Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 3 / Mantra 48

63 Mantra
3/48
Devata- यज्ञो देवता Rishi- और्णवाभ ऋषिः Chhand- ब्राह्मी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑तमेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि॥४८॥

अव॑भृ॒थेत्यव॑ऽभृथ। नि॒चु॒म्पु॒णेति॑ निऽचुम्पुण। नि॒चे॒रुरिति॑ निचे॒रुः। अ॒सि॒। नि॒चु॒म्पु॒ण इति॑ निऽचुम्पु॒णः। अव॑। दे॒वैः। दे॒वकृ॑त॒मिति॑ दे॒वऽकृ॑तम्। एनः॑। अ॒या॒सि॒ष॒म्। अव॑। मर्त्यैः॑। मर्त्य॑कृत॒मिति॒ मर्त्य॑ऽकृतम्। पु॒रु॒ऽराव्ण॒ इति पुरु॒ऽराव्णः॑। दे॒व॒। रि॒षः। पा॒हि॒ ॥४८॥

Mantra without Swara
अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः । अव देवैर्देवकृतमेनो यासिषमव मर्त्यैर्मर्त्यकृतम्पुरुराव्णो देव रिषस्पाहि ॥

अवभृथेत्यवऽभृथ। निचुम्पुणेति निऽचुम्पुण। निचेरुरिति निचेरुः। असि। निचुम्पुण इति निऽचुम्पुणः। अव। देवैः। देवकृतमिति देवऽकृतम्। एनः। अयासिषम्। अव। मर्त्यैः। मर्त्यकृतमिति मर्त्यऽकृतम्। पुरुऽराव्ण इति पुरुऽराव्णः। देव। रिषः। पाहि॥४८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अवभृथ) विद्याधर्मानुष्ठानेन शुद्ध ।अत्र अवे भृञ॰ ॥ उ० २।३॥ इति क्थन् प्रत्ययः (निचुम्पुणः) धैर्येण शब्दविद्याध्यापक ।नितरां चोपति=मन्दं मन्दं चलति तत्सम्बुद्धौ । अत्र चुप् धातोर्बहुलकादुणःप्रत्ययो मुमागमश्च । नीचैरस्मिन् क्वणन्ति नीचैर्दधतीति वा । अवभृथ निचुम्पुणेत्यपि निगमो भवति । निचुम्पुण निचुंकुणेति च ॥ निरु० ५ ॥ १८ ॥ निचुम्पुण इति पदनामसु पठितम् ॥ निघं॰ ४ ।२ ॥अनेन प्राप्तज्ञानो मनुष्यो गृह्यते (निचेरु:) यो नितरां चिनोति सः । अत्र निपूर्वकाच्चिञ् धातोर्बाहुलकादौणादिको रुः प्रत्ययः (असि) भव । अत्र लोडर्थे लट् (निचुम्पुण:) उक्तार्थ: (अव) विनिग्रहार्थे (देवैः) द्योतनात्मकैर्मनआदीन्द्रियैः (देवकृतम्) यद्देवैरिन्द्रियैः कृतं तत् (एनः) पापम् (अयासिषम् ) करोमि । अत्र लडर्थे लुङ् (अव) नीचगत्यर्थे (मर्त्यैः) मरणधर्मैः शरीरै: (मर्त्यकृतम्) अनित्यदेहेन निष्पादितम् (पुरुराव्णः) यः पुरूणि=बहूनि दुःखानि राति=ददाति स पुरुरावा तस्मात् । अत्र आतो मनिन्क्वनिब्वनिपश्चेति वनिप् प्रत्ययः (देव) जगदीश्वर ! (रिषः) हिंसकाच्छत्रोः पापाच्च (पाहि) रक्ष ॥ ४८ ।।
Essence
अत्र वाचकलुप्तोपमालङ्कार ॥ मनुष्यैः पापनिवृत्तये धर्मप्रवृत्तये परमेश्वरो नित्यं प्रार्थ्यं यानि मनोवचः कर्मभिः पापानि सन्ति तेभ्यो दूरे स्थातव्यम् ।

[देवैः=इन्द्रियैर्देवकृतं मर्त्यैर्मर्त्यकृतमेनोऽवायासिषम्=दूरतस्त्यजामि]

यत्किंचिदज्ञानात्पापमनुष्ठितं तद् दुःखफलं विज्ञाय द्वितीयवारं न समाचारणीयम्, किन्तु--सर्वदा पवित्र- कर्मानुष्ठानमेव वर्धनीयम् ।।३।४८ ।।
Subject
अथ यज्ञानुष्ठातृकृत्यमुपदिश्यते ।।
Meaning of Anvay
हे अवभृथ ! विद्याधर्मानुष्ठानेन शुद्ध ! निचुम्पुण ! धैर्येण शब्दविद्याध्यापक ! नितरां चोपति=मन्दं मन्दं चलती तत्सम्बुद्धौ ! यथाहं निचुम्पुण: (उक्तार्थ:) निचेरु: यो नितरां चिनोति सः सन् देवैः= इन्द्रियैः द्योतनात्मकैर्मन्आदीन्द्रियैः देवकृतं यद्देवैरिन्द्रियैः कृतं तत् मर्त्यैः मरणधर्मैः शरीरैः मर्त्यकृतम् अनित्यदेहेन निष्पादितम् एनः पापम् अवायासिषं=दूरतस्त्त्यजामि, विनिग्रहं करोमि, तथा त्वमत्यसि=भव, अवयाहि=दूरतस्त्यज।

  हे देव=जगदीश्वर ! अस्मान् पुरुराव्णः यः पुरूणि= बहूनि दुःखानि राति=ददाति स पुरुरावा तस्मात् रिषः= हिंसालक्षणात्पापात् हिंसकात् शत्रोः पापाच्च पाहि=दूरे रक्ष॥

[ हे देव=जगदीश्वर ! अस्मान्…पुरुराव्णो रिषः=हिंसालक्षणात्पापात् पाहि=दूरे रक्ष]
Meaning of Essence
भा० पदार्थ:--रिषः=मनोवचः कर्मभिः कृतात् पापात् । मर्त्यकृतम्=अज्ञानादनुष्ठितम् (पापम् )॥
Special
और्णवाभः । यज्ञः=शुभकर्म ॥ ब्राह्म्यनुष्टुप् । गान्धारः ।।