Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 5

63 Mantra
3/5
Devata- अग्निवायुसूर्य्या देवताः Rishi- प्रजापतिर्ऋषिः Chhand- दैवी बृहती,निचृत् बृहती, Swara- मध्यमः
Mantra with Swara
भूर्भुवः॒ स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा। तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे॥५॥

भूः। भुवः॑। स्वः॑। द्यौरि॒वेति॒ द्यौःऽइ॑व। भू॒म्ना। पृ॒थि॒वीवेति॑ पृथि॒वीऽइ॑व। व॒रि॒म्णा॒। तस्याः॑। ते॒। पृ॒थि॒वि॒। दे॒व॒य॒ज॒नीति॑ देवऽयजनि। पृ॒ष्ठे। अ॒ग्निम्। अ॒न्ना॒दमित्य॑न्नऽअ॒दम्। अ॒न्नाद्या॒येत्य॑न्न॒ऽअद्या॑य। आ। द॒धे॒ ॥५॥

Mantra without Swara
भूर्भुवः स्वर्द्यौरिव भूम्ना पृथिवीव वरिम्णा तस्यास्ते पृथिवि देवयजनि पृष्ठेग्निमन्नादमन्नाद्याया दधे ॥

भूः। भुवः। स्वः। द्यौरिवेति द्यौःऽइव। भूम्ना। पृथिवीवेति पृथिवीऽइव। वरिम्णा। तस्याः। ते। पृथिवि। देवयजनीति देवऽयजनि। पृष्ठे। अग्निम्। अन्नादमित्यन्नऽअदम्। अन्नाद्यायेत्यन्नऽअद्याय। आ। दधे॥५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
 (भूः) भूमि । भूरिति वै प्रजापतिरिमामजनयत (भुवः) भूवरित्यन्तरिक्षम् (स्वः) स्वरिति दिवमेतावद्वा इदं सर्वं यावदिमे लोकाः, सर्वेणैवाधीयते ॥ शत० २ ।१।४ ।११ ॥ (द्यौरिव) यथा सूर्यप्रकाशयुक्त आकाशे (भूम्ना) विभुना (पृथिवीव) यथा विस्तृता भूमि: (वरिम्णा) श्रेष्ठगुणसमूहेन (तस्याः) वक्ष्यमाणाया: (ते) अस्याः प्रत्यक्षायाः । अत्र व्यत्ययः (पृथिवि) पृथिव्याः (देवयजनि) देवा यजन्ति यस्यां तस्याः । अत्रोभयत्र प्रातिपदिकनिर्देशानामर्थतन्त्रात्यष्ठ्यर्थे प्रथमा विपरिणम्यते (पृष्ठे) उपरि (अग्निम् ) भौतिकम् (अन्नादम्) योऽन्नं=यवादिकं सर्वमत्ति तम् (अन्नाद्याय) अत्तुं योग्यमद्यमन्नं च तदद्यं चान्नाद्यं तस्मै (आ) समन्तात् (दधे) स्थापयामि ॥ अयं मंत्रः शत० २ । १।४।९-२८ व्याख्यातः ।। ५ ।।
Essence
अत्रोपमालङ्कारौ ॥ हे मनुष्या ! यूथमीश्वरेण रचितं त्रैलोक्योपकारकं स्वव्याप्त्या सूर्यप्रकाशसदृशं श्रेष्ठैर्गुणैः पृथिवीसमानं स्वस्वलोके सन्निहितमिममग्निं कार्यसिद्ध्यर्थं प्रयत्नेनोपयोजयत ।। ३।५ ॥
Subject
पुनः स किमर्थं उपयोजनीय इत्युपदिश्यते ॥
Meaning of Anvay
अहमन्नाद्याय अत्तुं योग्यमद्यमन्नं च तदद्य चान्नाद्यं तस्मै भूम्ना विभुना द्यौरिव यया सूर्यप्रकाशयुक्त आकाशे वरिम्णा श्रेष्ठगुणसमूहेन पृथिवीव यथा विस्तृता भूमि ते=अस्याः प्रत्यक्षायाः  तस्याः=अप्रत्यक्षाया अन्तरिक्षलोकस्थाया वक्ष्यमाणायाः देवयजनि=देवयजन्या: देवा यजन्ति यस्यां तस्याः पृथिवि = पृथिव्याः पृष्ठे=पृष्ठोपरि भूः भूमि भुवः (भुवरित्यन्तरिक्षं) स्वः (स्वरिति दिवं) लोकान्तर्गतमन्नादं योऽन्नं=यवादिकं सर्वमत्ति तम् अग्निं भौतिकम् आदधे=स्थापयामि समन्तात् स्थापयामि ॥ ३ ॥ ५ ॥

[अहम्.......भूम्ना द्यौरिव, वरिम्णा पृथिवीव.......भूर्भुवः स्वर्लोकान्तर्गतम्...... अग्निमादधे=स्थापयामि ]
Special
प्रजापतिः । अग्निवायुसूर्य्याः=स्पष्टम् ॥दैवी बृहती। द्यौरिवेत्यस्य। निचृद् बृहती । उभयत्र मध्यमः स्वरः ।।