Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 51

63 Mantra
3/51
Devata- इन्द्रो देवता Rishi- गोतम ऋषिः Chhand- विराट् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒याऽअ॑धूषत। अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्विन्द्र ते॒ हरी॑॥५१॥

अक्ष॑न्। अमी॑मदन्त। हि। अव॑। प्रि॒याः। अ॒धू॒ष॒त॒। अस्तो॑षत। स्वभा॑नव॒ इति॑ स्वऽभा॑नवः। विप्राः॑। नवि॑ष्ठया। म॒ती। योज॑। नु। इ॒न्द्र॒। ते॒। हरी॒ऽइति॒ हरी॑ ॥५१॥

Mantra without Swara
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा निविष्ठया मती योजा न्विन्द्र ते हरी ॥

अक्षन्। अमीमदन्त। हि। अव। प्रियाः। अधूषत। अस्तोषत। स्वभानव इति स्वऽभानवः। विप्राः। नविष्ठया। मती। योज। नु। इन्द्र। ते। हरीऽइति हरी॥५१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अक्षन्) अदन्ति । अत्र लडर्थे लुङ् । मन्त्रे घसह्व० इति च्लेर्लुक् । गमहनजन॰ इत्युपधालोप: । शासिवसिघ॰ इति षत्वम् । खरिचेति चर्त्वम् (अमीमदन्त) आनन्दयन्ति । अत्र लडर्थे लुङ् (हि) खलु (अव) विरुद्धार्थे (प्रियाः) प्रसन्नताकारकाः (अधूषत) दुष्टान् दोषांश्च कम्पयन्ति । अत्र लडर्थे लुङ् (अस्तोषत) स्तुवन्ति । अत्र लडर्थे लुङ् (स्वभानवः) स्वकीया भानुर्दीप्तिः प्रकाशो येषां ते (विप्राः) मेधाविनः (नविष्ठया) अतिशयेन नवा=नविष्टा तय (मती) मत्या । अत्र सुपां सुलुगिति पूर्वसवर्णादेश: (योज) योजयति । अत्र विकरणव्यत्ययेन शप् । लडर्थे लोडन्तर्गतो ण्यर्थो द्व्यचोतस्तिङ् इति दीर्घश्च (नु) क्षिप्रार्थे (इन्द्र) सभापते ! (ते) अस्य (हरी) बलपराक्रमौ ॥ अयं मन्त्रः शत० २ ।६ ।१ ।३८ व्याख्यातः ॥ ५१ ।।
Essence
मनुष्यैः प्रतिदिनं नवीनविज्ञानक्रियावर्द्धनेन भवितव्यम् । यथा विद्वत्सङ्गशास्त्राध्ययने नवीनां नवीनां मतिं क्रियां च जनयन्ति तथैव सर्वैर्मनुष्यैरनुष्ठेयमिति ।। ३ । ५१ ।।
Subject
तेन यज्ञादिव्यवहारेण किं भवतीत्युपदिश्यते ॥
Meaning of Anvay
हे इन्द्र सभापते ! ते=तव अस्य ये स्वभानवः स्वकीया भानुर्दीप्तिः=प्रकाशो येषां ते अवप्रियाः विरुद्धं प्रसन्नताकारकाः विप्राः मेधाविनः नविष्ठया अतिशयेन नवा, नविष्ठा तया मती=मत्या हि=खलु परमेश्वरमस्तोषत=स्तुवन्ति, अक्षन्=श्रेष्ठान्नादिकमदन्ति, अमीमदन्त=आनन्दयन्ति, तस्मात्ते शत्रून् दुःखानि च नु अधूषत=क्षिप्रं धुन्वन्तिदुष्टान् दोषाँश्च कम्पयन्ति त्वमप्येतेषु [ते]=स्वकीयौ  हरी=बलपराक्रमौ योज=संयोजय (योजयति ) ॥ ३ ॥ ५१ ॥

[विप्रा नविष्ठया मती=मत्या हि=खलु परमेश्वरमस्तोषत=स्तुवान्ति, अक्षन्=श्रेष्ठान्नादिकमदन्ति]
Special
गोतमः ।इन्द्रः=सभापतिः । विराट् पंक्तिः । पंचमः ॥