Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 49

63 Mantra
3/49
Devata- यज्ञो देवता Rishi- और्णवाभ ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒राप॑त। व॒स्नेव॒ वि॒क्री॑णावहा॒ऽइ॒षमूर्ज॑ꣳ शतक्रतो॥४९॥

पू॒र्णा। द॒र्वि॒। परा॑। प॒त॒। सुपू॒र्णेति॒ सुऽपूर्णा। पुनः॑। आ। प॒त॒। वस्नेवेति॑ व॒स्नाऽइ॑व। वि। क्री॒णा॒व॒है॒। इष॑म्। ऊर्ज॑म्। श॒त॒क्र॒तो॒ऽइति॑ शतऽक्रतो ॥४९॥

Mantra without Swara
पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत । वस्नेव वि क्रीणावहा इषमूर्जँ शतक्रतो ॥

पूर्णा। दर्वि। परा। पत। सुपूर्णेति सुऽपूर्णा। पुनः। आ। पत। वस्नेवेति वस्नाऽइव। वि। क्रीणावहै। इषम्। ऊर्जम्। शतक्रतोऽइति शतऽक्रतो॥४९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पूर्णा) होतव्यद्रव्येण परिपूर्णा (दर्वि) पाकसाधिका होतव्यद्रव्यग्रहणार्था । अत्र सुपां सुलुगिति सुलोपः (परा) ऊर्ध्वार्थे । परेत्येतस्य प्रातिलोम्यं प्राह ॥ निरु० १ ।३ ॥ (पत) पतति=गच्छति । अत्रोभयत्र व्यत्ययो लडर्थे लोट् च (सुपूर्णा) या सुष्ठु पूर्यते सा (पुनः) पश्चादर्थे (आ) समन्तात् (पत) पतति=गच्छति (वस्तेव) पण्यक्रियेव (वि) विशेषार्थे क्रियायोगे (क्रीणावहै) व्यवहारयोग्यानि वस्तूनि दद्याव गृह्णीयाव वा (इषम्) अभीष्टमन्नम् (ऊर्जम्) पराक्रमम् (शतक्रतो) शतमसंख्याताः क्रतवः=कर्माणि, प्रज्ञा यस्येश्वरस्य तत्सम्बुद्धौ ॥ अयं मंत्रः शत० २ ।५ ।३ ।१५--१७ व्याख्यातः ॥ ४९॥
Essence
अत्रोपमालङ्कारः । यन्मनुष्यैः सुगन्ध्यादिद्रव्यमग्नौ हूयते तदूर्ध्वं गत्वा वायुवृष्टि जलादिकं शोधयत् पुनः पृथिवीमागच्छति, येन यवादय ओषध्यः शुद्धाः सुखपराक्रमप्रदा जायन्ते ।

[हे शतक्रतो ! तव कृपया आवाभृत्विग्यज्ञपती  वस्नेवेषमूर्जं च विक्रीणावहै]

यथा वणिग्जनो रूप्यादिकं दत्त्वा गृहीत्वा द्रव्यान्तराणि क्रीणीते, विक्रीणीते च तथैवाग्नौ द्रव्याणि दत्त्वा, प्रक्षिप्य वृष्टिसुखादिकं क्रीणीते, वृष्ट्योषध्यादिकं गृहीत्वा पुनर्वृष्टये विक्रीणीतेऽग्नौ होमः क्रियत इति ।। ३ ।। ४९ ।।
Subject
यज्ञे हुतं द्रव्यं कोदृशं भवतीत्युपदिश्यते ॥
Meaning of Anvay
या दर्वि पाकसाधिका होतव्यद्रव्यग्रहणार्था [पूर्णा]=होतव्यद्रव्येण पूर्णा परिपूर्णा होमसाधिका भूत्वा परापत=पतत्यूर्ध्वं द्रव्यं गमयति ऊर्ध्वं पतति=गच्छति;याऽऽहुतिराकाशं गत्वा वृष्ट्या [सुपूर्णा]=पूर्णा या सुष्ठु पूर्यते सा भूत्वा पुनः पश्चात् [आपत]=आपतति=समन्तात्=पृथिवीं शोभनं जलरसं गमयति,समन्तात् पतति=गच्छति,

तया हे शतक्रतो! शतमसंख्याताः क्रतवः=कर्माणि, प्रज्ञा यस्येश्वरस्य तत्सम्बुद्धौ ! तव कृपया आवामृत्विग्यज्ञपती वस्नेव पण्यक्रियेव इषम् अभीष्टमन्नम् ऊर्जं पराक्रमं च विक्रीणावहै विशेषेण व्यवहारयोग्यानि वस्तूनि दद्याव, गृह्णीयाव वा ।। ३ । ४९ ।।

[या दर्विं [पूर्णां]=होतव्यद्रव्येण पूर्णां होमसाधिका भूत्वा परापत=गत्वा वृष्ट्या [सुपूर्णा]=पूर्णां भूत्वा पुनः [आपत] आपतति=समन्तात्पृथिवीं शोभनं जलरसं गमयति]
Special
और्णवाभः । यज्ञः=स्पष्टम् । अनुष्टुप् । गान्धारः ॥