Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 50

63 Mantra
3/50
Devata- इन्द्रो देवता Rishi- और्णवाभ ऋषिः Chhand- भूरिक् अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे। नि॒हारं॑ च॒ हरा॑सि मे नि॒हारं॒ निह॑राणि ते॒ स्वाहा॑॥५०॥

दे॒हि। मे॒। ददा॑मि। ते॒। नि। मे॒। धे॒हि॒। नि। ते॒। द॒धे॒। नि॒हार॒मिति॑ नि॒ऽहार॑म्। च॒। हरा॑सि। मे॒। नि॒हार॒मिति॑ नि॒ऽहार॑म्। नि। ह॒रा॒णि॒। ते॒। स्वाहा॑ ॥५०॥

Mantra without Swara
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारञ्च हरासि मे निहारन्निहराणि ते स्वाहा ॥

देहि। मे। ददामि। ते। नि। मे। धेहि। नि। ते। दधे। निहारमिति निऽहारम्। च। हरासि। मे। निहारमिति निऽहारम्। नि। हराणि। ते। स्वाहा॥५०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देहि) (मे) मह्यम् ( ददामि ) (ते) तुभ्यम् (नि) नितराम् (मे) मम (धेहि) धारय (नि) नितराम् (मे) मम  (धेहि) धारय (ते) तव (दधे) धारये (निहारम्) मूल्येन क्रेतव्यं वस्तु नितरां ह्रियते तत् (च) समुच्चये (हरासि) हर=प्रयच्छ । अयं लेटप्रयोगः (मे) मह्यम् (निहारम्) पदार्थमूल्यम् (नि) नितराम् (हराणि) प्रयच्छानि (ते) तुभ्यम् (स्वाहा ) सत्यवागाह ॥ अयं मंत्रः शत० २।५ । ३ । १९-२० व्याख्यातः ॥ ५० ॥
Essence
सर्वैर्मनुष्यैर्दानग्रहणनिःक्षेपोपनिध्यादिव्यवहाराः सत्यत्वेनैव कार्याः । तद्यथा--केनचिदुक्तमिदं वस्तु त्वया देयं न वा, यदि वदेद् ददामि, दास्यामि वेति तर्हि तत्तथैव कर्त्तव्यम् ।

[त्वं मे=ममेदं वस्तु निधेहि=अहं ते=तवेदं निदधे]

  केनचिदुक्तं ममेदं वस्तु त्वं स्वसमीपे रक्ष, यदाहमिच्छेयं तदा देयमेवमहं तवेदं वस्तु रक्षयामि यदा त्वमेष्यसि तदा दास्यामि=तस्मिन् समये दास्यामि त्वत्समीपभागमिष्यामि वा, त्वया ग्राह्यं, मम समीपमा गन्तव्यमित्यादयो व्यवहाराः सत्यवाचा कार्याः ।

[हेतुमाह--]


नैतैर्विना कस्यचित् प्रतिष्ठाकार्यसिद्धी स्यातां, नैताभ्यां विना काश्चित् सततं सुखं प्राप्तुं शक्नोतीति ।। ३ । ५० ।।
Subject
अथ सर्वाश्रमव्यवहार उपदिश्यते ॥
Meaning of Anvay
 हे मित्र ! त्वं यथा स्वाहा=सत्यावागाहेत्येवं मे=मह्यमिदं देह्यहं च ते=तुभ्यमिदं ददामि ।

त्वं मे ममेदं वस्तु निधेहि नितरां धारय, अहं ते=तवेदं निदधे नितरां धारये ।

त्वं मे=मह्यं निहारं मूल्येन क्रेतव्यं वस्तु नितरां ह्रियते तत् हरासि हर-प्रयच्छ, अहंते=तुभ्यं निहारं पदार्थमूल्यं निहराणि=नितरां ददामि नितरां प्रयच्छानि ।। ३ । ५० ।।

[हे मित्र! त्वं यथा स्वाहा=सत्यावागाहेत्येवं मे=वस्तु मह्यमिदं देह्यहं च ते=तुभ्यमिदं ददामि]
Special
और्णवाभः। इन्द्रः=व्यवहारविद्या ॥ भुरिगनुष्टुप् । गान्धारः ।