒र्णब॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒२ऽअनु॒ योजा॒ न्विन्द्र ते॒ हरी॑॥५२॥

सु॒सं॒दृश॒मिति॑ सुऽसं॒दृश॑म्। त्वा॒। व॒यम्। मघ॑व॒न्निति॒ मघ॑ऽवन्। व॒न्दि॒षी॒महि॑। प्र। नू॒नम्। पू॒र्णब॑न्धुर॒ इति॑ पू॒र्णऽब॑न्धुरः। स्तु॒तः। या॒सि॒। वशा॑न्। अनु॑। योज॑। नु। इ॒न्द्र॒। ते॒। हरी॒ऽइति॒ हरी॑ ॥५२॥

Mantra without Swara
सुसन्दृशं त्वा वयम्मघवन्वन्दिषीमहि । प्र नूनम्पूर्णबन्धुर स्तुतो यासि वशाँ अनु योजा न्विन्द्र ते हरी ॥

सुसंदृशमिति सुऽसंदृशम्। त्वा। वयम्। मघवन्निति मघऽवन्। वन्दिषीमहि। प्र। नूनम्। पूर्णबन्धुर इति पूर्णऽबन्धुरः। स्तुतः। यासि। वशान्। अनु। योज। नु। इन्द्र। ते। हरीऽइति हरी॥५२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सुसंदृशम्) यः सुष्ठु पश्यति दर्शयति वा तम् (त्वा) त्वां तं वा (वयम्) मनुष्याः (मघवन्) परमोत्कृष्टधनयुक्तेश्वर, धनप्राप्तिहेतुर्वा (वन्दिषीमहि) नमेम=स्तुवीमहि (प्र) प्रकृष्टार्थे (नूनम् ) निश्चयार्थे (पूर्णबन्धुरः) यः पूर्णश्चासौ बन्धुरश्च सः, पूर्णस्य जगतो बन्धुरो=बन्धनहेतुर्वा (स्तुतः) स्तुत्या लक्षितः (यासि) प्राप्नोषि प्रापयति वा । अत्र पक्षे व्यत्ययः (वशान्) कामयमानान् पदार्थान् (अनु) पश्चात् (योज) योजय युङ्क्ते वा। अत्रापि पूर्ववद् व्यत्ययदीर्घत्वे (नु) उपमार्थे (इन्द्र) जगदीश्वर सूर्यस्य वा (ते) तवास्य वा (हरी) बलपराक्रमौ धारणाकर्षणे वा ॥ अयं मंत्रः शत० २ ।६ ।१ ।३८ व्याख्यातः॥
Essence
अत्र श्लेषोपमालङ्कारौ ॥ मनुष्यैः सर्वजगद्धितकारी जगदीश्वरो वन्दितव्यो नैवेतरः ।

यथा सूर्यो मूर्तद्रव्याणि प्रकाशयति तथोपासितः सोपि भक्तजनात्मसु विज्ञानोत्पादनेन सर्वान् सत्यव्यवहारान् प्रकाशयति तस्मान्नैश्वरं विहाय कस्यचिदन्यस्योपासनं कर्त्तव्यमिति ।। ३ ।५२।।
Subject
स इन्द्रः कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
                                                                       [ईश्वरपक्षः]

हे मघवन् ! परमोत्कृष्ट धनयुक्तेश्वर ! इन्द्र ! जगदीश्वर ! वयं मनुष्याः ससंदृशं यः सुष्ठु पश्यति तं त्वां [नूनं] निश्चयेन वन्दिषीमहि नमेम स्तुवीमहि ।

अस्माभिः स्तुतः स्तुत्या लक्षितः पूर्णबन्धुरः यः पूर्णश्चासौ बन्धुरश्च सः संस्त्वं [नु] यथा वशान्=कामान् कामयमानान् पदार्थान् [प्र] यासि प्रापयसि (प्रकृष्टं प्राप्नोषि) । ते=तव हरी बलपराक्रमौ त्वम् [अनुयोज]= अनुप्रयोज पश्चत्=योजय । इत्येकः ।।

[सूर्यपक्षः]

 वयं मनुष्याः सुसंदृशं सुष्ठु दर्शयति तं मघवन्=मघवन्तं धनप्राप्तिहेतुं [पूर्ण बन्धुरः]=पूर्णबन्धुरं पूर्णस्य जगतो बन्धुरं=बन्धनहेतुं त्वा=तमिमं [इन्द्र ]=सूर्यलोकं नूनं निश्चयेन वन्दिषीमहि स्तुवीमहि ।

स्तुतः=प्रकाशितगुणः स्तुत्या लक्षितः सन्नयं वशान्=उत्कृष्टव्यवहारसाधकान् कामान् कामयमानान् पदार्थान् [प्र] यासि=प्रापयति (प्रकृष्टं प्रापयति ) ।

हे विद्वंस्त्वं [नु]=यथा  ते=अस्येन्द्रस्य हरी धारणाकर्षणे अस्मिन् जगति युङ्क्तः, तथैव विद्यासिद्धिक- राण्यनुप्रयोगेति द्वितीयः ।।३ ।५२ ।।

[ हे......इन्द्र ! वयं सुसंदृशं  त्वा=त्वां [नूनं ] वन्दिषीमहि]
References
(यासि) प्राप्नोषि, प्रापयति वा । यहाँ पक्ष में व्यत्यय है। (योजा) योजय युङ्क्ते वा । यहाँ भी पूर्ववत् व्यत्यय और दीर्घ है। इस मन्त्र की व्याख्या शत० (२ ।६ ।१ । ३८) में की गई है । ३ । ५२ ॥

[ईश्वरपक्षः]
Meaning of Essence
भा० पदार्थ:--सुसंदृशम्=मूर्तद्रव्यप्रकाशकम् [सूर्यम्], भक्तजनात्मसु विज्ञानोत्पादनेन सर्वसत्यव्यवहार प्रकाशकम् (ईश्वरम्) ।
Special
गोतमः ।इन्द्रः=इन्द्रः सूर्यश्च ॥ विराट् पंक्तिः । पंचमः ।।